संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
सप्तमोऽध्यायः

भर्गाख्यः पञ्चमांशः - सप्तमोऽध्यायः

श्रीशिवरहस्यम्


सूतः -
पुनः पप्रच्छ सा देवी पार्वती परमेश्वरम् । प्रपन्नानन्दजननं जगज्जनकमीश्वरम् ॥१॥
पार्वती -
महादेवमहानन्दकरुणामृतसागर । श्रुतमुत्तममाख्यानं महाकालगणस्य च ॥२॥
किं वान्यत् प्रीतिजनकं क्षेत्रमस्ति महेश्वर । क्षेत्राणां त्वं पतिः शम्भो विशिष्टं वक्तुमर्हसि ॥३॥
ईश्वरः -
क्षेत्रमस्त्येकमुत्कृष्टमुत्फुल्लकमलानने । ओंकारं नाम विमलं कलिकल्मषनाशनम् ॥४॥
तत्र शैववरा नित्यं निवसन्ति सहस्रशः । ते सर्वे मम लिङ्गार्चां कुर्वन्त्येव प्रतिक्षणम् ॥५॥
भासिताभासितैर्नित्यं शान्ता दान्ता जितेन्द्रियाः । रुद्राक्षवरभूषाढ्या फालाक्षान्यस्तमानसाः ॥६॥
तत्रास्ति सरितां श्रेष्ठा लिङ्गसङ्गतरङ्गिता । नर्मदा शर्मदा नित्यं स्नानात् पानावगाहनात् ॥७॥
पापौघसंघभङ्गाढ्या वातपोतसुशीतला । तत्रास्ति कुण्डमुत्कृष्टं ओंकाराख्यं शुचिस्मिते ॥८॥
तत्कुण्डदर्शनादेव मल्लोके निवसेच्चिरम् । तत्कुण्डोदकपानेन हृदि लिङ्गं प्रजायते ॥९॥
भावाः पिबन्ति तत्कुण्डजलं शीतं विमुक्तये । तृप्तिं प्रयान्ति पितरः तत्कुण्डजलतर्पिताः ॥१०॥
सदा तत्कुण्डरक्षार्थं गणाः संस्थापिता मया । कुण्डधारप्रभृतयः शूलमुद्गरपाणयः ॥११॥
गजेन्द्रचर्मवसना मृगेन्द्रसमविक्रमाः । हरीन्द्रानपि ते हन्युर्गिरीन्द्रसमविग्रहाह ॥१२॥
धनुःशरकराः सर्वे जटाशोभितमस्तकाः । अग्निरित्यादिभिर्मन्त्रैर्भस्मोद्धूलितविग्रहा ॥१३॥
संग्राममुखराः सर्वे गणा मेदुरविग्रहाः । कदाचिदननुज्ञाप्त तान् गणान् मददर्पितः ॥१४॥
अप्सरोभिः परिवृतो मरुतां पतिरुद्धतः । आरुह्याभ्रमुनाथं तं क्रीडितुं नर्मदाजले ॥१५॥
समाजगाम त्वरितः शच्या साकं शिवे तदा । तदा तं गणपाः क्रुद्धाः सर्वे ते ह्यतिमन्यवः ॥१६॥
सगजं पातयन्नब्धौ शच्या साकं सुरेश्वरम् । सुरांस्तदा सवरुणान् बिभिदुः पवनानलान् ॥१७॥
निस्त्रिंशवरधाराभिः सुतीक्ष्णाग्रैः शिलीमुखैः । मुद्गरैर्बिभिदुश्चान्ये सवाहायुधभूषणान् ॥१८॥
विवाहनांस्तदा देवान् स्रवद्रक्तान्‍ स्खलत्पदान् । कान्दिशीकान् मुक्तकेशान् क्षणाच्चक्रुर्गणेश्वराः ॥१९॥
अप्सरास्ता विकवराः रुदन्त्यो मुक्तमूर्धजाः । हाहा बतेति क्रन्दन्त्यः स्र्वद्रक्तार्द्रवाससः ॥२०॥
तथा देवगणाः सर्वे शक्राद्या भयकम्पिताः । ओंकरं तत्र तल्लिङ्गं शरणं जग्मुरीश्वरम् ॥२१॥
देवाप्सरसः -
महापुण्यसङ्गं कृतानङ्गभङ्गं सगङ्गातरङ्गैः पिशङ्गं जटान्ते ।
सुचन्द्रार्धमौलिं महेशाङ्गसङ्गं महलिङ्गमोंकारमीशं प्रपन्नाह ॥२२॥
विनायकसुचारुसुपूजितपदं चारुमुक्तिप्रदं विनायकगुरुं विबुधमानसान्तर्गतम् ।
विशोषितमहाम्बुधिप्रणुतमीशमाशामुखं नताः स्म शिवमोंकृतिं प्रणवलिङ्गसंस्थं शिवम् ॥२३॥
इत्थं संस्तुवतां तेषां शक्रादीनां महेश्वरः । ओंकारमूललिङ्गात् स प्रादुरासीत् कृपानिधिः ॥२४॥
अनन्तसोमसूर्याग्निविद्युत्सदृशविग्रहः । पिशङ्गितजटजूटतटबद्धार्धचन्द्रकः ॥२५॥
उमावामार्धसंराजद्भोगिभोगविभूषणः । त्रिशूलोद्यत्करोल्लग्नडमरुध्वनिडम्बरः ॥२६॥
चण्डताण्डवसन्नाहपिण्डिताखिलभूतलः । भस्मोद्धृलितसर्वाङ्गः त्रिपुण्ट्रोज्वलफालकः ॥२७॥
देवान् संह्लादयन् देवः शङ्करश्चन्द्रशेखरः । घनगम्भीरघोषेण वाचमूचेऽमरान् प्रति ॥२८॥
ईश्वरः -
लिङ्गमेतत् सुरश्रेष्ठा मुक्तिदं दर्शनात् सदा । ब्रह्मविष्ण्वादिविबुधैः पूजितं सर्वकामदम् ॥२९॥
अस्य लिङ्गस्य महिमा वेदैर्न ज्ञात एव हि । कृतादिषु परं लिङ्गमोङ्कारप्रभवं सुराः ॥३०॥
लिङ्गे त्वन्तर्गता वेदाः साङ्गोपनिषदा सह । ओंकारप्लुतिरेवात्र दृश्यते न तथा श्रुतिः ॥३१॥
अत्रेतिहासं वक्ष्यामि श्रृण्वन्तु सुरसत्तमाः । पुरा कृतयुगे देवा दैत्या विग्रहमाश्रिताः ॥३२॥
स्वाहास्वधावषट्कारतर्पिताः पितरः सुराः । निजघ्नुरसुरानीकं सन्तप्तशरवृष्टिभिः ॥३३॥
देवैः संपीडिता दैत्याः शंखाद्याः सुमतबलाः । शुक्रं संमान्य संमंत्र्य पौरोहित्ये व्यवस्थितम् ॥३४॥
तं प्रणम्याथ ते सर्वे शंखाद्या दितिजोत्तमाः । विनयावनता भूत्वा तमाहुर्द्विजसत्तमम् ॥३५॥
दैत्याः -
संग्रामे विमुखा देवाः पुनराप्यायिता द्विजैः । स्वाहास्वधावषट्कारैः सोमाज्यहविषा सुराः ॥३६॥
आमाद्यन्ति प्रहृष्यन्ति घ्नन्त्यस्मान् पुनरेव हि । उपायं संवादास्माकं विजयायाद्य भार्गव ॥३७॥
इति शंखमुखोद्गीतं वाक्यं श्रुत्वा स भार्गवः । विचार्य तपसा दैत्यानिदमाह प्रहर्षयन् ॥३८॥
शुक्रः -
देवाश्च बलिनो येन यूयं हीनपराक्रमाः । देवानाप्याययन्त्येते क्रतुभिर्मुनयः सुखम् ॥३९॥
स्वाहास्वधावषट्कारैस्तेऽपि देवेषु संस्थिताः । वेदान् प्रसह्य हरन्तः अर्णवान्तर्जलेशयाः ॥४०॥
वेदेष्वथ विनष्टेषु विनष्टाः सुरसत्तमाः । यज्ञभागबिहीनाश निःस्वाध्यायवष्टट्कृताः ॥४१॥
यज्ञहीनं जगत् सर्वं वीरणौषधिवर्जितम् । हीनान्ना ब्राह्मणा गावो नश्यन्ते वृष्टिवर्जिताः ॥४२॥
तेषु सर्वेषु निर्यज्ञा विनंक्ष्यन्ति सुरासुराः । भवतां वशगं भूयात् त्रैलोक्यं सचराचरम् ॥४३॥
इति श्रुत्वा कवेर्वाक्यं शङ्खासुरमुखाऽसुराः । ब्रह्मलोकं तदा गत्वा मूर्तीभूतां तथा श्रुतिम् ॥४४॥
ब्रह्मपारिषदान् हत्वा जहारामरसूदनः । वेदान् साङ्गोपनिषदः पुराणागमसंयुतान् ॥४५॥
संहृत्य वेदमखिलमर्णवं प्रविवेश ह । नष्टवेदस्तथा लोको निःस्वाध्यायवषट्कृतः ॥४६॥
शक्राद्याः खेदमगमन् विवर्णवदनास्तदा । कृशानुरेता निर्धूमो धामहीनोतिदीनवाक् ॥४७॥
वायुरायुर्विहीनश्च चलितुं चापि न क्षमः । रुग्णः स वरुणॊ भीत्या वर्जी जीवितवर्जितः ॥४८॥
कुबेरः कृशबेरश्च शङ्कातङ्कान्वितोऽन्तकः । मुनयः क्षुत्तषाविष्टास्त्यक्ताचारा यथायथम् ॥४९॥
इत्येव विद्रुते लोके यज्ञोत्सवविवर्जिते । देवास्ते नर्मदामेत्य स्नात्वा भस्मविभूषिताः ॥५०॥
रुद्राक्षमालाभरणा रुद्रसूक्तजपादराः । काकोदरमहाहाराः सदाराः सुरसत्तमाः ॥५१॥
शरणं ते ययुः सर्वे वशीकृतगणेन्द्रियाः ॥५२॥
सुधामपि बुधा मुधा पितृगणाः स्वधामप्यतो विनिन्द्य जनिनाशदान् विविधकष्टधर्माधमान् ।
भजन्ति शिवतत्पराः हरिणपोतगर्भाधिकस्फुरत्सुरसरिज्जटं निटिललोचनं शङ्करम् ॥५३॥
महेश्वरमुमासखं सततमन्दहासोन्मुखं चिदादिमभवत्सुखं मधुहराग्निबाणोन्मुखम् ।
अनङ्गपुरभेदनक्षपितदक्षकालोन्मुखं सुशङ्खपरिपीडिता सुरगणा ययुस्ते सुखम् ॥५४॥
दृष्ट्वा लिङ्गमहोङ्कृतीश्वरसुधाकर्पूरखण्डद्रवा पारावारनिदानसारसुभगं देवाः समभ्यर्च्य च ।
फुल्लैः पुष्पमरन्दसौरभगणैः नैवेद्यधूपादिभिः वाद्यैश्चन्दनवन्दनैः सुखमुखं सन्तुष्टुवुस्ते शिवम् ॥५५॥
देवाः -
कान्तं कारणकारणं करलसत्कल्याणभूभृद्धनुः कर्पूराभकलेबरं क्रतुपतिं कारुण्यसारकरम् ।
कामारातिमकामिनां सुकृतिनां कैवल्यदं कामदं संप्राप्ताः शरणं कलानिधिकलाराजज्जटं शङ्करम् ॥५६॥
खद्योतेन्द्वग्निनेत्रं शतमखमुखखेचारखातोत्तमाङ्गं
खर्वं खर्वादखर्वं जगति तु विदिताद्वस्तुनो खर्वतोऽपि ।
खण्डेनेन्दोः कपर्दे खचितमज्जमुखस्तुत्यमाखुप्रियेष्टं
खेदोत्खाताय प्राप्ता नखदलितककं खण्डिताखण्डलारिम् ॥५७॥
गोनेत्रं गोशयेड्यं गगनमयतनुं नित्यगोमौलिगम्यं
गोराशिं गोधिगोधिं सकलगुरुगुरुं गोजगोपत्रगोपम् ।
गोवश्यं गोगुणाढ्यं गणगणसहितं गोधरेद्गासहायं
गोजाये गोजभूषं गलगिलितविषं गोभिराशिः स्तुमो‍ऽद्य ॥५८॥
घर्मान्ते दीर्घहस्ते घृणिभिरपघृणैः घर्मघृष्टैर्धनान्ते
वार्योघैर्दीर्घदीर्घैरनिशमपघनं क्लेशयन्तो नघेन्द्राः
द्राघीयांसं तवाङ्घ्रिं धुसृणसमघृणिं कामघातिं गृणामो
दीर्घाघ्रातान्यघौघान्यपि विमलधियः शीघ्रमेव त्यजामः ॥५९॥
चारुस्मेरमुखं चराचरविभुं चापीभवद्भूधरं
चक्षुःश्रोत्रविभूषणं चलदृशां संश्लिष्टवामाङ्गकम् ।
चित्ते चीरवसं चिदात्मकतया संचिन्त्यमानं चिरं
चेतोभूहरचक्षुषं चिरचितैः संचिन्तयामः शिवम् ॥६०॥
गच्छामो बहुबिल्वसंवृतवनं तत्राच्छकुण्डे पयः
स्नास्यामोऽद्य वसन्तसूरकिरणैः सन्तप्तगात्रा वयम् ।
रुद्राक्षैः शितभस्मपूरनिकरैरुद्धूलयामस्तनुं
यास्यामोऽद्य सुनिर्वृतिं शिव महादेवेति सङ्कीर्तनैः ॥६१॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे ओंकारेश्वर - माहात्म्ये देवसंघस्तुतिर्नाम सप्तमोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 07, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP