संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
एकोनचत्वारिंशो‍ऽध्यायः

भर्गाख्यः पञ्चमांशः - एकोनचत्वारिंशो‍ऽध्यायः

श्रीशिवरहस्यम्


सूतः -
आवन्त्येनाथ विप्रेण केचित् पुण्यलवान्विताः । जन्ममध्ये सकृद्वापि ये पञ्चाक्षरतत्पराः ॥१॥
कदाचिद्भस्मनिटिला दूराद्ये शिवदर्शिनाः । प्रदोषे सोमवारेषु शिवरात्रिषु चापि ये ॥२॥
शैवालापपरा ये वै ये च तत्सङ्गिसङ्गिनः । ययुस्तेऽपि विमानेन भावरेण शिवान्तिकम् ॥३॥
ते गणाश्च महेशानं तांस्तदादर्शयंस्तदा । विभ्राजमानवपुषः प्रणेमुर्दण्डवत् क्षितौ ॥४॥
साञ्जलि प्रणताः सर्वे जय देवेति वादिनः । तदोचुस्ते तदा विप्रा गणास्तेऽपि महेश्वरम् ॥५॥
गणाः -
त्वं सच्चिदानन्दघनोऽसि सेतुविधारणो भूतपतिस्तथा वयम् ।
आनन्दलेशेन चिदामलेन सत्वेन युक्ता धुतकिल्बिषाश्च ॥६॥
जनिता पवनानलाब्जबन्धोर्जनिता भूमिदिवोर्मतेश्च शम्भो ।
जगतो जनिता महेश्वरस्त्वं जनिता वृत्रहणो मुरान्तकस्य ॥७॥
वर्षासु मेघगणगर्जनदुर्दिनेषु नीला भ्रमध्यवहगर्जितविद्युदुत्थः ।
मधुरुशगतभानुहस्तमध्यः सुकृपातर्पणवर्षकालजातः ॥८॥
वर्ष्योऽसि मेध्योऽसि च वैद्युतोऽसि अतप्यवर्योऽसि महेश्वरस्त्वम् ।
त्वं रुद्रमन्त्रैः प्रतिपादितोऽसि दीनानिमान् पाहि महेश दृष्ट्या ॥९॥
त्वद्दर्शनान्महादेव प्रदोषे शैवपूजितम् । लिङ्गं मनोहरं दृष्टं बिल्वपत्रादिपूजितम् ॥१०॥
त्वद्दर्शनात् पापयुक्तो मुक्तोऽ‍यं त्वत्कृपाबलात् । त्वद्दर्शनमघौघानां नाशकं श्रीमहेश्वर ॥११॥
त्वन्नामस्तुतिमात्रेण दग्धपातकपर्वताः । भविष्यन्ति महादेव नानापापयुता नराः ॥१२॥
तव पादाम्बुजद्वन्द्वध्यातनिर्धूतकल्मषाः । तव लिङ्गार्चनात् सर्वे पुनन्ति भुवनं जनाः ॥१३॥
एतान् नारकिणो देव आवन्त्येन समागतान् । पश्य पश्याधुना शम्भो किञ्चित्पुण्यलवान्वितान् ॥१४॥
प्रणम्य देवमीशानमावन्त्येनाथ नारकाः । प्राहू राहुमुखोन्मुक्तसूर्या इव विराजिताः ॥१५॥
नारकाः -
उरुचिरकृतपापतापभङ्गं कुरु शिव शङ्कर नः प्रसीद शम्भो ।
सुरवरतटीनीजटोरुराजस्फुटगरकन्धर पाहि दीनबन्धो ॥१६॥
तरङ्गमौलिं शशिलिङ्गमौलिं वन्दारुवृन्दार्चितपुष्पमौलिम् ।
सुबिल्वगन्धोत्तमलिप्तमौलिं भजामि शम्भुं सुरवर्गमौलिम् ॥१७॥
शम्भो जगत् सृष्टमिदं विशिष्टं शिष्टस्य निष्ठस्य तवाङ्घ्रिपद्मे ।
कष्टानि संहर्तुमहो त्वमीष्टे प्रकृष्टलिङ्गे परिगृह्य पूजाम् ॥१८॥
काले तिथौ कष्टहरे महेश भक्तैः कृतां नीरजलैः फलैर्वा ।
प्रदोषवेलास्वथ पापतापहीनासु शंभो प्रकटं प्रसीद ॥१९॥
इति नारकिणां वाक्यात् तुष्टः कष्टहरः शिवः । प्राह् तान् गणपश्रेष्ठास्तांश्च नारकिणस्तदा ॥२०॥
