भर्गाख्यः पञ्चमांशः - सप्तदशोऽध्यायः
श्रीशिवरहस्यम्
ईश्वरः -
स राजा पुनरीशानं सोमनाथाख्यमीशरम् । पूजयामास देवेशि भक्त्या चानन्यया तदा ॥१॥
ऋषयः -
कथं तस्य तदा सूत सोमनाथो महेश्वरः । प्रसन्नः पार्वतीनाथो निशानाथनमच्छिराः ॥२॥
तद्वदस्वानुपूर्व्येण नैव तृप्यामहे वयम् । भगनेत्रपदद्वन्द्वकथया पाविता वयम् ॥३॥
भवाख्यदावदग्धानां शमने जलदो भवान् । महादेवकथाधारासुधाशीकरविग्रहान् ॥४॥
करुष्व त्वं मुनिश्रेष्ठ कृपापात्रं वयं हि ते ॥५॥
ईश्वरः -
इति पृष्टो मुनीन्द्रैस्तैः सूतस्तच्चरितं पुनः । प्राञ्जलिर्विनयेनाह प्रणिधाय मनः शिवे ॥६॥
सूतः -
स राजा शांभवैः सार्धं शिवाराधनतत्परः । पञ्चाग्निमध्ये निरतस्तप्तसूर्यगभस्तिभिः ॥७॥
मासमेकं फलाहारो मासं पर्णाशनोऽभवत् । मासं कन्दाशनो राजा मांसं चैव जलाशनः ॥८॥
मासंयवागुभक्षी स्यात् मासं चानिलभोजनः । वर्षास्वभ्रावकाशश्च हेमन्ते जलसंश्रयः ॥९॥
ग्रीष्मे पञ्चाग्निमध्यस्यो रुद्रमावर्तयन् स्थितः । एवं तपस्यतस्तस्य कालात् प्रादुर्बभौ हरः ॥१०॥
ब्रह्मविष्ण्वादिभिर्देवैः तस्मै तद्दर्शनं ददौ । नीलकण्ठो जटामौलिस्त्रिशूलविलसत्करः ॥११॥
सुधाधामकलामौलिः फालोज्ज्वलितलोचनः । त्रिपुण्ट्रलेखाविलसत्फालभागमनोहरः ॥१२॥
फणीकङ्ग्णशोभाढ्यवृत्तबाहुचतुष्टयः । विधिजातमहामुण्डकल्पितस्रग्विभूषितः ॥१३॥
महावृषभमारुह्य छत्रचामरपाणिभिः । नन्दिकेशमहाकालगणवृन्दैर्निषेवितः ॥१४॥
उमासंश्लिष्टवामाङ्गो राजानं समुदैक्षत । दृष्ट्वा स राजा देवेशं महेशं करुण करम् ॥१५॥
प्रणम्य ददया भक्त्या सानन्दजललोचनः । तुष्टाव भक्तिभरितः साम्बं चन्द्रार्धशेखरम् ॥१६॥
राजा -
सुरेश्वरं निरीश्वरं गिरीश्वरं नटेश्वरं महेश्वरं भयस्करं शिवं भजेय शङ्करम् ।
भुजङ्गराजहारकं सुमारमारहारकं महाविषाग्निधारकं भजे विमुक्तिदायकम् ॥१७॥
सुरारिबृन्ददुःखदं शुभाङ्गदं शुभास्पदं सुबद्धकर्ममोक्षदं भजे शिवं विमुक्तिदम् ।
विधीन्द्रविष्णुसन्मुखं महागिरीन्द्रजासखं धनेशमुख्यसत्सखं भजे शिवं मदुन्मुखम् ॥१८॥
उमापतिं सभापतिं दिशां पतिं पशोः पतिं गिरां पतिं पतेः पतिं भजे शिवं दिवस्यपतिम् ॥१९॥
दxxxक्परिधान शङ्कर महादेवेश मा मा जहि बिभ्रन्मेरुशरासनं हरिशरो हस्तेन जिघ्रन् शिरः ।
तूर्णं तर्णकमेत्य प्रम्नुतपयःपूरा यथा गौर्भवेत् तद्वत् त्वं गिरिजामनोहर विभो हृत्पद्मसंस्थो मम ॥२०॥
त्वत्पादभ्रमरस्य भक्तिसुर्सामोदाप्तये केवलम् ॥२१॥
विष्णुवेदे च गीतस्त्वमसि भगवन् शङ्कर विभो सुधन्वा चापि त्वं त्वमसि भव विश्वाधिक भिषक् ।
तमेशानं यक्ष्ये निखिलसुमनस्त्वाय च हरं नमामि त्वत्पादं शरणद शिवं स्तौमि वचसा ॥२२॥
उन्मत्तकुम्भिकरसन्निभकण्ठसंस्थ कुम्भीनसोल्लसविलोलसुभूरिहारम् ।
कुम्भीन्द्रवक्त्रोज्ज्वलपुत्रवर्यं भजामि कुम्भोद्भवपूजितांघ्रिम् ॥२३॥
इति स्तुत्वा महादेवं प्रणम्य स नृपोत्तमः । देवीं देवाङ्गभागस्थां तुष्टाव विनतो नृपः ॥२४॥
राजा -
विद्रुमाधरनिराकृतबिम्बां वक्त्रनिर्जितसुधाकरबिम्बाम् ।
ईश्वरीमनिशमात्तकदम्बां मन्मनः स्पृशतु तां जगदम्बाम् ॥२५॥
पादयोरवनतामरदारान् भक्तलोककलुष टविदारान् ।
भावुकस्य हृदयाधिविहारान् मन्मनो भज जगत्पतिदारान् ॥२६॥
पापराशिषु शिखां भृशमौर्वीं बिभ्रतीमधिकचं स्मरमौर्वीम् ।
नेत्रपद्मजधनेषु सुगुर्वीं मन्मनः स्पृशतु तां हृदि गुर्वीम् ॥२७॥
स राजा गिरिजां स्तुत्वा सादरः प्रणिपत्य च । बद्धाञ्जलिकरस्तत्र देवदेवमुदैक्षत ॥२८॥
तस्य तद्भावमाज्ञाय भवो भवविनाशकः । वरेण छन्दयामास राजानं वाक्सुधारसैः ॥२९॥
ईश्वरः -
स्तुत्याऽनया नृपश्रेष्ठ तुष्टोऽस्मि गिरिकन्यया । मम भक्तः त्वया तुल्यो नास्ति भूमण्डलेऽधुना ॥३०॥
ये मां त्वत्कृतया स्तुत्या स्तोष्यन्ति भुवि मानवाः । तेषां मुदेऽहमत्यर्थं भविता नात्र संशयः ॥३१॥
क्ष्मामण्डलाखण्डलस्ते पुत्रो भूयान्नृपोत्तम । स नाम्ना भविता राजन् उत्तमः सविदूरथः ॥३२॥
सोऽपि मां सोमनाथाख्यं समाराध्य गणो भवेत् । अश्वमेधादिभिर्यज्ञैः स यष्टा च भविष्यति ॥३३॥
तस्य तुष्टोऽहमुत्कृष्टस्तत्कष्टं नाशयाम्यहम् । तस्य पुत्रशतं भूयान्महारथसमाह्वयम् ॥३४॥
त्वं चान्ते गणपश्रेष्टो भविष्यसि ममाग्रणीः । सोमनाथमिदं लिङ्गं सोमराज्ञा प्रपूजितम् ॥३५॥
ये पश्यन्ति सदा भक्त्या तेषां कामान् ददाम्यहम् ।
सदारस्त्वं चिरायाद्य भुक्त्वा राज्यमकण्टकम् ॥३६॥
वंशं लोके प्रतिष्ठाप्य यास्यस्यन्ते ममाग्रतः । इति तं समनुज्ञाप्य देवदेवो घृणानिधिः ॥३७॥
तस्मिन् लिङ्गवरे पुण्ये सोमनाथाह्वये द्विजाः । तिरोऽधत्त क्षणात् साबो भक्तसंसारमोचकः ॥३८॥
पश्यतां चैव सर्वेषां शांभवानां नृपस्य हि । तत्स्वप्नसदृशं सर्वं दृष्ट्वा राजा च विस्मितः ॥३९॥
शांभवैः संस्तुतो राजा धन्यस्त्वमिति तत्र हि । सकषाद्यतस्त्वया दृष्टं महेश्वरपदाम्बुजम् ॥४०॥
तव भाग्यस्य नेयत्ता त्वया धन्यतमा वयम् । इत्थं स्तुतस्तदा राजा शांभवान् पूज्य भक्तितः ॥४१॥
स्वदारामात्यरहितो नत्वा सोमेश्वरं तदा । सैन्यभारसमायुक्तो रथकुञ्जरवाजिभिः ॥४२॥
स्वदेशाय ययौ राजा प्राप्तसर्वमनोरथः ॥
सूतः -
तदुत्कृष्टमिदं क्षेत्रं पुण्यं सोमेश्वराह्वयम् । देव्यै देवेन कथितं पयोष्णीतीरसंस्थितम् ॥४३॥
दर्शनात् सर्वकामानां सिद्धिः स्याच्छङ्कराज्ञया । सौराष्ट्रमेतद्देशानां पुण्यदेशोऽयमुत्तमः ॥४४॥
सोमनाथाख्यलिङ्गेन पुनर्भूयो विराजते । सोमनाथं महादेवं प्रदोषे यस्तु पश्यति ॥४५॥
बिल्वीदलादिभिः पूज्य स मोक्षमधिगच्छति । पयोष्ण्यां यः सकृत् स्नात्वा सोमनाथं प्रणम्य च ॥४६॥
स मुक्तः सर्वपापैश्च मोदते दिवि देववत् । इन्दुग्रहे कुरुक्षेत्रे यो दद्याद्वै शतं द्विजे ॥४७॥
सकृद्दृष्ट्वा सोमनाथं तत्फलं प्राप्नुयान्नरः । महापातादिवेलासु अयने विषुवे तथा ॥४८॥
पर्वकाले तथाष्टम्यां यो दृष्ट्वा प्रणमेत च । सोमनाथं महालिङ्गं स वसेच्छिवलोकगः ॥४९॥
सोमवारे सोमनाथं रात्रौ संपूज्य भक्तितः । बिल्वपत्रैः सकृद्भक्त्या स ज्ञानं विन्दते महत् ॥५०॥
सोऽपि राजाऽथ कालेन पुत्रं भद्रगुणान्वितम् । प्राप नामापि चक्रेऽथ विदुरथ इति द्विजाः ॥५१॥
सोऽपि चान्ते शिवं प्रप सदारोऽथ बृहद्बलः । पित्र्यं राज्यं तदा प्राप विदूरथनृपस्तदा ॥५२॥
सोमनाथमहालिङ्गे तस्याभूद्भक्तिरुत्तमा । सौराष्ट्रं स जगामाथ साष्टाङ्गस्पृष्टभूतलः ॥५३॥
संपूज्य परया भक्त्या नानाविभवविस्तरैः । उवाच राजा तत्रैनं हृष्टो धर्ममथाकरोत् ॥५४॥
शैवान् नैवेद्यराशीभिर्भोजयामास कोटिशः । पयोष्णीतीरबन्धं च नानासंस्थानमण्टपान् ॥५५॥
महारथं महादेवे मण्टपोद्यानगोपुरम् । प्राकारसंस्थवृषभं सुधाचित्रविचित्रितम् ॥५६॥
कारयामास विभवैः विमानछत्रचामरम् । धूपदीपादिपात्राणि सौवर्णानि तदाऽकरोत् ॥५७॥
शिवपूजाभिवृद्ध्यर्थं ददौ ग्रामाननेकशः । द्विजानां शांभवानां हि ग्रामान् विप्रगृहोज्ज्वलान् ॥५८॥
कारयामास नृपतिगृहोपकरणान्वितान् । ददौ स शांभवान् दृष्ट्वा सोमनाथस्य तुष्ट्ये ॥५९॥
स कोटिबिल्वपत्रैश्च पूजयामास तं सदा । कृष्णगोघृतदीपैश्चादीपयत् स शिवालयम् ॥६०॥
धूपधूमगणैर्मां स धूपयामास चाम्बिके । नैवेद्यैश्च घृतापूपराशिभिx न्यवेदयत् ॥६१॥
स्वाद्वन्नराशिभिर्देवि विदूरथसमाह्वयः । नाट्यकन्यास्तु चार्वङ्ग्यस्तेन दत्ता महेश्वरि ॥६२॥
वेणुवीणामृदङ्गाश्च शंखकाहवादकाः । कल्पितास्तेन देवेशि नादितो मे शिवालयः ॥६३॥
सोमनाथे मयि सदा तस्य भक्तिः पराऽभवत् । तया भक्त्या चिरं राज्यं भुक्त्वा मल्लोकमागतः ॥६४॥
तस्य पुत्रशतं त्वासीत् सर्वं मद्भक्तिभावितम् । धनुष्मन्तं महाबाहुं परवीर्यनिवर्हणम् ॥६५॥
क्षयद्वीरपरं सर्व नानाशस्त्रास्त्रपण्डलम् । तस्य ज्येष्ठुसुतस्त्वासीन्महारथ इति स्मृतः ॥६६॥
सोऽपि सोमेश्वरे भक्थ सौराष्ट्रेशोऽभवच्छिवे । पितुः शतगुणं तेन कृता मेऽपचितिः शिवे ॥६७॥
तस्मिन् शासति भूलोके शैवा एव सदा जनाः । भस्मरुद्राक्षहीनाङ्गान् शास्ति भूपोऽयमुत्तमः ॥६८॥
नारुद्राक्षधृगवासीन्न रुद्राध्यायवर्जितः । पञ्चाक्षरविहीनश्च शिवलिङ्गार्चनोज्झितः ॥६९॥
नाभस्मफालस्तत्रासीत् तस्मिन् राजनि शासति । समर्यादमभूत् तेन क्ष्मातलं तेन सुन्दरम् ॥७०॥
यथा विद्योतते भानुः स्वांशुभिर्नाशयंस्तमः । तथा वेदोदिताचारैर्जगत्तापमपाकरोत् ॥७१॥
ईश्वरः -
इत्येतत्ते मयाख्यातं तवाद्येदं कथानकम् । सोमनाथमहेशस्य श्रुत्वा पापैर्विमुच्यते ॥७२॥
योऽपि तत्कथयेन्नित्यं सदा पर्वणि पर्वणि । ब्राह्मणो नियतं देवि मुक्तिमन्ते प्रयाति च ॥७३॥
शम्भुत्वेन शिवाहमण्डलगतं स्वान्तस्थहृत्पद्मगं कोशातीतमनन्तमव्ययमजं स्वात्मानमेकाद्वयम् ।
विश्वातीतमनेकविश्वजनकं गौर्या समालिङ्गितं ध्यात्वा शोकशतैर्विमुक्तहृदयः सद्यो भवत्यम्बिके ॥७४॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे नन्दिकेशबृहद्बलसंवादे सोमनाथमहिमवर्णनं नाम सप्तदशोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 07, 2017
TOP