भर्गाख्यः पञ्चमांशः - त्रयस्त्रिंशोऽध्यायः
श्रीशिवरहस्यम्
राजा -
जय प्रमथमन्दार विश्वाधिक महेश्वर । जय वेदान्तसंवेद्य कामान्तक जगत्प्रभो ॥१॥
जय देवाधिदेवेश प्रपन्नं पाहि मां शिव । जय भक्तजनाधार जय सर्वाङ्गसुन्दर ॥२॥
जय वैद्योत्तम व्योमकेशाशावसनाव्यय । जय भूतपते शंभो करुणावरुणालय ॥३॥
जयापर्णापतेशान स्वर्णवर्णाम्बरायत । जय वाताशिपर्णाशिहृदयान्तरग प्रभो ॥४॥
पाहि पाहि महादेव रक्ष मां शशिशेखर ॥५॥
ईश्वरः -
इति राज्ञा तदा देवि कुरुणा संस्तुतोऽस्म्यहम् । तस्मै दत्तो वरो देवि पुरं भवतु जाङ्गलम् ॥६॥
विश्वकर्मा तदेवागान्मया संस्मारितोऽम्बिके । प्राञ्जलिः किङ्करोमीति स्थितो मत्सन्निधौ ततः ॥७॥
अस्य राज्ञो यथाकामं प्राकारपरिघावृतम् प्रासादमालाविततं गोपुराट्टालतोरणम् ॥८॥
कुरुक्षेत्रेश्वरस्यास्य गर्भागारं मनोरमम् । प्राकारैर्मण्टपैश्चैव विस्तृतं गोपुरैरपि ॥९॥
धनधान्यसुसंपूर्णं गोगजाश्वादिसंवृतम् । नरनारीगणाकीर्णं विपणापणशोभितम् ॥१०॥
यन्त्रशस्त्रार्गलैर्युक्तं कुरोरस्य पुरं कुरु । इत्युक्त्वा विश्वकर्माणं कुरोर्वीक्षयतः शिवः ॥११॥
लिङ्गेऽन्तर्धिं ययौ देवो मुनेस्तस्यापि पश्यतः । तदाज्ञयैव देवस्य विश्वकर्मा च तत्र हि ॥१२॥
प्राकारपरिखोपेतं पुरमिन्द्रपुरं यथा । पताकातोरणोपेतं नानाप्रासादसंकुलम् ॥१३॥
क्षणाद्बभौ पुरं रम्यं कुरोस्तत् कुरुजाङ्गलम् । आलयं देवदेवस्य कुरुक्षेत्रेश्वरस्य च ॥१४॥
स मण्टपं च प्राकारं गोपुरैर्दिक्षु शोभितम् । कुरुः स राजा तत्रासीत् विप्रेन्द्रेण शशास तत् ॥१५॥
तं गङ्गा प्लावयामास यमुना परिखाकृती । तत्पुरस्तात् समभवत् कुरुक्षेत्रस्य सत्तमाः ॥१६॥
हस्तिनामाथ तत्पौत्रस्तेनापि प्रथिता पुरी । हस्तिनापुरमित्याख्यां प्राप तत्पुरमुत्तमम् ॥१७॥
कुरुक्षेत्रें प्रयागं च गयां चैवाविमुक्तकम् । एतत्प्रधानं क्षेत्राणां उत्कृष्टं प्राह शङ्करः ॥१८॥
समन्तपञ्चकं तीर्थं कुरुक्षेत्रे महेश्वरि । रामेण पितृतृप्त्यर्थं ह्रदाः पञ्चैव कल्पिताः ॥१९॥
तत्र स्नात्वा नरो यस्तु पितॄन सन्तर्पयेद्यदि । कुरुक्षेत्रगतं वारि पितरः प्रार्थयत्नि हि ॥२०॥
तत्र श्राद्धानि देयानि सर्वैः पर्वणि पर्वणि । अमाविषुवसंक्रान्तौ राहुग्रस्ते दिवाकरे ॥२१॥
सोमे चाथ व्यतीपाते कुरुक्षेत्रगतो नरः । सन्तर्प्य तारयेदेव स्वपितॄन् नात्र संशयः ॥२२॥
कुरुक्षेत्रेश्वरं भक्त्या प्राप्य तत्तीर्थवारिभिः । बिल्वपत्रैः समभ्यर्च्य निवेद्याथ सुपायसम् ॥२३॥
उपोषितो नरस्तत्र शतवर्षतपःफलम् । प्राप्नोति मनुजो गौरि गयापिण्डाच्छताधिकम् ॥२४॥
कुरुक्षेत्रगता गङ्गा स्नाता पीता महाघहृत् । दर्शनाच्चैव तस्यास्तु मुक्तो भवति पापतः ॥२५॥
किं पुनः स्नानदानार्चाशिवदर्शनतः शिवे । देवाः स्तुवन्ति मां तत्र ब्रह्माद्या मुनिसत्तमाः ॥२६॥
तत्स्तुतिं श्रृणु देवेशि मत्तः पापापहारिणीम् ।
ब्रह्मादयः -
वासीकृतानन्दवन प्रसीद शंभो त्वमानन्दघनोऽत्युदारः ।
सुरावनः संस्तुतपाकशासनः सुपावनो विप्रनतो हुताशनः ॥२७॥
सनातन नतावन त्रिपुरदक्षसन्त्रासन सुधाशनगणावन स्तुतसुवेद पंचानन ।
गराशन हुताशनप्रवलनेत्र कालादन महाघभयनाशन स्मरशरादिधाराशन ॥२८॥
नीललोहित भवान्त पुरान्त तातभूत जगतां मम मातः ।
पूषदन्तहननादिकरान्त दुःखितावन सदा सवधूक ॥२९॥
इत्थं ब्रह्मदयो देवि मां स्तुवन्ति तदाम्बिके । कुरुक्षेत्रेश्वरं दृष्ट्वा यः स्नात्वा तत्पुरांभसि ॥३०॥
गङ्गायां त्रिदिनं देवि सर्वपापैः प्रमुच्यते । पुरा देवासुरैः साकं (?) युयुधुः शक्रपूर्वकाः ॥३१॥
वाहनैश्च गजैरश्वै रथार्भटगणारवैः । मृदङ्गशङ्खजारावैर्दुन्दुभीनां च निस्वनैः ॥३२॥
नमुचिप्रमुखादैत्या वलाद्याः सुमहाबलाः । भुसुण्ठीशस्त्रधाराभिर्मुसलैर्लगुडैस्तथा ॥३३॥
धनुर्भिः शरवर्षेश्च समवर्षन् परस्परम् । एकद्वित्रिशतैर्घोरैः शरैस्ते चिच्छिदुस्तदा ॥३४॥
परस्परं देवदैत्या अन्योन्यं समरोद्धताः । पराजितास्तदा दैत्या देवैः सन्ताडिता भृशम् ॥३५॥
ममन्थुश्च पुनर्देवान् समाराध्य तदा शिवे । एवं पुनः पुनर्युद्धं स्वर्गार्थमभवच्छिवे ॥३६॥
कुरुक्षेत्रगता भूमिर्युद्धभूमिर्महेश्वरि । द्वापरान्ते च भविता नृपाणां विग्रहो महान् ॥३७॥
कानीनान्तान् पुरस्कृत्य विष्णुर्भारं भुवः शिवे । हरिष्यति मयाज्ञप्तः कृष्णो नाम्ना भविष्यति ॥३८॥
कुरुनाम्नाऽथ संज्ञातमिदं क्षेत्रवरं प्रिये । मत्प्रसादात् पुरा प्राप्य कुरुक्षेत्रेशमर्चयत् ॥३९॥
तत्र सन्ति महासिद्धा गङ्गा च सरिदुत्तमा । निवसन्ति कुरुक्षेत्रे शिवतुष्टिप्रदे शिवे ॥४०॥
समन्तपञ्चकं तीर्थं पितृतृप्तिप्रदायकम् । पुरा भार्गवरामेण क्षेत्रमुत्पादितं शिवे ॥४१॥
क्षेत्रोत्थरुधिरैः पूर्णान् हदान् पञ्च प्रकल्पयेत् । तत्तीरतीर्थे यः पिण्डं पितृभ्यो दास्यति प्रिये ॥४२॥
तर्पयेत् तद्ध्रदोत्थाभिरद्भिः प्रीणाति वै पितॄन् । तस्य स्युः पितरस्तृप्ता यावदाभूतसंप्लवम् ॥४३॥
तत्रैकां गां दरिद्राय दत्वा गोशतपुण्यभाक् । अल्पं तत्रैव यद्दत्तं तन्महाज्जायते प्रिये ॥४४॥
पितृतृप्तिप्रदं तीर्थं पुरा रामेण वै कृतम् । अत्रैव तद्ध्रदाः पञ्च स्नात्वा पितृगणांस्तथा ॥४५॥
श्राद्धैः संप्रीणयन् पुत्रः पुत्रत्वं तस्य सिद्ध्यति । अत्रैव गाधां गायन्ति पितरः षुत्रिणस्तथा ॥४६॥
अपि नः स्वकुले भूयाद्यो गयायां च पिण्डदः । कुरुक्षेत्रे स वै पुत्रः ह्रदे रामकृते हि नः ॥४७॥
दृष्ट्वा मां चैव पुण्यात्मा कुरुक्षेत्रेश्वरं शिवे । धन्यो भवति पूतात्मा सत्यं सत्यं न संशयः ॥४८॥
इत्थं कुरुक्षेत्रगतं महिमानं तवोदितम् । श्रुत्वैव सर्वपापेभ्यो मुक्तो भवति नान्यथा ॥४९॥
तस्मात् कुरुक्षेत्रपरायणानां तत्रैव वासो मम भक्तिदायकः ।
लभेत वै पुण्ययुतो महेश्वरि तपःस्थलं तन्मुनिभिः प्रशस्तम् ॥५०॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे कुरुक्षेत्रनिर्माण वर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 14, 2017
TOP