भर्गाख्यः पञ्चमांशः - एकोनत्रिंशोऽध्यायः
श्रीशिवरहस्यम्
देवी -
त्वत्तः श्रुतानि क्षेत्राणि पुण्यानि परमेश्वर । लिङ्गानि देवदेवेश दर्शनात् पुण्यदानि च ॥१॥
स्मरणान्मुक्तिदानीश पूजनाद् ज्ञानदानि च । अविमुक्तस्य महिमा त्वया नैवोपवर्णितः ॥२॥
किं वा तत्कारणं शम्भो किमन्यत् त्वत्प्रियङ्करम् । क्षेत्रमस्ति महादेव वद गुह्यमपि प्रभो ॥३॥
इति देव्या वचः श्रुत्वा करुणारससागरः । शङ्करः प्राह तां देवीं श्रृणुध्वं मुनिपुङ्गवाः ॥४॥
ईश्वरः -
एष द्वादशलिङ्गानां महिमा ज्योतिषां शिवे । मया तवानुपूर्वेण सेतिहासं च कृत्स्नशः ॥५॥
अविमुक्तस्य महिमा विश्वेशस्यापि वैभवम् । कथयाम्यग्रतो देवि संग्रहादधुनोदितः ॥६॥
त्रियम्बकस्य महिमा तत्र किञ्चिन्मयोदितः । अस्मिन्नेवाग्रतो देवि सप्तनांशे महेश्वरि ॥७॥
वैभवं विश्वनाथस्य लिङ्गानां चानुपूर्वशः । कावेरी नाम देवेशि नदी पुण्य़ा सरिद्वरा ॥८॥
यथा भागीरथी गङ्गा विन्ध्यस्योत्तरवाहिनी । तथैव सा महादेवि विन्ध्याद् दक्षिणमास्थिता ॥९॥
तत्रत्यदिव्यलिङ्गानां क्षेत्राणामपि शङ्करि । वैभवं कथयाम्यग्रे अस्मिन्नंशे हि सप्तमे ॥१०॥
अधुनां संप्रबक्ष्यामि हरिद्वारस्य वैभवम् । सावधानमनाः पुण्यं श्रृणु भूधरकन्यके ॥११॥
हरिद्वारमिति ख्यातं तीर्थमीशानतुष्टिदम् । गङ्गायमुनयोर्यत्र प्रभेदो दृश्यतेंऽबिके ॥१२॥
तत्रास्ति लिङ्गमत्कृष्टं हरिणा पूजितं पुरा । तत्रास्ति वनमुन्मत्तगजेन्द्रपरिसेवितम् ॥१३॥
करेणुभिः परिवृतं मृगेन्द्रैरुपशोभितम् । हिमवच्छिखरं चान्यत् केदारात् पश्चिमे स्थितम् ॥१४॥
नानाद्रुमशतोपेतं तपस्विजनसेवितम् । वैखानसैर्वालखिल्यैस्तथा मुनिगणैरपि ॥१५॥
तपसः सिद्धिमिच्छद्भिः तपःस्थानमनुत्तमम् । रम्यशार्दूलसंयुक्तः (?) सरिद्भिः सागरोपमैः ॥१६॥
नीलतालीवनोपेतं वातझर्झरपत्रकम् । गङ्गा प्रभूता यत्रासीत् तत्रास्ति विमलं सरः ॥१७॥
कल्लोलमालाकलितं तमालकदलीवृतम् । मन्दारतरुभिः छन्नं मन्दमारुतवीजितम् ॥१८॥
सहस्रपत्रैः कमलैः शोभितं स्वच्छवालुकम् । तत्रास्ति लिङ्गमीशानि हरिद्वारेश्वराभिधम् ॥१९॥
तल्लिङ्गमूलतो देवि गङ्गा यत्र विनिर्गता ।
देवी -
कथं गङ्गा महादेव हरिद्वारद्विनिर्गता । किञ्च तत्करणं शम्भो वद मह्यं महेश्वर ॥२०॥
महेश्वरः -
श्रृणु शैलसुते बाले विशालनयनेऽम्बिके । विष्णुः पुरा तपस्तप्यन् मामाराध्यावसच्छिवे ॥२१॥
भस्माभ्यक्ततनुर्देवि त्रिपुण्टरावलिभासुरः । नीलिमाननभभ्राजच्छारदाभ्रगणो यथा ॥२२॥
नीलतोयदमध्यस्थत्रिपुण्ट्रतडिदुद्यतः । रुद्रमावर्तयंस्तस्थौ मम पञ्चाक्षरादरः ॥२३॥
हरिद्वारेश्वरं लिङ्गं बिल्वैरभ्यर्च्य संस्थितः । त्वत्पितुर्वारुणे देवि शिखरे रमया तदा ॥२४॥
कालं निन्ये तपोराशिः कालकालार्चनेन हि । रमन्तं तं तपस्यन्तं रुद्राक्षवरधारिणम् ॥२५॥
रुद्रविन्यस्तमनसं रुद्राध्यायजपादरम् । फलपुष्पाणि चिन्वन्ती भर्तुः पूजाप्रकल्पने ॥२६॥
दीपदा शङ्करस्याग्रे पाककर्त्री शिवाय वै । नैवेद्यैस्तर्पयामास हरिद्वारेशमीश्वरम् ॥२७॥
उत्फुल्लकमलैरीशं कमलापि समार्चयत् । हरिद्वारेश्वरं लिङ्गं बिल्वपत्रैश्च कोमलैः ॥२८॥
तपस्यन्तं हरिद्वारे हरिं द्रष्टुं समागताः । ब्रह्माण्डजं समारुह्य सिन्धुरं वृत्रहा तथा ॥२९॥
लोकपालगणाः सर्वे नारदाद्याश्च शङ्करि । दृष्ट्वा तं हरिमत्युग्रतपसश्च परायणम् ॥३०॥
ब्रह्मा प्राहामरश्रेष्ठं विबुधैः परिवारितः ॥
ब्रह्मा -
किं ते कार्यं समुद्युक्तं भवता तप्यते तपः । हिमवच्छिखरे पुण्ये लक्ष्म्या साकं हरे वद ॥३१॥
तदा पुतामहवचो निशम्य हरिरव्ययः । ध्यात्वा मां स तदा प्राह प्रणम्य परमेश्वरम् ॥३२॥
विष्णुः -
विश्वोश्वरोऽयं मदनान्तकोऽयं गङ्गाधरोऽयं त्रिपुरान्तकोऽयम् ।
भगान्तकोऽयं हि यमान्तकोऽयं मखान्तकोऽयं च भवान्तकोऽयम् ॥३३॥
अस्यैव देवस्य महेश्वरस्य लिङ्गार्चनात् पूततरोऽस्मि धन्यः ।
चक्रं सहस्रारमिदं सुदर्शनं लब्धं तथाऽन्यैरपि दुर्जयोऽहम् ॥३४॥
तस्मात् पुरारिमाराध्य चक्रं लब्धं सुदर्शनम् । दैवासुरे तदा युद्धे जयातेनाभवन्मम ॥३५॥
तस्मादुग्रान्महादेवाद् भवाद्भीमात् कपर्दिनः । लप्स्ये मनोरथान् ब्रह्मन् तेनाहं तपसि स्थितः ॥३६॥
ब्रह्मा -
कस्ते मनोरथो विष्णो देवेन त्वं प्रवोधितः । पुरा लब्धवरश्चासि देवदेवान्महेश्वरात् ॥३७॥
विष्णुः -
तत्तथैवाद्य मे ब्रह्मन् मुरो नामासुरो बली । दृष्ट्वा विवस्त्रां मत्पत्नीं रमां सर्वाङ्गसुन्दरीम् ॥३८॥
क्रीडन्तीं सखिभिः सार्धमस्मिन् सरसि पावने । कमलान्युपचिन्वन्तीं हरिद्वारेश्वरार्चने ॥३९॥
चकमेऽथासुरः कामाद् ज्ञास्तस्याशयो मया । तदा चक्रनिकृत्तं तमकार्षं च विधे तदा ॥४०॥
तदा सर्वे मुनिगणा मामवोचुः प्रहर्षिताः ।
मुनयः -
साधु साधु हरे तेऽद्य कृतं कर्म सुदुष्करम् । तपस्विजनरक्षायै तपोविघ्नकरः सदा ॥४१॥
यज्ञघ्नश्च सदा पापी सुराणामपि कण्टकः । किञ्चायं देवदेवेशात् पूर्वं लब्धवरोऽसुरः ॥४२॥
भक्तश्च देवदेवेशे तस्माच्छापैर्न योजितः । भक्तस्य हनने पापममितं खलु वै हरे ॥४३॥
अत्र तत्पापशान्त्यर्थं हरिद्वारेशमीश्वरम् । तपसा तोषयस्वाद्य पूजया च सदा हरम् ॥४४॥
सर्वत्र निष्कृतिर्दृष्टा शिवद्रोहे न निष्कृतिः । तस्माच्छिवैकशरणः शिवात् पूतो भविष्यसि ॥४५॥
इत्युक्तो मुनिभिर्ब्रह्मन् भक्तस्य हननेन हि । प्रपतं पापसमूहं मे तस्माद्यक्ष्ये महेश्वरम् ॥४६॥
सपापेष्वपि भक्तेषु किं पुनः पुण्यकर्मसु । इत्युक्त्वा देवदेवेशं हरिद्वारेशमीश्वरम् ॥४७॥
प्रणम्य परया भक्त्या तुष्टाव हरिरव्ययम् ॥
विष्णुः -
तरङ्गविलसज्जटं वृषतुरङ्गखेलद्गतिं भुजङ्गकृतकङ्कणं हरिशशाङ्कभारोद्वहम् ।
पतङ्गनयनं सदा मुहुरनङ्गदाहे रतं निषङ्गपयसान्निधिं क्षितिरथाङ्गमीशं भजे ॥४८॥
असङ्गिजनसङ्गतं मुनिजनार्च्यलिङ्गस्थितं दृशा करुणया ततं गिरिसुतार्धभागस्थितम् ।
विधीन्द्रसुरसंस्तुतं मुहुरनन्यभावं अतं प्रसीदतु भवान् हि मां परमपापतापैर्हतम् ॥४९॥
शम्भो विश्वेश भर्ग त्रिनयन भगवन् पाहि मामीश दृष्ट्या
दृष्ट्वा तुष्टोऽहमीश स्थितिलयजननापारसंसारमग्नः ।
मत्पापानि विनाशयाशु सुतरां शुद्धे पदे देहि मे
स्नातुं वारि महाघहारि भगवन्नस्मिन् वरे भूधरे ॥५०॥
सूतः -
इत्थं हरिस्तदा स्तुत्वा ब्रह्मादिविबुधैः सह । तस्मै दिशामि तत्सर्वं प्रत्यक्षीकृतविग्रह ॥५१॥
ईश्वरः -
किं त्वत्प्रियकरं विष्णो यन्मतः प्राप्तुमिच्छसि । ब्रह्माद्यैस्तद्ददस्वाद्य प्रसन्नोऽहं तवानघ ॥५२॥
विष्णुः प्रणम्य देवेशं वरमेनमयाचत ॥
विष्णुः -
पुरा त्रिपथगा शम्भो पातालान्तरचारिणी । वियत्पथगता त्वेका चैका पातालवाहिनी ॥५३॥
ब्रह्माण्दोरुकटाहान्मे पूर्वं विक्रमता मया । मत्पादघट्टनाज्जाता सापि भूमितलं गताः ॥५४॥
पीता च जह्नुना शम्भो निलीना सा नृपं गता । मत्पादतोयं मत्पापनाशकं नु कथं भवेत् ॥५५॥
वियत्पथगता त्वेका भगीरथवरात् त्वया । गङ्गागर्वोपशान्त्यर्थं त्वया मूर्ध्नि विधारिता ॥५६॥
तामद्येशान देवेश प्रार्थितोऽसि मयाघहृत् । देहि शम्भो महादेव इत्थं प्रार्थितवान् हरिः ॥५७॥
हरिद्वारमहालिङ्गपादपीठाद्विनिर्गता । तदोत्सृष्टा मया गङ्गा दिव्या त्रिपथगा शिवे ॥५८॥
तुङ्गैस्तरङ्गैर्वितता फुल्लपङ्कजशोभिता । कल्हारमालावितता अविमुक्तपंथ गता ॥५९॥
हिमवच्छिखराद् देवि मत्पादतलनिर्गता । तस्यां विष्णुस्तदा लक्ष्म्या ब्रह्मादिविबुधैः सह ॥६०॥
स्नात्वा स्वपापशान्त्यर्थं अविमुक्तं तदा गतः । नानालिङ्गशतोपेतं स विश्वेशं प्रणम्य च ॥६१॥
स्तुत्वा स्तोत्रवरैर्विष्णुः बिल्वपत्रैः सुरैः सह । तुष्टाव च महेशानं कृपाराशीं तदाम्बिके ॥६२॥
विष्णुः -
उत्फुल्लकल्हारविलोलहारं मन्दारमल्लीसुमपूजिताङ्घ्रिम् ।
हल्लीसलास्यप्रियया समेतं मल्लिङ्गगं बिल्वदलोत्तमाङ्गम् ॥६३॥
निशाराजकलामौलिं देवराजसमर्चितम् । राजराजसखं वन्दे फणिराजाङ्घ्रिकङ्कणम् ॥६४॥
इत्थं स विष्णुः स्तुतिभिस्तथा मां स्तुत्वा तदा ब्रह्ममुखामरेन्द्रैः ।
विनिर्गतो मत्पदलोललीला मद्गाङ्गसङ्गाब्धितरङ्गरङ्गम् ॥६५॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे हरिद्वारमाहात्म्ये विष्णुतपो - गङ्गानिर्गम - स्नानफलवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 14, 2017
TOP