संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
चतुर्दशोऽध्यायः

भर्गाख्यः पञ्चमांशः - चतुर्दशोऽध्यायः

श्रीशिवरहस्यम्


ईश्वरः -
पुनरन्यां कथां देवि श्रृणु श्रवणभूषणाम् । सौराष्ट्रे क्षेत्रमस्त्येकं सोमनाथाह्वयं शुभम् ॥१॥
तत्रासीन्महितो राजा शीतांशुकुलभूषणः । अनपत्यः स वै देवि सौराष्ट्रेशो बृहद्बलः ॥२॥
पयोष्णीतीरमासाद्य सिन्धुराश्वसमावृतः । महत्या सेनया सार्धं महिष्या च समन्वितः ॥३॥
मुद्रलस्याश्रमं प्राप्य श्रान्तः सूर्यकरैर्नृपः । प्रणम्य मुद्गलं राजा पूजितस्तेन विष्टरे ॥४॥
निषसाद महीपालः पप्रच्छ कुशलं मुनिम् ।आश्रमेषु च पुण्येषु तथाग्निशरणेषु च ॥५॥
कच्चिन्निर्विघ्नितं ब्रह्मन् तपस्तेऽग्निमुखाः क्रियाः । भवच्छिष्यगणाःसर्वे विनीतास्त्वयि सत्तमे ॥६॥
मृगपक्षिगणाः सर्वे गावश्च सुखिनो वने । हस्तिहस्तापरामृष्टं भवनं ते महामुने ॥७॥
बृहद्बलस्य तद्वाक्यं श्रुत्वा स मुनिसत्तमः । स उवाचाथ राजानं प्रसन्नवचसा मुनिः ॥८॥
मुद्गलः -
त्वयि शासति भूलोकं सर्वं च निरुपद्रवम् । त्वयाद्य पालिताः सर्वे निवसामस्तपस्विनः ॥९॥
तपसा परमेशानं समभ्यर्च्य यथाविधि । भवानपि सदा राजा सुखी सैन्यसमावृतः ॥१०॥
कोशागारे तथा राष्ट्रे अमात्ये दुर्गरक्षणे । दारपौरादिकार्येषु विनीतोऽसि नृपात्मज ॥११॥
इत्थं मुनिवचः श्रुत्वा स राजा मुद्गलं तदा । प्राञ्जलिर्विनयोपेतो मुद्गलं वाक्यमब्रवीत् ॥१२॥
राजा -
धन्योऽहमधुना विप्र यन्मां त्वमनुकम्पसे । शांभवस्याद्य ते दृष्ट्या सर्वं कुशलमेव मे ॥१३॥
तथापि हृद्गतो भावः स त्वया प्रपय एव हि । शांभवा एव लोकेषु शम्भुवो मुनिसत्तम ॥१४॥
त्वद्दयापाङ्गसङ्गेन सुखसङ्घो ममाभवत् । विश्वस्तस्त्वयि चात्यन्तं पितरीव महामुने ॥१५॥
कारणं तत्र वक्ष्यामि तदिहैकमनाः श्रृणु । असंख्यं गणनाहीनं वित्तमस्त्येव मद्गृहे ॥१६॥
मातङ्गाश्च तुरङ्गाश्च उत्तुङ्गाः सन्ति कोटिशः । गोखरोष्ट्राजाविकाश्च बलीवर्दाश्च कोटिशः ॥१७॥
रथाश्च शिबिकाः सन्ति दन्तिदन्तोत्तमैः कृताः । हिरण्यरजतानां च रत्नानां चैव राजयः ॥१८॥
गिरीन्द्रशिखराकाराः सन्ति विप्र सहस्रशः । मद्गृहे नियतं विप्र धान्यानां गणनैव न ॥१९॥
अमात्या बान्धवाः पौरा भृत्याश्चैव भृता मया । हृष्टपुष्टजनाः सर्वे शिपिविष्टार्चने रताः ॥२०॥
ब्राह्मणावसथाश्चैव सोर्वराः शर्वतुष्टये । पानीयशालारुचिराः सरस्तीराणि कोटिशः ॥२१॥
विश्रान्तिमण्टपाश्चापि कृताः सान्नमया मुने । अश्वमेधादयो यागाः स्वाद्वन्ना बहुदक्षिणाः ॥२२॥
कृताः सहस्रशो विप्र साक्षाच्छङ्करतुष्टये । न तस्करः स्वैरिणी वा अनग्निर्नैव मे पुरे ॥२३॥
ग्रामे राष्ट्रे जनपदे दरिद्रो नासहस्रदः । दारा मनोहराः सन्ति रमाधिक्कारिणो मम ॥२४॥
शतसंख्या मुनिश्रेष्ठ शरदिन्दुसमाननाः । अनाहतं शासनं मे सर्वदेशेषु सत्तमाः ॥२५॥
दास्यो मनोहराः सन्ति पीनश्रोणिपयोधराः । यौवनोन्मादसंवीता निष्ककण्ठ्यो वराननाः ॥२६॥
दासाश्च मेऽद्य नेदिष्ठा युवानो मृष्टकुण्डलाः । भटाश्च समहोत्साहाः सर्वशस्त्रधराह सदा ॥२७॥
जेतारो रिपुसैन्यानां न कदाचित् पराजिताः । सर्वमेतन्मुनिश्रेष्ठ नैवानन्दकरं मम ॥२८॥
नन्दनानन्दहीनस्य नानन्दः क्कापि दृश्यते । इत्युक्त्वा सोऽश्रुपूर्णाक्षो राजोच्छ्वाससमन्वितः ॥२९॥
दुःखितः प्राञ्जलिर्विप्रं प्रणनाम पुनः पुनः । स मुनिः सान्त्वयन् वाक्यैर्मैवं राजन्निति ब्रुवन् ॥३०॥
स्वपाणिकमलेनैव तन्मुखं परिमार्जयन् । तमाह नृपतिं विप्रो ध्यायन्नीशानमव्ययम् ॥३१॥
मुद्गलः -
त्वं राजा सर्वलोकानां सत्यधर्मपरायणः । त्वया न सदृशो लोके धनैर्धनपतेः समः ॥३२॥
त्वयाऽश्वमेधैः सततं तृप्तो मेधपतिर्यतः । स ते कामं पूरयति कामारिर्नात्र संशयः ॥३३॥
पयोष्ण्यां स्नाहि राजेन्द्र नद्यामस्यां सुखाप्तये । इत्युक्तः सोऽपि नृपतिः स्नात्वा नद्यां महामुनिम् ॥३४॥
शरणं स जगामैव भक्तं मम शुचिस्मिते । समुद्धूल्य तदङ्गानि भस्मना स्वकाराम्बुजैः ॥३५॥
अग्निरित्यादिभिर्मन्त्रैस्त्रियायुषत्रिपुण्टकैः । ईशानेति च मन्त्रेण ददौ रुद्राक्षमालिकाः ॥३६॥
प्रददौ शांभवीं विद्यां श्रीमत्पञ्चाक्षरीं शुभाम् । स तया विद्यया रेजे राजा चन्द्र इवोद्गतः ॥३७॥
नभसीवामले देवि तारागणपरीवृतः । सामात्यं भोजयामास मुनिर्मूलफलैर्नृपम् ॥३८॥
शिवनैवेद्यमास्वाद्य स्वादोः स्वादीय उत्तमं । नियुक्तस्तेन मुनिना स तु राजा बृहद्बलः ।
प्रणम्य तं मुनिं राजा प्राञलिस्तं वचोऽब्रवीत् ॥३९॥
राजा - अनुशास्तु भवानेव तत्करिष्यामि सादरम् । तदा बृहद्बलवचो मुनिः श्रुत्वा तमब्रवीत् ॥४०॥
मुनिः -
राजन्नियतवाङ्मौनी नित्यं रुद्रजपादरः । जप पञ्चाक्षरीं विद्यां पञ्चपातकनाशिनीम् ॥४१॥
अग्निरित्यादिभिर्मन्त्रैः समुद्धूल्य स्वकां तनुम् । त्रियायुषैरत्र्यंबकैश्च त्रिपुण्ट्रं धारयादरात् ॥४२॥
शिरोललाटवक्षःसु कण्ठबाहुजसन्धिषु । रुद्राक्षं धारयाद्याशु कण्ठकर्णकरादिषु ॥४३॥
बिल्वपत्रैर्बाणलिङ्गं नियमेन समर्चय । शिवनैवेद्यमास्वाद्य प्रहृष्टो भव पार्थिव ॥४४॥
शांभवान् शिवनैवैद्यैर्भोजयाद्य सहस्रशः । त्रिनेत्रभुक्तिपात्रं हि शांभवा एव केवलम् ॥४५॥
शांभवा एव ते पूज्याश्चातुर्वर्णेषु वै नृप । शांभवानां रक्षणेन शम्भुः प्रीणाति नान्यथा ॥४६॥
शांभवो नाम राजेन्द्र शिवैकशरणस्तु यः । भस्मत्रिपुण्ट्ररुद्राक्षमालाभिर्लिङ्गपूजकः ॥४७॥
सोमवारव्रती चैव नक्तभोजी शिवार्चकः । तत्त्यक्त्वा पतितो भूयादिति जाबालपारगाः ॥४८॥
कालाष्टम्यां महादेवं कृष्णपक्षे विशेषतः । संपूज्य रात्रौ नक्ताशी मासि मासि नृपोत्तम ॥४९॥
तत् त्यक्त्वा पतितो भूयादिति जाबालपारगाः । श्रीप्रदोषे व्रतं पुण्यं पक्षयोर्नियंत कुरु ॥५०॥
संपूज्य रात्रौ नक्ताशी मासि मासि नृपोत्तम । तत् त्यक्त्वा पतितो भूयादिति जाबालपारगाः ॥५१॥
पञ्चामृतैर्लिङ्गमौलिं फलसारैर्महश्वरम् । बिल्वपत्रैः पङ्कजैश्च समभ्यर्च्य शिवं सदा ॥५२॥
नक्तं नैवेद्यमास्वाद्य शांभवैः संवसाद्य वै । तत् त्यक्त्वा पतितो भूयादिति जाबालपारगाः ॥५३॥
ग्रहणे सोमसूर्योत्थे पुण्ये पर्वसु शङ्करम् । संपूज्य देवदेवस्य लिङ्गं पापैर्विमुच्यते ॥५४॥
भस्मरुद्राक्षहीनाङ्गान् दण्डयाशु विनाशय । ऊर्ध्वपुण्ड्रादिचक्राङ्कान् देशात् निःसारयाधुना ॥५५॥
ऊर्ध्वपुण्ट्रं धृतं येन तन्मुखं नावलोकयेत् । यदि पश्येद्भ्रमाद्वापि चण्डभानुमुदीक्ष्य च ॥५६॥
जप पञ्चाक्षरीं विद्यां सर्वाघौघविनाशिनीम् । भावैः सहास्त संल्लापो हृल्लासोन्मादिलापतः ॥५७॥
त्रिकालमप्रमादेन बिल्वपत्रैः समर्चय । सपौरवर्गः सामात्यः सदारस्तं महेश्वरम् ॥५८॥
कुरु बिल्ववनादीनि पुष्पापारवनान्यपि । शांभवान् शिवनैवेद्यैः पावनैर्भोजयाधुना ॥५९॥
भवो भावमुखेनैव भुङ्क्तेऽन्नानि नृपोत्तम । श्रृणु शैवी कथामेव शांभवैर्भूतिभूषितः ॥६०॥
बिल्वमूलेषु सततं शिवलिङ्गानि पूजय । नीलोत्पलैर्बिल्वपत्रैर्दूर्वापामार्गजैर्दलैः ॥६१॥
संपूजय महादेवं तेन पापक्षयो भवेत् । शिवालयानां निर्माणं कुरुष्वोद्दामगोपुरम् ॥६२॥
प्राकारमण्टपोपेतं रथोत्सवविराजितम् । शिवलिङ्गालयान्येव दीपैरुज्ज्वालयाधुना ॥६३॥
संमार्जितानि सततं धूपितानि सदा कुरु । गन्धागरूत्थतोयैस्त्वमासेचय महेश्वरम् ॥६४॥
रुद्रसूक्तैर्महादेवं जलाविच्छिन्नधारया । दुन्दुभ्याघातजारावैर्नाट्यैः काहलशङ्खजैः ॥६५॥
नादैः सन्नादितं शम्भोरालयं कुरु भूपते । स्वर्णरौप्यदिपात्राणि पूजार्थं शङ्करे कुरु ॥६६॥
रथोत्सवादिकं शम्भौ राजन् रथापतौ कुरु । सत्रातिरात्रैर्विविधैस्त्रिनेत्रं योजयाधुना ॥६७॥
अध्वरेशं महादेवं सर्वदा शरणं व्रज । सोमनाथं महादेवं सोमार्धकृतशेखरम् ॥६८॥
ध्यायन् देवं विरूपाक्षं दाक्षायण्या समन्वितम् । मन्त्रिवर्गे समाधाय राज्यमेतदखण्डितम् ॥६९॥
खण्डेन्दुमौलौ सततं निवेशय मनो नृप । तेनात्याखण्डलां लक्ष्मीं कामं कामारिशासनात् ॥७०॥
प्राप्नोषि नियतं राजन्नैव तेऽविषयो भवेत् । सोमनाथं महालिङ्गं पयोष्णीतीरसंस्थितम् ॥७१॥
तत्र त्वं नियतो भूत्वा तपः कुरु महामते । सादरः शिवपूजायां रुद्रसूक्तजपादरः ॥७२॥
जप पञ्चाक्षरीं विद्यां अयुतं प्रत्यहं नृप । तदा शिवप्रसादेन तनयो विनयोज्वलः ॥७३॥
भवोद्भवप्रसादेन स महीं पालयिष्यति । मा शुचस्त्वं नृपश्रेष्ठ गच्छ सोमेश्वरालयम् ॥७४॥
वर्षाणि त्रीणि नियतं तत्र सम्यक् तपः कुरु । प्रदोषेषु महादेवं सोमनाथं समर्चय ॥७५॥
मन्दप्रदोषे शिवलिङ्गपूजां कुर्वन् लभेद्द्वादशवर्षपूजाम् ।
मन्दारकुन्दनवचम्पकबिल्वपत्रैर्मुक्तिं प्रयाति सुकृतं च फलं लभेत ॥७६॥
मीढुष्टमः शिवतमः श्रुतिषु प्रसिद्धः सिद्धौघवन्दितमहापदपद्मयुग्मः ।
त्वं भक्तियुक्तमनसा समवाप्य शम्भुं सोमेश्वरं नतसुरासुरबृन्दमौलिम् ॥७७॥
वसुधाधिपते पतिं पतीनां समावाप्य प्रमथधिनाथनाथम् ।
धृतचन्द्रकलं गले गरं त्वयि मोदात् सुतमाशु दापयेत् ॥७८॥
सूतः -
इति मुनिवचनं निशम्य राजा सततं शङ्करपादपद्मलोलः ।
स तु सैन्यसमावृतो ययौ प्रणतस्तं मुनिमाशु सोमनाथम् ॥७९॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे सोमनाथमाहत्म्ये मुद्गलनृपसंवादे मुद्गलोपदेशो नाम चतुर्दशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 07, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP