भर्गाख्यः पञ्चमांशः - चतुर्थोऽध्यायः
श्रीशिवरहस्यम्
देवाः -
अहो महदिदं भाग्यं ब्राह्मणस्य महात्मनः । मुनीश्वरैः सुरेन्द्रैश्च भक्तिं प्रपय सुदुर्लभाम् ॥१॥
शांभवीयावनिं धन्यां त्वत्सङ्गाङ्गावलोकनात् । निष्क्रियोऽप्ययमत्युग्रः शूद्रकर्माऽपि भूसरः ॥२॥
भासुराचारसंयुक्तः सुराश्चर्यैकभाजनः । त्वदङ्गत्रातोऽपि पावनानां च पावनः ॥३॥
त्वद्दर्शनं सुराणां तु विचित्रजनकं महत् । अहो महामणिस्पर्शात् लोहं काञ्चनतां व्रजेत् ॥४॥
तद्वदेवायमधुना विप्रबन्धुस्तथाऽधमः । मुनीन्द्रानमरेन्द्रांश्च धिक्करोति त्वदाश्रयात् ॥५॥
त्रिनेत्रसुदयापात्रान् पवित्रान् गात्रसङ्गमैः । कुर्वन्त्येवामरधुनी पुनीते यद्वदेव ते ॥६॥
एतस्य भाग्यगणना नायोग्यैरिह गण्यते । शेषोऽपि महिमालेशं गणितुं न तव क्षमः ॥७॥
महाकालमिदं क्षेत्रं महेन्द्रप्रियकृत्तमम् । भूमण्डलेऽस्य सदृशं क्षेत्रमन्यन्न विद्यते ॥८॥
विद्योतते यथा भानुर्नभोङ्कण ( ङ्गण ) पथि स्थितः । तथा भूमण्डलगतक्षेत्रेष्वेतद् विराजते ॥९॥
महाकाल महाकाल महाकालेति यो वदेत् । सुदूरेऽपि गतो मर्त्यो महाकालान्तिके स्थितः ॥१०॥
लिङ्गं मङ्गलदं पुण्यं महामङ्गलयार्चितम् । अर्चितं ब्रह्मविष्ण्वाद्यैर्महाकालगणार्चितम् ॥११॥
दृष्टं श्रुतं वा सततं स्पृष्टमंहोविनाशकम् । अयं मे हस्त इत्यादिमन्त्रस्पर्शो विशिष्यते ॥१२॥
चैत्र्यां माघ्यां तथाषाढ्यां पौर्णम्यां यस्तु पूजयेत् । स विमुक्तो महापापान्मुक्तिमन्ते व्रजेत च ॥१३॥
यस्तु चन्दनण्ङ्केन लिङ्गमेतद्विलेपयेत् । कर्पूरगरुकस्तूरीमिश्रैर्वा यदकर्दमैः ॥१४॥
तालवृन्तैर्वीजयित्वाऽग्निष्टोमफलभाग्यवेत् । बोल्वपत्रैश्च कल्हारैश्चम्पकैस्तथा ॥१५॥
पूजयित्वा महालिङ्गं महाकालस्य शूलिनः । सद्यो मुच्येत पापैश्च गाणपत्यं लभेन्नरः ॥१६॥
अत्रोपोष्य महादेवं दृष्ट्वा सायं हविष्यभुक् । ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥१७॥
क्षिप्रानद्युदके स्नात्वा सन्तर्प्य पितृदेवताः । भोजयित्वा द्विजान् शैवान् भक्ष्यभोज्यैरनेकशः ॥१८॥
कोटिभोज्यफलं तस्य क्षेत्रेऽस्मिन् शैवसत्तम ।
दत्वाथ तण्डुलं धान्यं तिलान् मुद्गांस्तथाढकान् ॥१९॥
क्षीरं दधि घृतं क्षौद्रं शर्करां वा फलानि च । दत्वा शिवाय स भवेन्निष्पापो नात्र संशयः ॥२०॥
रंभपनसजम्बीरनारिकेलेक्षुसारकम् । सुमोदेत स वै मर्त्यो मेघमुक्त इवोडुराट् ॥२१॥
बुद्धिपूर्वकृतैः पापैस्तत्क्षणादेव मुच्यते । कापिलेनाथ पयसा योऽभिषिञ्चेन्महेश्वरम् ॥२२॥
स पुनः स्तन्यपयसा स्वोदरं नाभिषिञ्चति । घृतेन दीपान् प्रज्वाल्य कार्तिके तु विशेषतः ॥२३॥
सोमवारे त्रयोदश्यां प्रदोषे पर्वतोर्द्वयोः । संक्रान्तौ च व्यतीपाते अयने ग्रहणे तथा ॥२४॥
दृष्ट्वा देव महाकालं पूज्य मुक्तो भवेन्नरः । शतरुद्रियमन्त्रैश्च योऽभिषिञ्चेन्महेश्वरम् ॥२५॥
धारापात्रैस्तथा श्रुङ्गै शङ्खैश्चैवाथ पाण्डरैः । सहस्रधाराकलशैः शतधारादिकैरपि ॥२६॥
शतधारं सहस्रधारं मन्त्रैर्यस्तभिषिञ्चयेत् । शोधितैर्वासितैर्नीरैः धारया वृत्तसूक्ष्मया ॥२७॥
धारां शिवशिरोलग्नां अविच्छिन्नां प्रकल्पयेत् । सन्ततिं पशुपुत्रांश्च अविच्छिन्नं लभेत् सः ॥२८॥
सुदुर्लभतरं ज्ञानं लभते नात्र संशयः । इत्थं शैवेन संवादं कृत्वा ब्रह्मादयः सुराः ॥२९॥
नारदार्द्यैर्मुनिश्रेष्ठैः सार्धं गन्धर्वकिन्नरैः । सितभस्माक्ततनवो रुद्राक्षवरभूषणाः ॥३०॥
महाकालालयं देवा ययुर्बिल्वादिपाणयः । महापचितिसंभारान् कामधेनूधसोद्भवैः ॥३१॥
सफेनक्षीरधाराभी रुद्रसूक्तैरसेचयन् । दधिमण्डैर्घृतैर्दिव्यैर्मधुना सितयाऽपि च ॥३२॥
नारिकेलाम्रसुरसैः मोचाजम्बीरपानसैः । तत्तद्रसैर्महादेवं विविधैरभ्यषेचयन् ॥३३॥
गन्धकर्पूरपुष्पोत्थैः स्वर्णरत्नकुशोदकैः । रौद्रै ऋक्सामयजुषां गणैराथर्वणैरपि ॥३४॥
पञ्चब्रह्मभिरीशानं सुगन्धिं गन्धवासितैः । पयोभिरमृतास्वादैः पाटल्यगरुवासितैः ॥३५॥
नानावादित्रनिनदान् निलिंपाः समघोषयन् । स्नालकाले महेशस्य जयशब्दैश्च पुष्कलैः ॥३६॥
स्नाप्य वस्त्रैर्वेष्टयित्वा मृदुकौशेयसंभवैः । चन्दनेनैव संलिप्य लिङ्गमापीठमुत्तमम् ॥३७॥
नवरत्नचितानेकभूषणैर्भूषयन् सुराः । निधनेत्यादिभिर्मन्त्रैः श्रीपत्रैः कमलैस्तथा ॥३८॥
आर्चयंश्चम्पकैरर्कैर्मन्दारकरवीरकैः । बकैर्द्रोणैश्च धुत्तूरैः नीलरक्तोत्पलैस्तथा ॥३९॥
सहस्रनामभिः पुष्पैर्धूपैर्दीपैर्मनोरमैः । दीपैर्विदीपयामासुर्महाकालशिवालयम् ॥४०॥
धूपैरगरुजोद्भूतैः घुमुग्घुमितदिकतटम् । नैवेद्यैर्विविधैर्हृद्यैः सूपापूपादिराशिभिः ॥४१॥
क्षीराज्यकुम्भैः शतशः पायसानां घटीशतैः । दधिखण्डादिभाण्डैश्च शर्करापङ्कपङ्किलैः ॥४२॥
ताम्बूलपर्वतैर्नै कक्रमुकानां च राशिभिः । मुखवासकरैःरन्यैर्मृगनाभिविराजितेंः ॥४३॥
लवङ्गैलामुखरितैर्जाजीपत्रफलैरपि । स्वच्छपुच्छयुतापारमरीचीखदिरैस्तथा ॥४४॥
नैवेद्यमाद्यं हृदं च दत्वा दिविषदः शिवम् । नीराजनैस्तथा पुण्यैः छत्रचामरदर्पणैः ॥४५॥
व्यजनैः सन्निषेव्येशं नानावाद्यरवैरपि । रम्भाद्यप्सरसस्तत्र ननृतुः शङ्कराग्रतः ॥४६॥
जगुश्च देवगन्धर्वा नारदाद्याश्च गायनाः । महादेव प्रसीदेति श्रीमन्मृत्युञ्जयेति च ॥४७॥
सरागं च सतालं च कलं गीतैरतोषयन् । मूर्छनास्थानविन्यासै रुद्रवीणाकराः सुराः ॥४८॥
प्रदक्षिणनमस्कारैः स्तुतिभिर्नर्तनैस्तथा । करताडनपूर्वं ते तुष्टुवुः परमेश्वरम् ॥४९॥
देवाः -
सरित्पतिनिषङ्गिणे कृतगिरीन्द्रसद्धन्वने धराधरणसत्फणिप्रवरभूतसच्छिञ्जिने ।
रमारमणसायकप्रबलहस्त तुभ्यं नमो महोक्षररवाहिने कृतगणेन्द्रशैलादिने ॥५०॥
भुजङ्गवरधारिणे धृतगरार्धकण्ठाय ते निशापतिकलास्फुरत्सुरतरङ्गिणीमौलये ।
महाङ्गवदनोल्लसन्मदविलोकिने ते नमो जलन्धरशिरोब्जिनीनिकृतनालचक्राय ते ॥५१॥
कपर्दकृतबन्धनोल्लसितभोगिभोगाय ते तवाक्ष्यनलकोणभूकणविदग्धकामाय ते ।
महाघगिरिमस्तकप्रहृतिनामवज्राय ते करीन्द्रवदनोल्लसत्स्फुटपदाय तुभ्यं नमः ॥५२॥
विभूतिपरिधूलनोद्धवलिताङ्गरागाय ते हरिन्मणिनिभागजाकृतविभागदेहाय ते ।
पतङ्गयनोद्धूतप्रबलचण्डदण्डाहतिस्फुटद्द्विजसुताविने ( वने ) भवहराय तुभ्यं नमः ॥५३॥
सुरासुरमरुद्गणप्रवरविप्रबृन्दार्भटीकटीतटमृगाजिनप्रवलरक्षदीक्षामणे ।
हविर्मुखमखामूतान्धसमुखोरुदन्तेक्षणप्रपातनकराय ते गिरिशयाय तुभ्यं नमः ॥५४॥
इत्थं स्तुत्वा तदा देवा महाकालं महेश्वरम् । शांभवैर्मुनिभिः सार्धं ब्रह्माद्यास्ते सुधान्धसः ॥५५॥
शिवनैवेद्यमास्वाद्य सुधाधिक्कारिणोऽभवन् । ततस्ते विबुधाः सर्वे ददृशुर्वसुधाधिपम् ॥५६॥
नाम्ना चित्ररथं हृष्टाः स्पर्धते यः शतक्रतुम् । भस्मरुद्राक्षवीताङ्गं शाम्भवैः परिवारितम् ॥५७॥
महाकालमहालिङ्गं ध्यायन्तमनिशं हृदा । रम्भाधिक्कारिभिर्दारैः कुमारैर्मारसंभवैः ॥५८॥
शैवामात्यवरैर्वीरैर्भटैस्तादृग्विधैरपि । सुरास्ते नृवरप्रख्यैः परीक्ष्य बहुधाऽऽस्तिकम् ॥५९॥
ऊचुरम्लानवदनाः प्राञ्जलिं प्रणतं नृपम् ।
देवाः -
धन्यस्त्वमेव भूपाल पालिताखिलभूतल । भूतुषाराट् त्वमेवैक आषाढार्चनतत्परः ॥६०॥
तव भाग्यस्य नान्तोऽस्ति यतः शिवपरायणः । सहस्राक्षोऽयमत्यन्तमक्ष्णामाप परं फलम् ॥६१॥
अन्ये द्विलोचना देवास्तव दर्शनहर्षिताः । स्वर्गौकसां वचः श्रुत्वा क्ष्मापतिः क्षमयान्वितः ॥६२॥
भूयः प्रहर्षितो देवान् वचो वक्तुं प्रचक्रमे । सुरसन्दर्शनापारहर्षवारिधिमग्नधेः ॥६३॥
राजा -
इन्द्रमित्रादयो देवाः हरिपद्मजपूर्वकाः । वरुणाग्न्यनिलाः सर्वे त्रिनेत्रांशाः सुरोत्तमाः ॥६४॥
सनातनाद्या योगीन्द्रा नारदाद्याः सुरर्षयः । कृतकृत्योऽस्मि हे देवा यूयं मद्दर्शनं गताः ॥६५॥
श्लाघ्योऽयं विबुधश्रेष्ठाः सर्वदा नात्र संशयः ।
न मत्तोऽभ्यधिकः कश्चित् पुण्यवानिति मे मतिः ॥६६॥
महाकालमहेशस्य कृपा मयि तु सुस्थिरा । कः पूज्यते भवद्भिस्तु ध्यायते कः सुरोत्तमाः ॥६७॥
कस्य लिङ्गं पद्मजाद्यैः पूज्यते भक्तिभावितैः । तत्सर्वं श्रोतुमिच्छामि भवद्भ्यः स्वर्गवासिनः ॥६८॥
महेशकथया कालो विनेय इति मे मनः । कालकालकथाधारासुधया यस्तु जीवति ॥६९॥
स जीवति नरो नित्यं मृतास्त्वन्ये सुरोत्तमाः ॥७०॥
वसुधाधिपतेर्वाक्यं श्रुत्वा ते विबुधोत्तमाः ब्रह्माणं विनयात् प्राहुः कृताञ्जलिपुटास्तदा ॥७१॥
देवाः -
त्वमेव देवश्रेष्ठोऽसि प्रजापतिरसि प्रभो । महेश्वराद्वेदजालं शिवज्ञानं च वेत्सि वै ॥७२॥
त्वत्तः सर्वमशेषेण राज्ञा च श्रृनुमोऽब्जज ।
सूतः -
इति तद्वैंबुधं वाक्यं श्रुत्वा नत्वा महेश्वरम् । बभाण भारतीनाथो हर्षयन्नृपमञ्जसा ॥७३॥
ब्रह्मा -
अस्माभिरिन्दुशकलाकलितोत्तमाङ्गलिङ्गार्चनानियमधूतसुदुष्कृतैश्च ।
नास्त्यैव कालजभयं जनिमृत्युतोऽपि शङ्का न दुःखशतकैः सुविचिन्त्यते हि ॥७४॥
क्षणं त्र्यक्षमक्षीणमक्षाणि रुद्ध्वा क्षपादौ क्षपान्ते क्षपानाथचूडम् ।
समभ्यर्च्य दक्षाध्वरध्वंसकं कक्षवासं भगाक्षिक्षयं मुच्यतेऽघौघसङ्घात् ॥७५॥
शिपिविष्टमदृष्टकोष्टजनितानन्दैकनिष्ठानता निष्टानिष्टविशिष्टशिष्टहृदयागारे निविष्टं शिवम् ।
ध्यात्वा कष्टतराष्टवेष्टनमयं त्यक्त्वाष्टमूर्तिं सदा काष्ठाष्टाम्बरमाशुमीशमनिशं दृष्टः फलार्थे मुहुः ॥७६॥
को वा वेदोदयाद्रिप्रवरशिखरकोद्भासिमाहात्म्यजालो
भीत्या यस्येन्दुशक्रास्तपनपवनका भान्ति देवाः समग्राः ।
सोऽयं शङ्करभास्करः प्रतपते मुष्णन्नघौघांबुदं
उग्रो भीममहेश्वरेश्वर महादेवेति नामांशुभिः ॥७७॥
नित्यानित्यसमस्तवस्तुविषयव्यापारसत्तात्मकं
यत्सत्ताधिगमेन चेत् तपति यद्भानैकबोधं जगत् ।
यस्यानन्दलवैकदेशजनितानन्देन ते निर्वृताः
ब्रह्मेन्द्रादिमरुद्गणाः सवरुणाः साक्षी स एवेश्वरः ॥७८॥
विश्वोत्पत्तिविनाशपालनमहाहङ्कारभूतैर्गुणे -
रव्यक्तं पुरुषः प्रकृत्यधिकृतिः संवित्स्वरूपा शिवा ।
या सा ह्यस्य शिवस्य मुख्यदयिता तां ध्यानयोगैः सुराः
संप्रार्थ्य प्रमथाधिनाथमजरं ज्ञात्वा परं निर्वृताः ॥७९॥
विषार्चिषि विषाकरादधिमहीषदुन्मीलति बलद्विषि गतत्विषि क्षपितशेमुषीरोचिषि ।
बलिद्विषि विना रुषा विषमियेष पीयूषवत् स शोषयति कल्मषं विषमबाणशोषाकरः ॥८०॥
नागमस्तकभिदं हृददोना नागमस्तुतममुं च विहाय ।
नागमाश्रितनिशाकरसिन्धु नागमच्छारदिन्दुसमानम् ॥८१॥
मच्छिरोऽधिवसतीह परागः पादयोस्तव शिवाधिपरागः ।
अप्सरोभिरपि सत्रपरागः तत्र चेदभजनं हि पराघ ॥८२॥
भगवत्यगजापतौ महेशे कृतपुण्यैरमितैर्लभेत भक्तिम् ।
स तु सन्तरते भवाब्धिमुग्रं जनिनाशप्रथितं विचित्रकर्म ॥८३॥
वरं कर्कटीत्वं वरं मर्कटत्वं वरं चण्डचण्डालकन्यासुतत्वम् ।
वरं सूकरीयोनिगन्धोन्मुखत्वं महेशार्चनावर्जनं तद्वरं न ॥८४॥
अलं योगसंसेवनैर्विप्रबृन्दप्रतिष्ठादिपुण्यैरलं केवलं मे ।
अलं सर्वदानैरलं सर्वयज्ञैरलं तीर्थयात्राव्रताचारधर्मैः ॥८५॥
प्रतिष्ठाप्य लिङ्गं महाबिल्वमूले त्रिकालं महेशं समभ्यर्च्य बिल्वैः ।
न चेच्छामि वाणीपतित्व हरित्वं महेशानपादारविन्दे शपामि ॥८६॥
क्षयद्वीरं वीरं निखिलगुणपारं भयहरं परं पारं सारं निखिलजनगुप्त्यै धृतशरम् ।
नमामीशं शश्वत् परतरगराविष्टसुगलं वरं वारं वारं श्रुतिशिखरगम्यं सुखकरम् ॥८७॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे चित्ररथब्रह्मादिदेवगणसंवादो नाम चतुर्थोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 07, 2017
TOP