शिवः -
मल्लिङ्गार्चनसक्तानां प्रदोषार्चनकारिणाम् । शिवरात्रिपराणां च सोमवारव्रतात्मनाम् ॥२१॥
कालाष्टमीचतुर्दश्यां निशि शङ्करपूजनात् । न यमं यमलोकं वा ते पश्यन्ति गणाः क्कचित् ॥
न्न पापभयलेशोऽस्ति तेषु नैव गणोत्तमाः ॥२२॥
बाणलिङ्गं यस्य गृहे सदा बिल्वदलार्चितम् । न यमं यमलोकं वा स पश्यति गणाः क्कचित् ॥२३॥
यो भस्मोद्धूलिततनुस्त्रिपुण्ड्रावलिभासुरः । न यमं यमलोकं वा स पश्यन्ति गणाः क्कचित् ॥२४॥
पञ्चाक्षरपरो यस्तु श्रीरुद्रजपतत्परः । न यमं यमलोकं वा स पश्यन्ति गणाः क्कचित् ॥२५॥
व्रतिनः सोमवारेषु प्रदोषेषु महेश्वरम् ।
समभ्यर्च्य बिल्वदलैर्ये पश्यन्ति च पूजितम् । न यमं यमलोकं वा स पश्यन्ति गणाः क्कचित् ॥२६॥
शिवलिङ्गं गृहे वापि ये वै देवालयेऽपि वा । न यमं यमलोकं वा स पश्यन्ति गणाः क्कचित् ॥२७॥
विल्वपत्रार्चनपराः बिल्वार्चनरता नराः । न यमं ......... क्कचित् ॥२८॥
शिवारामकरा ये च तटाकं कूपमेव च । ये कुर्व्नति नरा भक्त्या धूपदीपप्रदा नराः ॥
न यमं ......... क्कचित् ॥२९॥
शिवगोपुरनिर्माणं प्राकारं मण्टपं तथा । ये कुर्युरिष्टकासंघैः पाषाणैः सुधयामि च ।
न यमं ......... क्कचित् ॥३०॥
शिवलिङ्गार्चनपराः शिवनामपरास्तथा । न यमं ......... क्कचित् ॥३१॥
शिवतीर्थकृतस्नानाः शिवक्षेत्रनिवासिनः । न यमं ......... क्कचित् ॥३२॥
शिवभक्तार्चनपरा भोजनाच्छादनादिभिः । न यमं ......... क्कचित् ॥३३॥
दीपमालादिकर्तारः पुण्ये सायं विशेषतः । घृतैस्तैलैः सदा भक्त्या ते नरा धूतकिल्विषाः ॥
न यमं ......... क्कचित् ॥३४॥
शिवाभिषेकपानीयं ये पिबन्ति सदा नराः । न यमं यम ......... क्कचित् ॥३५॥
ये बिल्ववनकर्तारस्तत्पत्रैः पूजयन्ति माम् । न यमं यम ......... क्कचित् ॥३६॥
बिल्वभूलेषु लिङ्गार्चां ये कुर्वन्ति सदा मुदा । न यमं ......... क्कचित् ॥३७॥
शिवोत्सवपरा ये च ये च तस्योपकारकाः । न यमं ......... क्कचित् ॥३८॥
गोघण्टादिप्रदातारः आमिषेचनिकान्यपि । न यमं ......... क्कचित् ॥३९॥
शिवनैवेद्यपुष्टाङ्गा ये रुद्राक्षधराः सदा । न यमं ......... क्कचित् ॥४०॥
किमद्य बहुनोक्तेन भक्तिर्मम गरीयसी । भावग्राह्योऽहमीशानो भक्तीर्भवति भाग्यतः ॥४१॥
भक्तस्य सर्वपापानि नाशयामि गणेश्वराः । एतत्तुष्टिकरं पुण्यं गणा मम न संशयः ॥४२॥
ममाप्रीतिकरं चापि वक्ष्यामि भवतां गणाः । उक्तानां च निरासेन अनुक्तानां च विस्तरात् ॥४३॥
ऊर्ध्वपुण्ट्राङ्कनं चैव मृदा फालगलादिषु । ममाप्रीतिकरं पापकारणं तदू गणोत्तमाः ॥४४॥
त्रिशूलवज्रचक्रादिधारणं स्वकलेवरे । ममाप्रीति ......... गणोत्तमाः ॥४५॥
सर्वश्रुतिश्रुतपुण्यभस्मनो वर्जनं तथा । ममाप्रीति ......... गणोत्तमाः ॥४६॥
त्रिपुण्ट्रवर्जनं नित्यं तथा भस्मावगुण्ठनं (?) । ममाप्रीति ......... गणोत्तमाः ॥४७॥
लिङ्गार्चनं बिल्वपत्रैः मे न कुर्वन्ति मोहिताः । ममाप्रीतिकरं पापकारणं तदू गणोत्तमाः ॥४८॥
रुद्राध्यायादिरहिता ये सदा ते न मे प्रियाः । ममाप्रीति ......... गणोत्तमाः ॥४९॥
पञ्चाक्षरविहीना ये अन्यमन्त्रजपादराः । ममाप्रीति ......... गणोत्तमाः ॥५०॥
अन्यपुण्ट्राणि धृत्वैव रुद्रपञ्चाक्षरादराः । ममाप्रीति ......... गणोत्तमाः ॥५१॥
सालग्रामादिसाम्येन शिवलिङ्गार्चका नराः । ममाप्रीति ......... गणोत्तमाः ॥५२॥
महेशभुक्तशेषं ये न भुञ्जन्ते नराधमाः । ममाप्रीति ......... गणोत्तमाः ॥५३॥
मन्निन्दानिरता ये वै मन्नामस्मरणोज्झिताः । ममाप्रीति ......... गणोत्तमाः ॥५४॥
ब्रह्मविष्णुसुराणां च समं मद्दर्शनं तथा । ममाप्रीति ......... गणोत्तमाः ॥५५॥
मन्नाम अन्यनाम्नैव समं पश्यन्ति ये नराः । ममाप्रीति ......... गणोत्तमाः ॥५६॥
एकपीठे च मल्लिङ्ग अन्यदेवादिपूजनम् । ममाप्रीति ......... गणोत्तमाः ॥५७॥
मम भक्तेषु विद्वेष अन्यदेवार्चनं मुदा । ममाप्रीति ......... गणोत्तमाः ॥५८॥
रुद्राक्षधारणं हित्वा काष्ठपाषाणधारणम् । ममाप्रीति ......... गणोत्तमाः ॥५९॥
मत्क्षेत्रविमुखा ये वै अन्यक्षेत्रपरा मुदा । ममाप्रीति ......... गणोत्तमाः ॥६०॥
कालाष्टमीचतुर्दश्यां प्रदोषे सोमवारके । मुदा दिवा भोजिनो ये मम लिङ्गार्चनोज्झिताः ।
ममाप्रीति ......... गणोत्तमाः ॥६१॥
तेषां हि नरकावासो गणाः प्रियतरो मम । किञ्च मत्पुण्यलेशेन तरन्ति च सदा नराः ॥६२॥
नरकार्णवतीर्णाश्च भविष्यन्ति गणोत्तमाः ॥६३॥
सूतः -
इत्थं शम्भोर्वचः श्रुत्वा गणास्ते चैव नारकाः । प्रणम्य ददृशर्दिव्यं कैलासं शङ्करालयम् ॥६४॥
तत्र ते गणपा जाता महेशार्चनतत्पराः । तत्र लिङ्गानि पुण्यानि बिल्वमूलस्थितानि हि ॥६५॥
तत्र स्नात्वा त्रिपुण्टाङ्का रुद्राक्षकृतभूषणाः । तत्पत्रैः पूजयामासुरीशानं देवनायकम् ॥६६॥
तत्र ते गणपा जाता महेशानुचरास्तदा । कपर्दभारविलसच्चन्द्ररेखाविराजिताः ॥६७॥
त्रिपुण्ट्रनिटिलाः सर्वे स्वर्णवेत्रलसत्कराः । दृष्ट्वा कैलासरचनां विस्मितास्तेऽभवंस्तदा ॥६८॥
नानामुनिशतोपेतं नागगन्धर्वशोभितम् । यक्षकिंपुरुषौघैश्च अप्सरोभिश्च शोभितम् ॥६९॥
ब्रह्मविष्ण्वादिभिर्देवैर्दिक्पालैश्च समावृतम् । सनन्दनाद्यैर्मुनिमिर्नन्दिभृङ्गिगणेश्वरैः ॥७०॥
कुमारगणपाद्यैश्च शांभवैरुपशोभितम् । तत्र वैखानसाः सिद्धाः बालखिल्या मरीचियाः ॥७१॥
तपसा देवमीशानं ये प्राप्ता मुनयः सदा । समाधियमदानाद्यैः पूजया परमेश्वरम् ॥७२॥
ये तोषयन्ति नियता नानाभक्तिसमन्विताः । सर्वथा शरणं याता मनोवाक्कायकर्मभिः ॥७३॥
तेषां तत्परमं स्थानं यद्दैवैरपि दुरलभम् । यत्र गत्वा न शोचन्ति यत्र पातभयं न हि ॥७४॥
नीलकण्ठं विरूपाक्षं गङ्गाधरमुमासखम् । राजचन्द्रकालमौलिं वन्द्यं वेदान्तसंस्तुतम् ॥७५॥
कर्पूरधवलं देवं वरदाभयशोभितम् । काकोदरमहाहारं त्रिपुण्ट्रविलसन्मुखम् ॥७६॥
सेवितं परया शक्त्या वामाङ्कासनसंस्थया । निरीक्षन्त्या महादेवसुन्दराननपङ्कजम् ॥७७॥
स्वनेत्रभ्रमरैर्देव्या सर्वाभरणपूर्णया । नारदादिमुनिश्रेष्ठैर्देवगन्धर्वसत्तमैः ॥७८॥
संस्तुतं वल्लवीहस्तैः गानधारारासैः शिवम् । गणेन्द्रैर्विविधैर्देवं सेवितं परया मुदा ॥७९॥
रत्नसिंहासनासीनं नानावाद्यकरैर्गणेः । मृदङ्गकाहलानेकशङ्खदुन्दुभिनिस्वनैः ॥८०॥
स्तुवद्भिर्देवसंघेश्च जयशब्दैश्च पुष्कलैः । पुरः स्थितैर्गणेन्द्रैश्च नन्दिना स्वर्णवेत्रिणा ॥८१॥
छत्रचामरहस्तैश्च महाकालादिभिर्गणैः । तण्डुभृङ्गिप्रभृतिभिर्बाणाद्यैः परिसेवितम् ॥८२॥
व्यजनैश्च पताकैश्च वृषभाङ्कमनोहरैः । महाहीरमहासौधे नानामणिगणान्विते ॥८३॥
तत्कान्तिधृतचन्दार्कप्रभाभिः सुमनोहरे । ध्यायन्तमग्रेदेवेशं ककुदा परिशोभितम् ॥८४॥
चारुश्रृङ्गान्तरालोलचामरद्वयशोभितम्। स्तब्धेक्षणाभ्यां कर्णाभ्यां पश्यन्तं परमेश्वरम् ॥८५॥
संस्थितं धर्मधौरेयं नानाघण्टाविराजितम् । कुमारगणपाभ्यां च सेवितं सुमनोहरम् ॥८६॥
नानाकुसुमगन्धाढ्यहारशोभितकन्धरम् । प्रसन्नवदनाम्भोजं ते देवं ददृशुः शिवे ॥८७॥
कैलासे सुहिरण्यपञ्जरगताः पुस्कोकिलाः शारिकाः
रक्ताशोकहरिन्मणिप्रतिनिभाः सत्पुण्डरीकप्रभाः ।
दृष्ट्वा लिङ्गमुमापतिप्रियतमं मां पाहि शम्भो शिवे -
त्याक्रोशन्ति शुकाः शिवाग्रगतयो नृत्यन्ति ते बर्हिणः ॥८८॥
हंसाः सारसचक्रवाकसहिताः क्षीरोदनीरे मुदा चञ्चूभिः पयसां कणैरतिसितैर्मुक्तावलीभिः सह ।
रेवालिङ्गवरं प्रदोषसमये तद्बिल्वमूलस्थितं संपूज्य प्रथिमान(?)पक्षपतनैः संवीजयन्त्यादरात् ॥८९॥
गन्धर्वकिन्नरगणा ललनाभिरीशं नाट्यैर्मृदङ्गमुखनिःसृततालशब्दैः ।
शंखैश्च काहलरवैर्मृदुवेणुवीणाढक्कादिदुन्दुभिरवैः परिघोषयन्ति ॥९०॥
सारङ्गाः स्वककायकण्डुविवशा बिल्वस्य संघर्षणैः मत्तेभेन्द्रसुपुष्करोद्भवजलासारैः सुशीतैरपि ।
स्वैः पुच्छैश्चमरीगणैः कृतमहालिङ्गस्य संपूजनैः तत्पाण्डुच्छदसेवकीजनमिषात् सन्तोषयन्तीश्वरम् ॥९१॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे ........... नाम एकोनचत्वारिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP