संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
अष्टत्रिंशोऽध्यायः

भर्गाख्यः पञ्चमांशः - अष्टत्रिंशोऽध्यायः

श्रीशिवरहस्यम्


ईश्वरः -
असिपत्रोरुविपिनेष्वसिधारासु पातितः । कुम्भीपाके तथा गौरि पक्कश्चात्यन्तमुत्कटम् ॥१॥
तप्ततैलकटाहेषु पाचितःण स मुहुर्मुहुः । भटोरुशस्त्रधाराभिस्ताडितः स द्विजस्तदा ॥२॥
गदामुसुण्ठीपरिघैः शुलैः पोथितमस्तकः । शरकृत्तमहामर्मा स्रवद्रक्तस्तथाऽम्बिके ॥३॥
तुद्यमानस्तथा काकैः सृगालैः श्वभिरावृतः । हाहेति प्रलपन् विप्रः परिधावन्नितस्ततः ॥४॥
करालदंष्ट्रैः श्वगणैर्दष्टश्चानुद्गतस्तदा । अन्ये नारकिनश्चापि ब्राह्मणक्षत्रियादयः ॥५॥
वैश्याः शूद्रास्तथा पापा नानासङ्करजातयः । नानादुःखशतैर्घोरैः पीड्यन्ते यत्र किङ्करैः ॥६॥
पूयविण्मूत्रकुण्डेषु कशाघातोत्थितैर्व्रणैः । स्रवद्रक्तैः क्षारसेकमहादुःखकृतारवैः ॥७॥
खङ्गताडितहस्तैश्च पादैर्मुण्डैश्च खण्डिताः । विनिष्क्रान्तान्त्रमस्तिष्काः श्वभिश्च बलिभोजिभिः ॥८॥
तप्ततैलपटैरङ्गैर्ज्वलद्भिर्दुःखसङ्कुलैः । दीपितैः केचिदुन्मत्तं धावन्ति च रुदन्ति च ॥९॥
सन्तप्तवालुकामध्ये लोलयन्त्यपि पापिनः । एवं नारीनरांस्तत्र रोदमानांश्च पापिनः ॥१०॥
गर्जन्तस्ताडयन्तस्ते भटा मुद्गरपाणयः । वदन्ति क्रूरवचनैर्भ्रुकुटीकुटिलेक्षणाः ॥११॥
भटाः -
अहो दुष्कृतकर्माणः सुखबुद्ध्यैव पातकम् । कृतं भवति मोहेन तत्फलं भुज्यतेऽत्र हि ॥१२॥
एनं छिनत दुर्बुद्धिं एनं पोथयताधुना । एनं ताडयताद्याशु एनं खण्डयतासिभिः ॥१३॥
अनेन राज्ञोन्मत्तेन प्रजाः संपीडिता भृशम् । देवद्रव्यपरः पापी द्विजद्रव्यापहारकः ॥१४॥
बान्धवानतिथीन् भृत्यांस्त्यक्त्त्वा भुङ्क्ते नृपाधमः । तप्ततैलकटाहेषु पात्यतमयमुद्धतः ॥१५॥
अयं द्विजो महापापी श्रौतस्मार्तपराड्मुखः । त्रिपुण्ड्रभस्मरुद्राक्षरुद्रपञ्चाक्षरोज्झितः ॥१६॥
शिवलिङ्गार्चनाहीनो बिल्वपत्रैस्तथा सुमैः । परान्नादः सदा पापी नित्यं परवण्यपि द्विजः ॥१७॥
धनधान्ययुतश्चापि भार्यापुत्रसमन्वितः । सन्तप्तभ्राष्ट्रमध्येऽयं भर्ज्यतां तर्ज्यतां द्विजः ॥१८॥
वैश्योऽयं सर्वदा पापी अन्यन्यासापहारकः । वृद्ध्याधिकेन पापात्मा स तु दौष्ट्येन जीवति ॥१९॥
अत्यन्ततीक्ष्णशस्त्रौघेः सन्तप्तसुसलैरपि । खण्ड्यतां दण्ड्यां पापः तिलशः पर्वसन्धिषु ॥२०॥
अयं शूद्रोऽपि मन्दात्मा ब्राह्मणानवमन्यते । गां ताड्यति पादेन...वृषभानयम् ॥२१॥
हलैरुद्वेजयामास विप्रवित्तापहारकः । अधोमुखोर्ध्वपादोऽ‍यं दग्धः खदिरवह्निना ॥२२॥
अयं भार्यापरित्यागी दोषदर्शनवर्जितः । सन्तप्तकण्टकैर्घोरैः सूचीनुन्नतनुर्भवेत् ॥२३॥
अयं युवा महापापी परदारोपसेवकः । सकामं च सदा पापः परस्त्रीदर्शनोत्सुकः ॥२४॥
शिश्नं सवृषणं चास्य नेत्रे तुद्यन्तु दंशितैः । शूलाग्रैर्मुसलैर्घो रैरुत्पाट्यान्त्राणि दंशितैः ॥२५॥
अयं सर्वत्र निन्दां च करोति सुदुरान्मवान् । उत्पाट्यवामस्य जिह्वा तप्तसन्दंशनैर्भटाः ॥२६॥
तुलां हिरण्यगर्भं च गोसहस्रप्रतिग्रही  विद्वांसः पापभूयिष्ठा वावदूकाः सदा खलाः ॥२७॥
अपापानां च साधूनां निन्दका वादकौशलात् । दग्धाङ्गान् वह्निनरके पातयन्तु मलहृदे ॥२८॥
अनिष्कृतिपराः पापाः सर्वदा प्रेतभोजिनः । गोद्वयं प्रतिगृह्यापि तद्विक्रथपरायणाः ॥२९॥
श्लेष्महृदे सदा पापाः पतन्तु शतवत्सरम् । कन्याविक्रयकृच्चायं स्थितो रक्तमलह्रदे ॥३०॥
मातरं पितरं साधून कटूक्त्या भर्त्सयत्ययम् । मलह्रदे च पतितस्तथा स्त्रीधनहारकः ॥३१॥
तदुत्थकृमिभिर्घोरैर्दष्टसर्वाङ्गसन्धिकः । वैश्वदेवाग्निरहितास्त्रेताग्निपरिवर्जिताः ॥३२॥
आतिथ्यादिविहीनाश्च देवतातिथिदूषकाः । अयाज्ययाजकाः पापाः सदा धनपरायणाः ॥३३॥
सन्तप्तवालुकासंस्था दग्धाः सूर्यक्रैस्तथा । दम्भाहङ्कारमात्सर्यलोभकामपराः सदा ॥३४॥
सर्वभूतेष्वविश्वस्ता अमित्राः क्रूरवाक्शराः । कुम्भीपाकेषु पच्यन्ते गोवधे निरतास्तथा ॥३५॥
विश्वासघातकाः पापाः भर्तृकार्यविरोधिनः । क्रकचैर्दन्तुरैर्भिन्ना द्विधा ते शकलीकृताः ॥३६॥
विधवासङ्गनिरताः कन्यासन्दूषकाश्च ये । अश्मपातैः सुधोरैस्ते विपोथितकलेबराः ॥३७॥
सुरापानरताः पापा देवस्द्रव्यापहारकाः । सन्तप्तशस्त्रधाराभिर्दन्दशूकमहाविषैः ॥३८॥
दग्धा वृश्चिकजालैश्च स्रवद्रुधिरकर्दमाः । तिष्ठन्ति हा हताः स्मेति रुदन्ति करुणं बहु ॥३९॥
इयं नारी मदोन्मत्ता पतिनिन्दापरायणा । परसङ्गरता नित्यं सन्तप्तायसदण्डकम् ॥४०॥
समालिङ्ग्याशु कशया ताड्यते यमकिंकरैः । परदारोपसेवी च आयसीं प्रतिमां सदा ॥४१॥
समालिङ्ग्य विदग्धो‍ऽयमाक्रन्दति दिवानिशम् । परान्ननिरतो नित्यं स्वगृहे पाकवर्जितः ॥४२॥
कृमिराशिं समश्नाति प्रेतान्नो मलभुक् सदा । उभयास्यां च गां गृह्य ताड्यते तप्तपिण्डकैः ॥४३॥
ब्राह्मणोऽयं महापापी अन्यश्चक्राङ्कनोत्सुकः । शिवनिन्दापरो नित्यं शांभवद्विट्‍ सदा मुदा ॥४४॥
प्रदोषसोमवारे च शिवरात्रौ तथैव च । भुङ्क्तै‍ऽन्नानि दिवा पापी चतुर्दश्यष्टमीषु च ॥४५॥
तिलशः खण्ड्यतां दुष्टः शस्त्रौघैः क्षारसेचनैः । ब्रह्मचार्ययमुन्मत्तो वेदाध्ययनवर्जितः ॥४६॥
कामातुरश्च स्वाद्वन्नो भिक्षुश्चायं दुरात्मवान् । मिष्टमश्नाति सततं बलादाक्रम्य पीड्यताम् ॥४७॥
मदर्यतां लगुडैर्घोरेर्मुसलैरायसैर्दृढम् । ऊर्ध्वपुण्ट्रधरो नित्यं मुदाऽयं ब्राह्मणब्रुवः ॥४८॥
श्वभिः सन्दश्यतां पापो वायसैर्वृश्चिकैरपि । त्रिपुण्ट्रफालान् दृष्ट्वैव सदा निन्दत्ययं द्विजः ॥४९॥
उत्पाट्यतामस्य जिह्वा नेत्रे सूच्या तुदन्तु च । श्रृन्वन् निन्दां महेशस्य देवानां च द्विजस्य च ॥५०॥
आशीविषविषैर्घोरैर्दह्यतां शणवल्कलैः । एवं ते नरका घोरा भटार्भटरवैरपि ॥५१॥
छिन्धि भिन्धीति वादैश्च हाहेति च प्रलापितैः । नानादुःखशतैर्घोरैर्दुःखितः परिधावति ॥५२॥
असह्यं देवि तद्दुःखं वर्णितुं चापि न क्षमम् । तं दृष्ट्वा दुःखितं विप्रं धावन्तं करुणारवम् ॥५३॥
अन्यानपि शिवे दृष्ट्वा करुणा मे समागता । तत्र शैवकृता पूजा दृष्टा तेनेति तं तदा ॥५४॥
समानेतं गिरिसुते मया संप्रेषिता गणाः । ममाज्ञया तमावन्त्यं समानेतुं तदाऽम्बिके ॥५५॥
दृष्ट्वा त नरकं घोरं ते यमेन सुपूजिताः । प्राह तान् प्राञ्जलिः सौरिः कुत्र वा गम्यते गणाः ॥५६॥
भवतां दर्शने योग्यः किमयं नरकार्णवः । गणा यमवचः श्रुत्वा प्राहुस्ते तं शिवाज्ञया ॥५७॥
गणाः -
आवन्त्योऽ‍यं पापयुक्तस्तथापि भगवत्प्रियः । किं वाऽनेन कृतं पुण्यं सूक्ष्मं जानाति शङ्करः ॥५८॥
यमानेन कृता पूजा प्रदोषे शैवकल्पिता । दृष्टा तेन महादेवस्तुष्टः कष्टविनाशकः ॥५९॥
तत्समानयने सौरे प्रेषिताः श्रीशिवेन हि । अतः परं त्वमस्माकं गणनीयोऽसि किं वद ॥६०॥
गणानां वचनं श्रुत्वा प्राह सौरिः कृताञ्जलिः ॥६१॥
यमः -
शिवाज्ञापालकश्चाहं यथेच्छति च स प्रभुः । अस्यैव दण्डनार्थेऽहं शङ्करेण नियोजितः ॥६२॥
इति ते गणयाः सर्वे यमेन च समन्विताः । द्रष्टुं तं नरकं घोरं तेऽपि शम्भुगणास्तदा ॥६३॥
सूतः -
केचिच्छरीरविनिकृत्तमहाङ्गबन्धाः केचिज्ज्वलज्ज्वलनन्दीप्तिविदीप्तदेहाः ।
केचिद्य दण्डवरखण्डितमुण्डषण्डाः केचित् स्रवदुधिरदिग्धसमग्रकायाः ॥६४॥
केचिन्महामुसलमण्डलखण्डकायाः केचिद्विदीर्णदशनान्त्रविभिन्नपादाः ।
केचित् सुतीक्ष्णशरखङ्गविभिन्नहस्ताः केचिन्महायससुश्रृङ्खलजालमालाः ॥६५॥
दृष्ट्वा यमेन गणपा अतिघोरमुग्रं जगुजुरीशानमहेशनाम ।
शम्भो शिव प्रमथनाथ त्रिलोचनेति पाहीन नारकसुघोरमहाभवाब्धेः ॥६६॥
गणाः -
हाहाहा बहुपातकाकुलरवैराक्रन्दितं दिक्तटं
भो शम्भो भगवन् महेश करुणादृष्ट्यावलोक्यादरात् ।
सन्तिष्ठ क्षणकं महोक्षवरगस्त्वत्तेजसाप्यायिता -
श्चामी नारकिणो मदीयवचसा त्वं दीनबन्धुः किल ॥६७॥
यमभटपटलीकृतोग्ररावं विनिहतनारकिणं कशोग्रघातैः ।
नरकमतिसुधोरमद्य शम्भो न हि पश्येम भवत्कृपाकटाक्षै ॥६८॥
गणेशवदनच्युतप्रबलशम्भुनाम्ना तदा शिवाद्य हर पाहि नः प्रमथनाथ शम्भो शिव ।
तदैव यमयातनाविरहितास्तदा नारका जगर्जुरखिलास्तदा विविधपातकैस्ते च्युताः ॥६९॥
तान् गणान् स तदा प्राह यमः क्रोधवशं गतः ।
दन्तान् कटकटाशब्दैर्विवृत्य नयने तदा ॥७०॥
यमः -
सर्वाणि पापान्यतिदुःखदानि गणा सदा दुःखतराणि शम्भोः ।
द्रोहे तथा तान् समुदीक्ष्य कोपो महाxभून्मे श्रृणुx प्रकष्टम् ॥७१॥
कुकल्पनानल्पविकल्पजालैर्महेशनिन्दां तनुते नराधमः ।
अधोमुखश्चोर्ध्वपदोऽवलम्बते विष्ठाह्रदे तत्क्रिमिभुक् शतं समाः ॥७२॥
कनिष्ठं पशूनां वदन्त्येव वेदाः खरोष्ट्रादितिर्यग्गणेभ्योऽपि शोच्यम् ।
शुनीगर्भसंभूतमत्यन्तगर्ह्यं महेशार्चनावर्जितं जन्म यस्य ॥७३॥
शिवेशानपूजानिवेद्यान्नभोजी भुनक्त्येव कष्टं मलानां स राशिम् ।
तदश्याममन्त्रैर्वदत्येव वेदस्त्रिकालः समुत्पाटयत्याशु तस्योर्ध्वपुण्ट्रम् ॥७४॥
भुसुण्ठीनिपातैः कशाघाxxxxतै सुरुद्राक्षहीनाङ्गसङ्गाङ्गसङ्गम् ।
सुधूमायिते तप्तशैलीकटाहे समुत्क्षिप्य भस्मीकरोम्येव कालः ॥७५॥
गणा रुद्रपञ्चाक्षरावृत्तिहीनान् महादेवलिङ्गार्चकान् विष्णुलिङ्गैः ।
सुचक्राङ्कितानूर्ध्वपुण्ट्रांस्तथान्यान् स्वदंष्ट्रोरुधारादिभिश्वर्वयामि ॥७६॥
प्रदोषार्चनावर्जितं सोमवारे दिवा भुक्तवन्तं महालोहघातैः ।
तथा भूतकालाष्टमीषु...न चार्चन्ति लिङ्गं सदा कालदण्ड्याः ॥७७॥
महादेवनिन्द्साकरस्योर्ध्वजिह्वां समुत्पाट्य कालः स तत्फालमध्यात् ।
ज्वलद्धोरसन्दंशजालैस्तदङ्गं निकृत्यांभसा क्षारजेनाशु सिञ्चेत् ॥७८॥
महादेवलिङ्गार्चने यस्तु विघ्नं करोति हि तद्दंशाहुताशनोऽहम् (?) ।
इत्थं स कालः सततं रुषान्वितः शिवद्रहां नास्ति विनिष्क्रियेति ॥७९॥
शिवारामविच्छेदने यस्य हस्तौ कुठारोद्यतौ तस्य हस्तौ कुठारैः ।
तथा देवदेवालयस्यापि कालः छिनत्त्येकमङ्गं तिलानां क्रमेण ॥८०॥
इत्थं कालवचः श्रुत्वा गणा ऊचुः परस्परम् ।
गणाः -
नानासंसारवित्ताःप्रतिहतमतयः क्षीणपुण्यैकलेशा
नीचाः काये स्वकीये शमनभवनगाः क्लेशबृन्दं भजन्ति ।
तस्माद्विच्युतकर्मशेषजनुभिस्तिर्यक्त्वमासाद्य ते
नानादुःखशतैर्महेश कुधियस्त्वां नाश्रयन्ते जनाः ॥८१॥
श्रुत्वा कार्तान्तवार्तां विविधगतिवशात् किङ्करैर्याम्यदण्डैः
खण्ड्यन्ते यत्र जीवाः प्रतिनरकशतं वासराणां बहूनि ।
भिन्धि छिन्धीति वादैः पटुतरकशया ताड्यतेऽयं जनौघ -
स्त्वत्पूजास्तवनप्रणामरहितो मोमुह्यतेऽयं विभो ॥८२॥
मार्गं त्वया मार्गदलैर्महेशलिङ्गार्चनान्मार्गयते विमुक्त्यै ।
मार्गे त्वगङ्गासितभस्मफालो रुद्राक्षमालः स तु पुण्यशीलः ॥८३॥
सूतः -
इत्थं यमेन कृतसूक्तय एव धीरा वीरा महेश्वरगणेशवराश्च विप्रम् ।
आरोप्य हंसवरयानमनोहरेण संपूजिताः प्रमथनाथपदं ययुस्ते ॥८४॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे पुष्करमाहात्म्ये नारकिणां यातनानुभववर्णनं नाम अष्टत्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP