संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| अष्टाविंशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - अष्टाविंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव अष्टाविंशोऽध्यायः Translation - भाषांतर ईश्वरः - श्रृणु देवि प्रियतमे अस्ति क्षेत्रवरं मम । सेतुबन्धमिति प्रोक्तं भुवि साक्षाद्विमुक्तिदम् ॥१॥गन्धमादनंज्ञश्च तत्रास्ति धरणीधरः । स तु लिङ्गमयो देवि नानातीर्थमयो हि सः ॥२॥विल्वामलकहिन्ताललोध्रसालबनावृतः । रसालसुरसामोदचन्दनामोदमोदितः ॥३॥अन्यशाखिशतोपेतो नानाग्ल्लीविराजितः । तच्छैलशिखरे देवि शिवलिङ्गाकृतिस्त्वमहम् ॥४॥मध्ये तच्छैलशिखरं दृश्यते लवणार्णवे । दूरतो वापि शिखरं दृष्ट्वा शिखरिणोऽम्बिके ॥५॥तत्रत्यवातपोतेन पापतापैर्विमुच्यते । निवसामि त्वया गौरि सदा गणवरैर्वृतः ॥६॥नाम्नाऽहं भूधरे तस्मिन् गन्धमादन ईश्वरः । तत्र शैववरा नित्यं निवसन्ति शुभानने ॥७॥अग्निरित्यादिभिर्मन्त्रैः भस्मोद्धूलितविग्रहाः । अनन्तरुद्राक्षकृतकिरीटेन विराजिताः ॥८॥रुद्राक्षहारवलयबाहुकङ्कणभूषिताः । त्रिपुण्ट्रनिटिलाः सर्वे तृणीकृतजगत्त्रयाः ॥९॥पञ्चाक्षरपरा नित्यं पञ्चास्यध्यानतत्पराः । रुद्राध्यायार्थविज्ञानतज्जपप्रवणाः सदा ॥१०॥शिवलिङ्गार्चनपरास्त्रिकालं बिल्वपत्रकैः । सदान्नपानविमुखा शिवनामैकजीवनाः ॥११॥स्कन्दनन्दीश्वरमुखामरेश्वरगणेश्वराः । तत्र मां बिल्वपत्रैश्च गन्धमादनशङ्करम् ॥१२॥पूजयन्ति सदा भक्त्या विष्णुब्रह्मादयः सुराः । स्तुवन्ति स्तुतिभिर्नित्यं मां सदा लिङ्गरूपिणम् ॥१३॥देवर्षिगणेन्द्राः - संसारदर्पोद्धृतसर्पदष्टा जना न जानन्ति महेश्वरं त्वाम् ।ते वै महाकामविषप्रदिग्धा दग्धा महामृत्युमुखाग्निमध्ये ॥१४॥सन्तप्तभ्रष्टतप्ताः शिवनतिविमुखाश्छिन्नहस्तास्त्वदर्चा - हीना विच्छिन्नमस्ता भगवति गिरिशे प्रक्रमे पङ्गवो ये ।त्वन्नामोच्चारणे ये प्रतिदिनमसकृन्मृकभावं प्रपन्ना - स्त्वल्लिङ्गेक्षाविहीना यमभटपटलीदण्डखण्ड्या भवन्ति ॥१५॥एवं स्तुवन्ति मां तत्र मुनिदेवगणा गणाः । तत्र लिङ्गान्यनन्तानि सुरर्षिस्थापितान्युमे ॥१६॥तीर्थानि चैव पुण्यानि स्नातॄणां मुक्तिदानि हि । दक्षिणाम्भोनिघेः कोटिः पिनाकधनुषा मया ॥१७॥त्रिपुरांस्तांस्तदा हत्वा मद्धनुःकोटिदेशतः । दक्षिणाब्धौ तदा रेखा कृता लीलार्थमम्बिके ॥१८॥तद्धनुष्कोटिरित्याख्यां गमितं तीर्थमुत्तमम् । षट्षष्टिकोटितीर्थानि स्वाघतापनिवृत्तये ॥१९॥तत्र स्नान्ति महादेवि तदा लवणसागरे । ब्रह्मविष्ण्वादयो देवाः शक्राद्या मरुतां गणाः ॥२०॥मुनीनां कोटयो देवि स्नात्वा तत्र दिवं गताः । ब्रह्महत्यादिपापानां शोधकं तीर्थमुत्तमम् ] ॥२१॥मयैवं धनुषः कोट्या कृतं लोकहिताय वै । स्नाताना तत्र देवेशि मद्ज्ञानं परमं भवेत् ॥२२॥ब्रह्मणापि पुरा कन्या निर्मिताऽऽसीत् तिलोत्तमा । तां तदा चकमे कामात् तया स मिथुनं गतः ॥२३॥तदा पापनिवृत्त्यर्थं स्नात्वा तत्र महोदधौ । दृष्ट्वाऽभिपूज्य मां बिल्वैस्ततः शुद्धश्चतुर्मुखः ॥२४॥ईशानोऽपि पुरा गौरि हृत्वा ब्रह्मशिरस्तदा । मम निन्दाकरं क्रोधाद्ब्रह्महत्या(?)मवाप सः ॥२५॥स चापि धनुषः कोटौ स्नात्वा पूतश्च किल्बिषात् ।शक्रोऽहत्यां पुरा गत्वा स्नात्वा पापैर्विमोचितः ॥२६॥अग्निश्च सर्वभक्षोत्थपापैः स्नात्वा विमोचितः । वरुणोऽपि महारोगपीडितो मुनिशापतः ॥२७॥स्नात्वात्र धनुषः कोटौ रोगान्मुक्तोऽभवच्छिवे । दक्षशप्तन्द्रमापि स्नात्वा पापैर्विमोचितः ॥२८॥भ्रुगुणा च हरिः शप्तः स्वपत्नीवधदुःखितः । नारायणं शशापासौ शांभवः क्रोधमूर्छितः ॥२९॥देवी - कथं नारायणो देव शप्तो हि भृगुणा शिव । तन्मे ब्रूहि महादेव श्रोतुं कौतूहलं हि मे ॥३०॥ईश्वरः - पुरा दैत्यैः सुराणां हि स्वर्गार्थं विग्रहोऽभवत् । देवैः संपीडिता दैत्या भृगुपत्नीं तदा गताः ॥३१॥तां प्रणम्य तदा गौरि शरण्यां शरणं ययुः । सुरैः संप्रार्थितो विष्णुः तां हनच्चक्रधारया ॥३२॥भृगुः क्रोधवशाद्विष्णुं शशाप स नियोगतः ।भृगुः - मानुषेषु हरे जन्म तव भूयाज्जनार्दन स्त्रीवधान्निर्घृणोऽसि त्व तव पत्नीवियोगजम् ॥३४॥त्वयाऽपि दुःखं भोक्तव्यं ये वै दैत्यास्त्वया हताः । तरेव पत्नीहरणं प्राप्स्यसे त्वं हरे सदा ॥३५॥इत्युक्त्वा स भृगुः पत्नीं तदा स्वतपसो बलात् ।समुज्जीव्याश्रमं प्राप मम भक्तोऽम्बिके तदा ॥३६॥स चापि विष्णुः कालेन तिर्यग्योनिशतेष्वभूत् ।स चोन्मत्तो मया तत्र शूलाग्रेणावदारितः ॥३७॥कोसलेष्वभवद्राजा नाम्ना दशरथस्तदा । स चानपत्यस्तस्यासीत् पुत्रो विष्णुस्तदांबिके ॥३८॥देवैः संप्रार्थितो देवि पौलस्त्यवधहेतवे । सुरान् स पीडयामास रावणो लोकरावणः ॥३९॥तस्यासील्लक्ष्मणो भ्राता भार्या जनकनन्दिनी । पित्रा विवासितो मात्रा सभार्यो विपिनं ययौ ॥४०॥तस्य भार्या जनस्थानाद्रावणेन हृता बलात् । स दुःखितो वसन् भ्रात्रा सुग्रीवं नाम वानरम् ॥४१॥शरणं स गतो देवि तदा क्षत्रियनन्दनः । तेन वानरबृन्दैश्च समुद्रं शरणं गतः ॥४२॥तत्रागस्त्यमुनिं दृष्ट्वा गन्धमादनवासिनम् । भस्मरुद्राक्षसंषन्नं शिवलिङ्गार्चने रतम् ॥४३॥प्रणम्य त्तं तदा रामो अगस्त्यं मुनिसत्तमम् । दीनस्तदाऽऽह विनयाद्भार्यापहरणं शिवे ॥४४॥ रावणेन तदा रामः प्राञ्जलिर्दुःखितो मुनिम् ॥४५॥रामः - भगवन् शांभवश्रेष्ठ मामत्यन्तं सुदुःखितम् । समुद्धराव मां दीनं भार्याहरणकर्शितम् ॥४६॥मुनीन्द्रोऽपि तदा रामं दीक्षयित्वा विधानतः । भस्मनोद्धूल्य तस्याङ्गं दत्वा पञ्चाक्षरं मनुम् ॥४७॥गन्धमादनसंस्थं मां दर्शयामास भक्तितः । तल्लिङ्गं पूजयामास रामेण स तदा मुनिः ॥४८॥बिल्वपत्रैर्वन्यपुष्पैः फलैर्नैवेद्यमातनोत् । तदा तुष्टाव रामो मां स्वकष्टविनिवृत्तये ॥४९॥रामः - श्रीकालकालानलफालमूल देव त्वमाद्यो जगतः प्रतिष्ठा ।शूलामलोद्यत्कर बालपाल हालाहलालङ्कृतनीलकण्ठ ॥५०॥त्वं भक्तिगम्योऽमरपाल शम्भो मालाकृताहीन्द्र विशालबाहो ।लीलाकृतं ते जगदेकजालं मे दुःखमूलं सहसा हरस्व ॥५१॥इति स्तुत्वा तदा रामो गन्धमादनमीश्वरम् । तस्मै च दर्शनं दत्तं जेता त्वं रावणं मृधे ॥५२॥गच्छेति च तदा चोक्तो मां प्रणम्याबिके तदा । अगस्त्येन तदा दत्तं खङ्गं चापि महाप्रभम् ॥५३॥तूणीरं च शरैः पूर्णं ययौ भ्रात्रा समन्वितः । सेतुं मत्कृपया बद्ध्वा युद्धे रावणमद्भुतम् ॥५४॥सानुजं ससुतं हत्वा सीतां प्रपय महाबलः । पौलस्त्यवधसञ्जातब्रह्महत्यापनुत्तये ॥५५॥धनुष्कोटिमहातीर्थे मासं स्नात्वा स भक्तितः । भ्रात्रा च भार्यया सार्धं वलीमुखसमन्वितः ॥५६॥स नार्मदं समानीय लिङ्गं तत् पवनात्मजात् । स्थापयामास हृष्टात्मा मुनिना रावणान्तकः ॥५७॥गन्धमादनपृष्ठे वै गन्धमादनशङ्करात् । पश्चिमे परमेशानि संपूज्यामरनायकम् ॥५८॥रामेश्वरं तदा देवि स्वनाम्ना लिङ्गमुत्तमम् । समर्चयित्वा बिल्वाद्यैः पूजया मां तदाम्बिके ॥५९॥स भ्रात्रा च तदा पत्न्या सुग्रीवाद्यैश्च वानरैः । लिङ्गानि स्थापयामास गन्धमादनमस्तके ॥६०॥तीर्थानि कल्पयित्वाथ देवं रामेश्वरं तदा । शुद्धगङ्गाजलैः स्नाप्य पूज्य बिल्वैश्च पङ्कजैः ॥६१॥प्रणम्य रामः साष्टाङ्गं तुष्टावाथ कृताञ्जलिः ।रामः -रामेश्वरेश्वर महेश पिनाकपाणे गम्भीरसागरनिषङ्ग भुजङ्गहार ।द्रापिन् हिरण्मयशरीर सुचन्द्रमौले गङ्गोत्तमाङ्ग भव भूतपते नमस्ते ॥६२॥विश्वोदयस्थितिलयान्तकर प्रसीद मामाशु पाहि ददया प्रमथाधिनाथ ।दुर्वारदुःखतरसंसृतिबन्धनाशं शश्वत् कुरुष्व भगवन् करुणाकटाक्षैः ॥६३॥पाहि प्रसीद परमेश्वर पञ्चवक्त्र भर्ग त्रियंबक सुरासुरपूज्यपाद ।पौलस्त्यसंहृतिभवाघभरं हरस्व मद्दुःखजालमपराधगणं क्षमस्व ॥६४॥इति स्तुतोऽहं रामेण तदा देवि ससीतया (?) । तं प्रसन्नस्तदा वाक्यमब्रवं प्रणतं शिवे ॥६५॥ईश्वरः - मा भैषीः सर्वभद्रं ते कृतं लोकहितं त्वया । बद्धः सेतुः समुद्रे मे रावणः सानुजो हतः ॥६६॥मत्प्रसादादभूद्राम गुरुस्ते कुंभसंभवः । एतस्य कृपया राम मत्प्रसादस्तवाभवत् ॥६७॥राम शांभवसङ्गेन न किञ्चिदपि दुर्लभम् । शांभवाङ्गैकसङ्गैन पापभङ्गोऽभवत् तव ॥६८॥रामेश्वरमिदं लिङ्गं त्वया संस्थापितं मम । एतस्य दर्शनात् सद्यः पापनाशो भविष्यति ॥६९॥धनुष्कोटौ नरः स्नात्वा रामेशं यस्तु पश्यति । स हि मुक्तो भवत्येव तस्यैव कुलमुन्नतम् ॥७०॥तस्यैव पितरस्तृप्तास्तेनोर्वी सफलाम्बिके । शांभवेभ्यो मुदा दत्वा स्नापयेद्यो महेश्वरम् ॥७१॥गङ्गाभसा महादेवि बिल्वैरभ्यर्च्य यो हि माम् । श्रीमद्रामेश्वरं लिङ्गं मद्ज्ञानं प्रपय मुच्यते ॥७२॥गच्छ त्वं कोसलानाशु मत्प्रसादात् सुखी भव । इत्युक्त्वा तं तदा गौरि तस्मिन् लिङ्गे तिरोहितः ॥७३॥अगस्त्यं मां प्रणम्यैव ययौ रामस्तदाद्रिजे । गत्वाऽश्वमेधं मत्तृप्त्यै समुपाहरदम्बिके ॥७४॥तत्र राज्यं चिरं कृत्वा सोऽपि काले दिवं गतः । विष्णुर्मामम्बिके नित्यं सेतुमाधवसंज्ञकः ॥७५॥गङ्गांभसाभिषिच्येशं बिल्वैः संपूज्य भक्तितः । रामेश्वरं तदा गौरि तत्रास्ते मत्प्रसादतः ॥७६॥सूतः - य एतच्छृणुयान्नित्यं श्रीरामेश्वरवैभवम् । तस्य पापानि नश्यन्ति तूलमग्रिमुखे यथा ॥७७॥श्रीरामेश्वरलिङ्गमेतदमलं स्वर्गापवर्गप्रदं बिल्वाद्यैरमरैस्तथा मुनिगणैः संसेवितं पूजितम् ।दृष्ट्वा पापजरादिरोगरहितो मुक्तो भवत्यंबिके धन्यो मत्पदपूजकः सुकृतिनां मान्यो वरिष्ठः स हि ॥७८॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे गन्धमादनपर्वत धनुष्कोटि रामेश्वरमहिमवर्णनं नाम अष्टाविंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP