संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
प्रथमोऽध्यायः

भर्गाख्यः पञ्चमांशः - प्रथमोऽध्यायः

श्रीशिवरहस्यम्


शुण्डादण्डालिमालाविलसदुरुमहाफुल्लपद्मैकनालं
शूलाङ्कासक्तिलोलं पदनतविबुधग्रामसंग्रामलीलम् ।
वन्दे वेतण्डगण्डस्फुरदरुणरजोद्भसिसिन्दूरफालं
फालाक्षप्रथमप्रसूतिमतसीपुष्पैकमालं सदा ॥१॥
ततः कुलपतिर्वृद्धः शौनको नाम भूसुरः । पप्रच्छ विनयोपेतो लोमहर्षणिमादरात् ॥२॥
शौनकः -
महोदारहारौघविश्रान्तिपारहरापारमाहात्म्यधारासु धीर ।
समाकर्णयास्मानकस्मादहो त्वां प्रपना विपन्ना भवाब्धौ चरन्तः ॥३॥
इति तद्वाक्यमाकर्ण्य भस्मरुद्राक्षभूषणः । सूतः प्राञ्जलिराहेदं ध्यायन्नीशानमव्ययम् ॥४॥
सूतः -
शाङ्गाङ्गसङ्गोऽमितपापतापसन्तापतप्तहृदयान् सुखयेन्न चित्रम् ।
यूयं त्रिनेत्रपदपङ्कजभक्तिगात्राः सुत्राममान्यमपि लोकमपि त्यजन्तः ॥५॥
त्रिपुण्ड्ररुद्राक्षपवित्रगात्राः पञ्चास्यपञ्चाक्षरलोलचित्ताः ।
श्रीरुद्रपारायणधृतपापाः पात्रं भवन्तः कृपया महेशितुः ॥६॥
वक्ष्येऽधुना संसृतिबन्धनाशिनीं चित्रां विचित्रार्थपदां कथासुधाम् ।
महेश्वरस्य प्रतिभां विमुक्तये श्रृणुध्वमत्युत्कटभक्तिमानसाः ॥७॥
देव्यै देवेन कथितां महापापप्रणाशिनीम् । पुरा कैलासशिखरे सुखासीनं महेश्वरम् ॥
प्रणम्य प्राञ्जलिः प्राह गिरिजा द्विजसत्तमाः ॥८॥
देवी -
भगवन् भृतभव्येश परात्परतर प्रभो । ज्योतिर्लिङ्गानि ते देव कियन्ति वद मे शिव ॥९॥
महिमा च विशेषेण श्रोतुमिच्छामि मे वद । तदपर्णावचः श्रुत्वा स्वर्णवर्णो महेश्वरः ॥१०॥
त्रियंबकस्तदा प्राह तुष्टस्तां जगदम्बिकाम् ॥११॥
महेश्वरः -
श्रृणु दुर्वादलश्यामे श्यामले परमेश्वरि । ज्योतिषां मम लिङ्गानां महिमानं च शङ्करि ॥१२॥
श्रृणुष्वानुक्रमं तेषां लिङ्गानां मुक्तिदायकम् । केदारं प्रथमं लिङ्गमोङ्कारं तु द्वितीयकम् ॥१३॥
वैद्यनाथं तृतीयं स्यात् घुसृणेशं चतुर्थकम् । नागनाथं पञ्चमं स्यान्महाकालश्च षष्ठकः ॥१४॥
भीमेशः सप्तमः प्रोक्तस्त्र्यम्बकं चाष्टमं विदुः । विश्वेशं नवमं लिङ्गं वारानस्यां महेश्वरि ॥१५॥
श्रीशैलो दशमः प्रोक्तः गोकर्णेशो दशाधिकः । सेतुमूले तु रामेशो द्वादशानामनुक्रमः ॥१६॥
ज्योतिर्लिङ्गानि मे देवि यः पश्येत् संस्मरेत वा । ज्ञानं विनापि मुक्तिश्च भवतीत्येव मे मनः ॥१७॥
वक्ष्यामि महिमानं ते सेतिहासं महेश्वरि । कथां कलुषचित्तानां निश्शेषकलुषापहाम् ॥१८॥
उज्जयिन्यां महाकालेक्षेत्रमस्त्येकमुत्तमम् । तत्र लिङ्गं ममस्त्येकमशेषसुरपूजितम् ॥१९॥
तल्लिङ्गदर्शनादेव पापवृन्दं विनश्यति । तल्लिङ्गदर्शनं प्रातः सर्वपुण्यफलप्रदम् ॥२०॥
शक्रादिभिर्लोकपालैः सेवितं परया मुदा । ब्रह्मविष्ण्वादिभिर्देवैर्मुनीन्द्रैरखिलैरपि ॥२१॥
गणेश्वरैस्तथा रुद्रैः साध्यैर्वसुमरुद्गणैः । सिद्धविद्याधरैर्नागैः यक्षकिंपुरुषैरपि ॥२२॥
नदीनदसमुद्रैश्च पर्वतेन्द्रैश्च सेवितम् । अप्सरोभिः किन्नरीभी रुद्रकन्याभिरादरात् ॥२३॥
वैखानसैर्वालखिल्यैर्द्विजैः पर्णाम्बुभोजनैः । कामधेनुगणैश्चैव स्रवत्पञ्चामृतैः सदा ॥२४॥
ऐरावतकुलोत्पन्नैर्नागैर्भद्रमृगैस्तथा । उच्चैरुच्चश्रवःप्रख्यैरश्वैरश्वपतिप्रियैः ॥२५॥
तत्र मन्दारतरवो मरन्दसुमवृष्टयः । तत्र बिल्वोरुतरवो मूललिङ्गोपशोभिताः ॥२६॥
स्वच्छदैः छादयन्त्येते सूर्यांशुं लिङ्गमस्तके । स्वपाण्डुपत्रपतनैः पूजयन्ति महेश्वरम् ॥२७॥
नानावादित्रघोषैश्च बधिरीकृतदिक्तटाः । कुर्वन्ति गणपा नित्यं श्रीमहेशस्य सन्निधौ ॥२८॥
नृत्यन्त्यप्सरसो नित्यं रागाभावलयानुगाः । नारदप्रमुखा नित्यं विश्वावसुहहाहुहूः ॥२९॥
गायन्ति रुद्रवीणाभिः शिवनामानि सादरम् । नन्दिप्रोत्सारितानेकस्वर्णवेत्रकरा गणाः ॥३०॥
दूरीकुर्वन्ति जनतां महेशद्वारि सर्वदा । प्रणमन्ति सुरेशाद्या महाकालं महेश्वरम् ॥३१॥
महालिङ्गाकृतिं शम्भुं बिल्वालङ्कृतमस्तकम् । महाभुजङ्गाङ्गधरं गङ्गाधरमनुत्तमम् ॥३२॥
त्रिपुण्ड्रचन्द्ररेखोत्थकलाकलितशेखरम् । कर्पूरतिलकानेकदीयमालाविराजितम् ॥३३॥
दिव्यगोघृतसंपूर्णदीपपात्रशतावृतम् । कृष्णागरूत्थसाम्राणिधूपैर्घुमुघुमान्तरम् ॥३४॥
प्रातःसङ्गवमध्याह्नसायं निशि महेश्वरम् । प्रणमन्ति प्रस्तुवन्ति सुरासुरमुनीश्वराः ॥३५॥
केचिद्रुद्रैः स्तुवन्तीशं केचित् सामभिरीश्वरम् । ऋग्मिश्चाथर्वणैश्चैव स्तुतिभिर्मुनिसत्तमाः ॥३६॥
प्रदक्षिणपराश्चान्ये लुठन्तः शङ्करालये । प्रणमन्ति च साष्टाङ्गं मुनयो भक्तितत्पराः ॥३७॥
उच्चैर्हर सुरेशेति महादेवेति सादरम् । नृत्यन्ति साश्रुनयनाः करताडनपूर्वकम् ॥३८॥
कोटिशः सन्ति मुनयः शिवलिङ्गैकपूजकाः । भस्मरुद्राक्षवीताङ्गाः शिवैकशरणाः सदा ॥३९॥
क्षिप्रा नाम नदी तत्र क्षिप्रं पातकनाशिनी । तस्यास्तीरे बिल्वमूले शैवलिङ्गार्चनप्रियाः ॥४०॥
वसन्ति तत्र नियताः शिवनैवेद्यभोजनाः । तव राजा महानासीदुज्जयिन्यां महाबलः ॥४१॥
तिग्मांशुवंशसंभृतो नाम्ना चित्ररथो युवा । तस्येयं पृथिवी सर्वा वित्तपूर्णाऽभवत् सदा ॥४२॥
तस्य दारा महोदारा मारस्यापि मनोहराः । शताधिकं च दशकं सुनासं पङ्कजाननम् ॥४३॥
सुरथाद्यं पुत्रशतं ततस्ते सौरथाः स्मृताः । क्षयद्वीररथाः सर्वे शतमुत्तमधन्विनः ॥४४॥
तस्य कोशस्य नेयत्ता तस्यासन् रत्नपर्वताः । तरस्करोति धनदं धनाधिपसखार्चनात् ॥४५॥
तस्यासन् वाजिमातङ्गगोणणानां च कोटयः । सौभाग्यैर्विविधैरीशं सभाग्यः पूजयन् नृपः ॥४६॥
महाकालार्चनपरः कालभीतिविवर्जितः । तस्यासन् मन्त्रिणः सर्वे शाम्भवा एव केवलम् ॥४७॥
अशांभवो न कोप्यस्ति तस्मिन् राजनि शासति । भस्मरुद्राक्षसंपन्नः शिवलिङ्गार्चने रतः ॥४८॥
अशाम्भवं नरं वापि द्विजं वापि नृपोत्तमः । स कोपितः शिरस्तस्य छेत्स्यत्येवातिवेगतः ॥४९॥
सदा नृपभयात् सर्वे शांभवास्तन्मते स्थिताः । तत्पुत्रास्तत्कलत्राणि गजवाजिनरा अपि ॥५०॥
भस्मत्रिपुण्ट्ररुद्राक्षमालालङ्कृतविग्रहाः । महाकाल महादेव चन्द्रचूडेति वादिनः ॥५१॥
तत्कलत्राणि सर्वाणि वीणावादनतत्पराः । महाकालालये नित्यं ता नृत्यन्ति लयानुगाः ॥५२॥
तत्कण्ठगीतमाधुर्यं शारिकाश्च पिकादयः । विलज्जिता वनगताः कोकिलाः स्वकुलैः सह ॥५३॥
देवाङ्गनापि मुह्यन्ति तद्गातश्रवणोत्सुकाः । मृगाश्च पशवः सर्वे सृमराश्चमरा अपि ॥५४॥
न वातप्रसरस्तत्र महाकालालये तदा । स राजा तत्कलत्राणि तत्पुत्राश्च मुदान्विताः ॥५५॥
दृष्ट्वा महेशलिङ्गं तन्महाकालस्य सादरम् । भस्मत्रिपुण्ट्ररुद्राक्षमालाभिः समलंकृतः ॥५६॥
हारोदारमहागानं नाट्यमत्युत्तमोत्तमम् । पश्यन्नास्ते स भूपालः कामुकः कामिनीमिव ॥५७॥
तद्गानामृतधाराभिः सुधाधिक्कारिभिर्नृपः । शिवनामानुसन्धानं कुर्वन्नास्ते प्रहृष्टधीः ॥५८॥
शाम्भवैर्मन्त्रिभिः सार्धं वृद्धैर्मुनिगणैरपि । तेनोरुबिल्वतरवः स्थापिताः शङ्कराङ्गणे ॥५९॥
तन्मूले बाणलिङ्गानि स्थापयामास वै नृपः । लिङ्गानि पूजयेत्याशु बिल्वपत्रैः प्रतिक्षणम् ॥६०॥
शांभवैः सह संलापं करोत्येव स भूपतिः । शैवीमेव कथां नित्यं श्रृणोत्येव सदा नृपः ॥६१॥
शांभवा भोजितास्तेन शिवनैवेद्यराशिभिः । तद्गृहे शिवनामानि सदा गायन्ति गायनाः ॥६२॥
शुकाश्च शारिकास्तत्र पाहि शम्भो शिवेति च । वदन्ति प्रीतिवाक्यानि शैवान्येवाथ पत्रिणः ॥६३॥
नृत्यन्ति च मयूरास्ते शिवलिङ्गाग्रतस्तदा । स्वपक्षधूननव्याजैः शैवान् खिन्नान् पतत्रिणः ॥६४॥
वीजयन्ति सदा हृष्टाश्चञ्चुभिः कण्डुनाशकाः । विल्ववृक्षेषु सततं निवसन्ति सदाण्डजाः ॥६५॥
गोरसापारपूरैश्च महाकालमसेचयत् । फलसारैश्च विविधैः पूजयामास शङ्करम् ॥६६॥
गन्धकर्पूरपाटीरमृगनाभिद्रवैः शुभैः । लेपयामास देवेशं सुगन्धैर्यक्षकर्दभैः ॥६७॥
अनर्घ्यमृदुसौवर्णदुकूलैरतसीभवैः । वेष्टयामास विमलैर्नानावर्णैर्नृपोत्तमः ॥६८॥
श्वेतकृष्णागरूत्थैश्च धूपैर्देवमधूपयत् । कपिलागोघृतापारदीपैः कर्पूरखण्डनैः ॥६९॥
दीपयामास विश्वेशं आसायादुदयं नृपः । तद्दीपप्रभया लोका दीपितास्ते चतुर्दश ॥७०॥
अत्युज्ज्वलमहारत्नभूषणैर्नवरत्नजैः । निष्टप्तहेमखचितैर्भूषयामास शङ्करम् ॥७१॥
नवरत्नानेककृतं गोलकं लिङ्गमस्तके । दापयामास नृपतिर्भुजङ्गफणसंवृतम् ॥७२॥
स लक्षबिल्वपत्रैश्च पूजयामास शङ्करम् । सितरक्तैस्तथा पद्मैः फुल्लसौगन्धिकैः शिवम् ॥७३॥
पुन्नागनागवकुलैश्चम्पकैः करवीरकैः । स लक्षैः पूजयामास महाकालमहर्निशम् ॥७४॥
नीलोत्पलसहस्राढ्यां मालां लिङ्गे प्रकल्पयत् । नैवेद्यगिरयस्तेन कल्पिताः कोटिशोऽम्बिके ॥७५॥
अपूपगिरयस्तेन सूपपायसकर्दमाः । दधिक्षीरप्रवाहैश्च सोपदंशनगैस्तदा ॥७६॥
खदिरासारतक्कोलसुजातीफलपत्रकैः । लवङ्गैलाशुण्ठियुक्तैः कर्पूरक्रमुकैस्तथा ॥७७॥
मुक्ताचूर्णसमायुक्तनागवल्लीदलार्पणैः । रत्नचछत्रैरपारैश्च चामरैर्व्यजनैरपि ॥७८॥
व्यजनैर्वीजयांचक्रे छत्रैराच्छादयच्छिवम् । हंसकल्पैश्चामरौघैर्दुधाव जगदीश्वरम् ॥७९॥
दुन्दुभिप्रमुखानेकमृदङ्गानकगोमुखैः । शंखकाहलनिर्घोषैर्महाकालमघोषयत् ॥८०॥
नानाप्सरोगणास्तेन नाट्यार्थं शिवमन्दिरे । कल्पितास्तेन भूपेन निष्ककण्ठ्यो वराङ्गनाः ॥८१॥
एवं प्रतिदिनं राजा महाकालार्चने रतः । तस्य नान्यत् कृतमस्ति शिवचितो महीपतिः ॥८२॥
दारोदारकुमारैश्च वसत्येव शिवालये । भोजयामास नैवेद्यैः शाम्भवानेव कोटिशः ॥८३॥
तद्राज्ये सर्वथा सर्वे शिवनैवेद्यभोजनाः । पवित्रगात्रास्तेनैव त्रिनेत्रप्रियकृत्तमाः ॥८४॥
तद्राज्यमभिवृद्धं स्यात् तन्मन्त्रिप्रवरैर्धृतम् । चातुर्वर्ण्यं शांभवांश्च प्रजापतिरिव प्रजाः ॥८५॥
शशास निहतारातिः पुरारातिप्रसादतः । संसारचिन्ताविरतो निरतः शिवपूजने ॥८६॥
नैवेद्यैः शिवतर्पितैरघहरैः संपूज्य शैवान् नृपः सार्धं पुत्रकलत्रसहितोऽवात्सीत् सदा कामदे ।
क्षेत्रेऽस्मिन् सततं महेशकथया श्रीकालकालार्चनं कुर्वन्निर्मलचित्तमेतदधुना संसारवार्तालसम् ॥८७॥
वदन्त्येव भावाः शिवे सक्तभावाः भवे त्यक्तभावा नृपे हर्षभावाः ।
गतानङ्गभावाः सदा भक्तिभावाः महाधैर्यभावा वसन्त्येव भावाः ॥८८॥
शिवं कलिमलोत्थितप्रबलतापपापानलैः विदग्धतनुमानसाः स्मरहरं न चार्चन्ति ये ।
मदन्यसुरपामरान् हरिविधीन्द्रपूर्वामरान् सदा मुउरनन्यधीः स्मरति भाग्यहीनो नरः ॥८९॥
शिवनैवेद्यमपारपुण्यलभ्यं नहि लभ्यं सततं शिवद्रुहा ।
रजताद्रिनिवासभक्तिभुक्तौ मतिरुज्जायति (?) शङ्करप्रसादात् ॥९०॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे शिवगौरीसंवादे उज्जयिनीमहाकालमहिमानुवर्णनं नाम प्रथमोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP