संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| चतुर्दशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - चतुर्दशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव चतुर्दशोऽध्यायः Translation - भाषांतर ईश्वरः - पुनरन्यां कथां देवि श्रृणु श्रवणभूषणाम् । सौराष्ट्रे क्षेत्रमस्त्येकं सोमनाथाह्वयं शुभम् ॥१॥तत्रासीन्महितो राजा शीतांशुकुलभूषणः । अनपत्यः स वै देवि सौराष्ट्रेशो बृहद्बलः ॥२॥पयोष्णीतीरमासाद्य सिन्धुराश्वसमावृतः । महत्या सेनया सार्धं महिष्या च समन्वितः ॥३॥मुद्रलस्याश्रमं प्राप्य श्रान्तः सूर्यकरैर्नृपः । प्रणम्य मुद्गलं राजा पूजितस्तेन विष्टरे ॥४॥निषसाद महीपालः पप्रच्छ कुशलं मुनिम् ।आश्रमेषु च पुण्येषु तथाग्निशरणेषु च ॥५॥कच्चिन्निर्विघ्नितं ब्रह्मन् तपस्तेऽग्निमुखाः क्रियाः । भवच्छिष्यगणाःसर्वे विनीतास्त्वयि सत्तमे ॥६॥मृगपक्षिगणाः सर्वे गावश्च सुखिनो वने । हस्तिहस्तापरामृष्टं भवनं ते महामुने ॥७॥बृहद्बलस्य तद्वाक्यं श्रुत्वा स मुनिसत्तमः । स उवाचाथ राजानं प्रसन्नवचसा मुनिः ॥८॥मुद्गलः - त्वयि शासति भूलोकं सर्वं च निरुपद्रवम् । त्वयाद्य पालिताः सर्वे निवसामस्तपस्विनः ॥९॥तपसा परमेशानं समभ्यर्च्य यथाविधि । भवानपि सदा राजा सुखी सैन्यसमावृतः ॥१०॥कोशागारे तथा राष्ट्रे अमात्ये दुर्गरक्षणे । दारपौरादिकार्येषु विनीतोऽसि नृपात्मज ॥११॥इत्थं मुनिवचः श्रुत्वा स राजा मुद्गलं तदा । प्राञ्जलिर्विनयोपेतो मुद्गलं वाक्यमब्रवीत् ॥१२॥राजा - धन्योऽहमधुना विप्र यन्मां त्वमनुकम्पसे । शांभवस्याद्य ते दृष्ट्या सर्वं कुशलमेव मे ॥१३॥तथापि हृद्गतो भावः स त्वया प्रपय एव हि । शांभवा एव लोकेषु शम्भुवो मुनिसत्तम ॥१४॥त्वद्दयापाङ्गसङ्गेन सुखसङ्घो ममाभवत् । विश्वस्तस्त्वयि चात्यन्तं पितरीव महामुने ॥१५॥कारणं तत्र वक्ष्यामि तदिहैकमनाः श्रृणु । असंख्यं गणनाहीनं वित्तमस्त्येव मद्गृहे ॥१६॥मातङ्गाश्च तुरङ्गाश्च उत्तुङ्गाः सन्ति कोटिशः । गोखरोष्ट्राजाविकाश्च बलीवर्दाश्च कोटिशः ॥१७॥रथाश्च शिबिकाः सन्ति दन्तिदन्तोत्तमैः कृताः । हिरण्यरजतानां च रत्नानां चैव राजयः ॥१८॥गिरीन्द्रशिखराकाराः सन्ति विप्र सहस्रशः । मद्गृहे नियतं विप्र धान्यानां गणनैव न ॥१९॥अमात्या बान्धवाः पौरा भृत्याश्चैव भृता मया । हृष्टपुष्टजनाः सर्वे शिपिविष्टार्चने रताः ॥२०॥ब्राह्मणावसथाश्चैव सोर्वराः शर्वतुष्टये । पानीयशालारुचिराः सरस्तीराणि कोटिशः ॥२१॥विश्रान्तिमण्टपाश्चापि कृताः सान्नमया मुने । अश्वमेधादयो यागाः स्वाद्वन्ना बहुदक्षिणाः ॥२२॥कृताः सहस्रशो विप्र साक्षाच्छङ्करतुष्टये । न तस्करः स्वैरिणी वा अनग्निर्नैव मे पुरे ॥२३॥ग्रामे राष्ट्रे जनपदे दरिद्रो नासहस्रदः । दारा मनोहराः सन्ति रमाधिक्कारिणो मम ॥२४॥शतसंख्या मुनिश्रेष्ठ शरदिन्दुसमाननाः । अनाहतं शासनं मे सर्वदेशेषु सत्तमाः ॥२५॥दास्यो मनोहराः सन्ति पीनश्रोणिपयोधराः । यौवनोन्मादसंवीता निष्ककण्ठ्यो वराननाः ॥२६॥दासाश्च मेऽद्य नेदिष्ठा युवानो मृष्टकुण्डलाः । भटाश्च समहोत्साहाः सर्वशस्त्रधराह सदा ॥२७॥जेतारो रिपुसैन्यानां न कदाचित् पराजिताः । सर्वमेतन्मुनिश्रेष्ठ नैवानन्दकरं मम ॥२८॥ नन्दनानन्दहीनस्य नानन्दः क्कापि दृश्यते । इत्युक्त्वा सोऽश्रुपूर्णाक्षो राजोच्छ्वाससमन्वितः ॥२९॥दुःखितः प्राञ्जलिर्विप्रं प्रणनाम पुनः पुनः । स मुनिः सान्त्वयन् वाक्यैर्मैवं राजन्निति ब्रुवन् ॥३०॥स्वपाणिकमलेनैव तन्मुखं परिमार्जयन् । तमाह नृपतिं विप्रो ध्यायन्नीशानमव्ययम् ॥३१॥मुद्गलः - त्वं राजा सर्वलोकानां सत्यधर्मपरायणः । त्वया न सदृशो लोके धनैर्धनपतेः समः ॥३२॥त्वयाऽश्वमेधैः सततं तृप्तो मेधपतिर्यतः । स ते कामं पूरयति कामारिर्नात्र संशयः ॥३३॥पयोष्ण्यां स्नाहि राजेन्द्र नद्यामस्यां सुखाप्तये । इत्युक्तः सोऽपि नृपतिः स्नात्वा नद्यां महामुनिम् ॥३४॥शरणं स जगामैव भक्तं मम शुचिस्मिते । समुद्धूल्य तदङ्गानि भस्मना स्वकाराम्बुजैः ॥३५॥अग्निरित्यादिभिर्मन्त्रैस्त्रियायुषत्रिपुण्टकैः । ईशानेति च मन्त्रेण ददौ रुद्राक्षमालिकाः ॥३६॥प्रददौ शांभवीं विद्यां श्रीमत्पञ्चाक्षरीं शुभाम् । स तया विद्यया रेजे राजा चन्द्र इवोद्गतः ॥३७॥नभसीवामले देवि तारागणपरीवृतः । सामात्यं भोजयामास मुनिर्मूलफलैर्नृपम् ॥३८॥शिवनैवेद्यमास्वाद्य स्वादोः स्वादीय उत्तमं । नियुक्तस्तेन मुनिना स तु राजा बृहद्बलः ।प्रणम्य तं मुनिं राजा प्राञलिस्तं वचोऽब्रवीत् ॥३९॥राजा - अनुशास्तु भवानेव तत्करिष्यामि सादरम् । तदा बृहद्बलवचो मुनिः श्रुत्वा तमब्रवीत् ॥४०॥मुनिः - राजन्नियतवाङ्मौनी नित्यं रुद्रजपादरः । जप पञ्चाक्षरीं विद्यां पञ्चपातकनाशिनीम् ॥४१॥अग्निरित्यादिभिर्मन्त्रैः समुद्धूल्य स्वकां तनुम् । त्रियायुषैरत्र्यंबकैश्च त्रिपुण्ट्रं धारयादरात् ॥४२॥शिरोललाटवक्षःसु कण्ठबाहुजसन्धिषु । रुद्राक्षं धारयाद्याशु कण्ठकर्णकरादिषु ॥४३॥बिल्वपत्रैर्बाणलिङ्गं नियमेन समर्चय । शिवनैवेद्यमास्वाद्य प्रहृष्टो भव पार्थिव ॥४४॥शांभवान् शिवनैवैद्यैर्भोजयाद्य सहस्रशः । त्रिनेत्रभुक्तिपात्रं हि शांभवा एव केवलम् ॥४५॥शांभवा एव ते पूज्याश्चातुर्वर्णेषु वै नृप । शांभवानां रक्षणेन शम्भुः प्रीणाति नान्यथा ॥४६॥शांभवो नाम राजेन्द्र शिवैकशरणस्तु यः । भस्मत्रिपुण्ट्ररुद्राक्षमालाभिर्लिङ्गपूजकः ॥४७॥सोमवारव्रती चैव नक्तभोजी शिवार्चकः । तत्त्यक्त्वा पतितो भूयादिति जाबालपारगाः ॥४८॥कालाष्टम्यां महादेवं कृष्णपक्षे विशेषतः । संपूज्य रात्रौ नक्ताशी मासि मासि नृपोत्तम ॥४९॥तत् त्यक्त्वा पतितो भूयादिति जाबालपारगाः । श्रीप्रदोषे व्रतं पुण्यं पक्षयोर्नियंत कुरु ॥५०॥संपूज्य रात्रौ नक्ताशी मासि मासि नृपोत्तम । तत् त्यक्त्वा पतितो भूयादिति जाबालपारगाः ॥५१॥पञ्चामृतैर्लिङ्गमौलिं फलसारैर्महश्वरम् । बिल्वपत्रैः पङ्कजैश्च समभ्यर्च्य शिवं सदा ॥५२॥नक्तं नैवेद्यमास्वाद्य शांभवैः संवसाद्य वै । तत् त्यक्त्वा पतितो भूयादिति जाबालपारगाः ॥५३॥ग्रहणे सोमसूर्योत्थे पुण्ये पर्वसु शङ्करम् । संपूज्य देवदेवस्य लिङ्गं पापैर्विमुच्यते ॥५४॥भस्मरुद्राक्षहीनाङ्गान् दण्डयाशु विनाशय । ऊर्ध्वपुण्ड्रादिचक्राङ्कान् देशात् निःसारयाधुना ॥५५॥ऊर्ध्वपुण्ट्रं धृतं येन तन्मुखं नावलोकयेत् । यदि पश्येद्भ्रमाद्वापि चण्डभानुमुदीक्ष्य च ॥५६॥जप पञ्चाक्षरीं विद्यां सर्वाघौघविनाशिनीम् । भावैः सहास्त संल्लापो हृल्लासोन्मादिलापतः ॥५७॥त्रिकालमप्रमादेन बिल्वपत्रैः समर्चय । सपौरवर्गः सामात्यः सदारस्तं महेश्वरम् ॥५८॥कुरु बिल्ववनादीनि पुष्पापारवनान्यपि । शांभवान् शिवनैवेद्यैः पावनैर्भोजयाधुना ॥५९॥भवो भावमुखेनैव भुङ्क्तेऽन्नानि नृपोत्तम । श्रृणु शैवी कथामेव शांभवैर्भूतिभूषितः ॥६०॥बिल्वमूलेषु सततं शिवलिङ्गानि पूजय । नीलोत्पलैर्बिल्वपत्रैर्दूर्वापामार्गजैर्दलैः ॥६१॥संपूजय महादेवं तेन पापक्षयो भवेत् । शिवालयानां निर्माणं कुरुष्वोद्दामगोपुरम् ॥६२॥प्राकारमण्टपोपेतं रथोत्सवविराजितम् । शिवलिङ्गालयान्येव दीपैरुज्ज्वालयाधुना ॥६३॥संमार्जितानि सततं धूपितानि सदा कुरु । गन्धागरूत्थतोयैस्त्वमासेचय महेश्वरम् ॥६४॥रुद्रसूक्तैर्महादेवं जलाविच्छिन्नधारया । दुन्दुभ्याघातजारावैर्नाट्यैः काहलशङ्खजैः ॥६५॥नादैः सन्नादितं शम्भोरालयं कुरु भूपते । स्वर्णरौप्यदिपात्राणि पूजार्थं शङ्करे कुरु ॥६६॥रथोत्सवादिकं शम्भौ राजन् रथापतौ कुरु । सत्रातिरात्रैर्विविधैस्त्रिनेत्रं योजयाधुना ॥६७॥अध्वरेशं महादेवं सर्वदा शरणं व्रज । सोमनाथं महादेवं सोमार्धकृतशेखरम् ॥६८॥ध्यायन् देवं विरूपाक्षं दाक्षायण्या समन्वितम् । मन्त्रिवर्गे समाधाय राज्यमेतदखण्डितम् ॥६९॥खण्डेन्दुमौलौ सततं निवेशय मनो नृप । तेनात्याखण्डलां लक्ष्मीं कामं कामारिशासनात् ॥७०॥प्राप्नोषि नियतं राजन्नैव तेऽविषयो भवेत् । सोमनाथं महालिङ्गं पयोष्णीतीरसंस्थितम् ॥७१॥तत्र त्वं नियतो भूत्वा तपः कुरु महामते । सादरः शिवपूजायां रुद्रसूक्तजपादरः ॥७२॥जप पञ्चाक्षरीं विद्यां अयुतं प्रत्यहं नृप । तदा शिवप्रसादेन तनयो विनयोज्वलः ॥७३॥भवोद्भवप्रसादेन स महीं पालयिष्यति । मा शुचस्त्वं नृपश्रेष्ठ गच्छ सोमेश्वरालयम् ॥७४॥वर्षाणि त्रीणि नियतं तत्र सम्यक् तपः कुरु । प्रदोषेषु महादेवं सोमनाथं समर्चय ॥७५॥मन्दप्रदोषे शिवलिङ्गपूजां कुर्वन् लभेद्द्वादशवर्षपूजाम् ।मन्दारकुन्दनवचम्पकबिल्वपत्रैर्मुक्तिं प्रयाति सुकृतं च फलं लभेत ॥७६॥मीढुष्टमः शिवतमः श्रुतिषु प्रसिद्धः सिद्धौघवन्दितमहापदपद्मयुग्मः ।त्वं भक्तियुक्तमनसा समवाप्य शम्भुं सोमेश्वरं नतसुरासुरबृन्दमौलिम् ॥७७॥वसुधाधिपते पतिं पतीनां समावाप्य प्रमथधिनाथनाथम् ।धृतचन्द्रकलं गले गरं त्वयि मोदात् सुतमाशु दापयेत् ॥७८॥सूतः - इति मुनिवचनं निशम्य राजा सततं शङ्करपादपद्मलोलः ।स तु सैन्यसमावृतो ययौ प्रणतस्तं मुनिमाशु सोमनाथम् ॥७९॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे सोमनाथमाहत्म्ये मुद्गलनृपसंवादे मुद्गलोपदेशो नाम चतुर्दशोऽध्यायः ॥ N/A References : N/A Last Updated : April 07, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP