संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| दशमोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - दशमोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव दशमोऽध्यायः Translation - भाषांतर देवी - त्रिलोकीतिलक स्वामिन् त्लकस्वामिसुप्रिय । जेङ्कारकुण्डलिङ्गानां बाणलिङत्वता कथम् ॥१॥वक्तुमर्हसि देवेश लोकानां हितकाम्यया । तदा देव्या वचः श्रुत्वा सन्तुष्टः प्राह शङ्करः ॥२॥सूतः - उत्फुल्लनीलोत्पलनीलसुन्दरीमुमां तदालिङ्गय मुदा सदाशिवः ।बभाण बाणोत्तमसत्कथां द्विजाः सर्वार्थदात्रीं सकलाघहन्त्रीम् ॥३॥श्रृणु देवि महाभागे कथामेतां मनोरमाम् । गङ्गाया नर्मदायाश्च विवादः सुमहानभूत् ॥४॥तत्सर्वं विस्तरेणैव त्वयि सर्व प्रकीर्तितम् । अविमुक्ते वसामीति नित्यं सान्निध्यदे मया ॥५॥गङायै च वरो दत्तो नर्मदायै महेश्वरि । सिकता याः शिलाः सर्वाः तानि लिङ्गानि निम्नगे ॥६॥त्वदन्तर्गतमेवाद्य कुण्डमोङ्कारसंज्ञितम् । गङ्गायां विश्वनाथाख्यलिङ्गाकृतिरहं स्थितः ॥७॥त्वत्तीरे नर्मदे लिङ्गमोङ्कारं परमेश्वरम् । तल्लिङ्गरूपः सततं निवसामि तटे तव ॥८॥द्रष्टृणां सर्वपापानि नाशयामि न संशयः । अमरैः पूजितं यस्मादमरेश्वरमुच्यते ॥९॥त्वं लिङ्गमण्डलाक्रान्ता भविष्यसि सरिद्वरे । ओंकारे च भृगुक्षेत्रे नर्मदावरसङ्गमे ॥१०॥सर्वत्र सुलभा रेवा त्रिषु स्थानेषु दुर्लभा । त्वल्लिङ्गंझ सर्वभावेन पूजितं सर्वकामदम् ॥११॥इति तस्यै वरो दत्तो नर्मदायै मनोरमे । तानि लिङ्गानि सर्वाणि बाणसंपूजितानि हि ॥१२॥दर्शनात् स्पर्शनाद्गौरि पुण्यदानि न संशयः । नार्मदे ये महालिङ्गे नीरं वा पत्रमेककम् ॥१३॥दद्यात् स मुक्तो भवति त्रिनेत्रप्रियकृत्तमः । न संप्रोक्षणसंस्कारो न प्रतिष्ठा हि पार्वति ॥१४॥नावाहनं न पूजादिविधिः स्यात्तत्र शङ्करि । सपीठं मुक्तपीठं वा नर्मदालिङ्गमर्चयेत् ॥१५॥स्पृष्टास्पृष्टं न तस्यास्ति नित्यं सान्निध्यदं मम । तल्लिङ्गे मम भक्तैश्च यद्दत्तं लीलथाऽपि च ॥१६॥बिल्वपत्रं तथा नीरं फलं वा कन्दमेव वा । गृह्णामि शिरसा तच्च तस्मै मुक्तिं ददाम्यम् ॥१७॥विमर्शो न च कर्तव्यो नार्मदे परमेश्वरि । अन्यानि सर्वलिङ्गानि प्रतिष्ठाप्रोक्षणादिभिः ॥१८॥संस्कृतानि विशेषेण पूज्यानीति मतिः शिवे । मूल्लिङ्गाद्धातुलिङ्गानि रत्नजानि महेश्वरि ॥१९॥स्फाटिकादीनि पुण्यानि चन्द्रकान्तोद्भवानि च । स्थावराणि च सर्वाणि जङ्गमानि विशेषतः ॥२०॥महापारदक्लृप्तानि लिङ्गान्यत्युत्तमानि च । तेभ्यो विशिष्टमेतद्धि नार्मदं शर्मदं मम ॥२१॥नार्मदं लिङ्गमभ्यर्च्य स्थावरार्चाफलं लभेत् । यस्तु पश्यति पुण्यात्मा स्थावरं लिङ्गमैश्वरम् ॥२२॥नित्यं च नियमोपेतः पापैः सर्वैः प्रमुच्यते । स नार्मदं महालिङ्गं दृष्ट्वा तत्फलमाप्नुयात् ॥२३॥पूजिते नार्मदे लिङ्गे सर्वलिङ्गार्चनाफलम् । प्राप्नुयान्नियतं गौरि सत्यमेतन्मयोच्यते ॥२४॥शावाचौचे सूतकेपि बाणलिङ्गं समर्चयेत् । नित्यं लिङ्गार्चनफलं यस्मिन् क्लृप्तं तदाप्नुयात् ॥२५॥नातः परतरं लिङ्गं प्रशस्तं परमेश्वरि । अस्पिन् संपूजिते दृष्टे महापापक्षयो भवेत् ॥२६॥यद्गृहे बाणलिङ्गं स्यात् शिवक्षेत्रं हि तत् स्मृतम् । तत्रैव मरणाज्जन्तुरपि कीटपिपीलिकम् ॥२७॥मल्लोके निवसेद्देवि पुनरावृत्तिदुर्लभे (?) । बाणलिङ्गं न यस्यास्ति गृहे बिल्वदलार्चितम् ॥२८॥न तद्गेहे जलं ग्राह्यमन्नं वा वैदिकोत्तमैः । यद्गृहे बाणलिङ्गार्चा स मुनिः स च पण्डितः ॥२९॥तेनेष्टाः सकला यज्ञा वेदाधीताश्च तेन वै । तेनोर्वरेयं दत्ता स्यात् सशैलवनकानना ॥३०॥अत्रेतिहासं ते वच्मि श्रृणु कर्णैकभूषणम् बलिनामा पुरा देवि दैत्येन्द्रो बलगर्वितः ॥३१॥देवान् विद्रावयामास सेन्द्रान् सवरुणार्यमान् । वारं वारं सुरैर्देवि युद्धमुन्मत्तमातनोत् ॥३२॥हृतामरावती तेन शक्रस्थानाधिपोऽभवत् । तस्यासीद्वशगं देवि त्रैलोक्यं सराचराचरम् ॥३३॥स दीक्षितोऽश्वमेधेन अयजन्मां महाबलः । स्वाद्वन्नेन च सोमेन विधिवद्दक्षिणावता ॥३४॥ज्ञात्वा मेधपति मां स काव्येनोशनसा मुदा । एतस्मिन्नन्तरे विष्णुः प्रार्थितः स्वपदार्थिभिः ॥३५॥विष्णुना छद्मरूपेण याचितो दीक्षितो बलिः । पदत्रयं चिकीर्षुः स्वं पातालं प्रापयत् तदा ॥३६॥तज्जयाखर्वगर्वेण वामनो मदमोहितः । मुनीन् मच्छरणान् सर्वान् धिक्कारोति दुरात्मवान् ॥३७॥ततः परशुधारेण मया छिन्नः पपात च । तत्र तीर्थमभूत् पुण्यं कालञ्जरसमीपतः ॥३८॥देवि वामनपाताख्यं तत्र स्नात्वा दिवं व्रजेत् ।सन्तर्प्य च पितॄन् भक्त्या देवैः सह स मोदते ॥३९॥गतमोहस्तदा विष्णुर्मां तुष्टाव प्रहृष्टधीः ॥४०॥विष्णुः - शम्भो मत्स्यनृसिंहवामनमहाकूर्माङ्गकोलास्थिभिः दंष्ट्राभिर्नरसिंहचर्मवसनस्त्वं शारभः पक्षिराट् ।तिर्यग्योनिशतोत्थपातकवरैः पूतोऽस्मि धन्योऽस्म्यहं नीतो मोहदशां विभीतहृदयस्त्वच्छिक्षया शङ्कर ॥४१॥दृष्ट्वा त्वत्पदपङ्कजं शिव महादेवेश पूर्वस्थिति ज्ञसनं प्रपतमपारभक्तिजनकं त्वत्पादपूजाविधौ ।वैकुण्ठे निवसामि भूतिविलसत्फालादिभूषाङ्गको लिङ्गं बिल्वदलैश्च पुष्पनिकरैः संपूज्य मुक्तः सुखम् ॥४२॥गतमोहोऽस्म्यहं देव शिक्षितश्च त्वयाऽधुना । भृगुणा तव भक्तेन शप्तोऽस्मि नितरां शिव ॥४३॥तच्छापमुक्तोऽस्म्यधुना तिर्यग्योनिषु संस्थितः । मत्स्यकूर्मवराहादि नारसिंहादिवामनैः ॥४४॥त्वया धृतैर्दहजालैः पावितोऽहं महेश्वर । अनुग्राह्योऽस्मि देवेश पुनः पञ्चसु जन्मसु ॥४५॥प्रणम्य मां ययौ विष्णुस्तथेति च मयोदितः । बलिश्चापि मुदं प्रप्य रसातलतलं गतः ॥४६॥तस्यासीदैरसः पुत्रो नाम्ना बाण इति श्रुतः । स राज्यमथ दैत्यानां चकाराग्निसमप्रभः ॥४७॥शुक्रस्यानुमते देवांश्च्यावयामास विष्टपात् । शिपिविष्टप्रसादेन विशिष्टः सुरसत्तमैः ॥४८॥सहस्रबाहुशाख्याढ्यो नागायुतबलो बली । सञ्चरन् स महीपृष्ठे शर्मदां नर्मदां मम ॥४९॥स्नात्वा भस्मकराद्यङ्गो रुद्राक्षवरभूषणः । बिल्वपत्राणि संपाद्य पुष्पभाराणि दैत्यपः ॥५०॥सहस्रं नार्मदं लिङ्गं संपूजयति शङ्करि । धूपदीपोपहाराद्यैर्नैवेद्यैर्भूषणैरपि ॥५१॥नित्यं संस्तौति हृष्टात्मा बलिसूनुरनन्यधीः । सहस्रहस्ताञ्जलिभिः प्रणमन् मां पुनः पुनः ॥५२॥नृत्यन् पादतलैर्भूमिं कम्पयन् बलिनन्दनः । गिरीन्द्रचलितोल्लोलनम्रमस्तकदिग्गजः ॥५३॥हस्ततालमहारावबधिरीकृतदिड्मुखः । अस्तौषीन्मां महादेवि बाणो भक्तिपुरासरम् ॥५४॥बाणः - महादेव कर्पूरगौरामरेन्द्र महारुकोदण्ड चण्डप्रचण्ड ।महाचण्डवेतण्ड शुण्डोरुदण्दैर्हृतापारलोलाब्जिनीपत्रपूज्य ॥५५॥कुण्डलीशकृतकुण्डल शम्भो खण्दिताखिलसुरद्रुमषण्ड ।ब्राह्ममुण्डकलितामलमाल स्थूललिंगगणमण्डलसंस्थ ॥५६॥नवचन्द्राभरणोत्तमाङ्ग गङ्गाकलितालक भूधरोरुमाल ।धृतहालाहलकण्ठमूल बाहुस्फुरदुत्तप्तशिखविधूमकील ॥५७॥वसुधाधरधारकं महेशं विबुधाधीश्वरसन्नताङ्घ्रियुग्मम् ।गिरिकन्दरसंस्थितान्तरङ्गं भजाम्यहं सिन्धुरकृत्तिचेलम् ॥५८॥नीलाभ्रसन्निभमहामहिषाधिरूढः चण्डांशुजप्रबलसर्पगणादिपाशैः ।लिङ्गालिङ्गनतत्परं द्विजवरं कर्षन्तमत्युन्मुखं कालस्त्वत्पदताडितो द्विजसुते दत्तायुषं त्वां नुमः ॥५९॥विधिकलितकपालजालमालं बलितनयार्चितबाणलिङ्गलोलम् ।करविधृतकपालव्यालमालं सशूलं गलधृतगरनीलं कालकालं भजेऽहम् ॥६०॥अच्छा वाक् तस्य शम्भो तव निखिलमहो सुष्टुतिं वीरयामि त्वल्लिङ्गेक्षासुचक्षुः भवदमलकथाकर्णनैः सुश्रवाहम् ।त्वत्पादार्चासुहस्तस्तव पदकमलध्यानतः सन्मनाऽहं सर्वं चाङ्गं स्थितं च त्वयि भवति विभो शङ्कराद्य प्रसीद ॥६१॥माकन्दं पिकसुन्दरीव भगवन् कान्ता यथा कामुकं मत्तालिः सरसीरुहं द्विजगणो दातारमाकांक्षते ।तद्वत् त्वां परिचिन्तयामि सततं तूर्णं कृपावीक्षणैः संपूर्णं कुरु मामकिञ्चनमहो भाग्यैरभाग्यालसैः ॥६२॥इत्थं स्तुत्वा तदा बाणो मामानन्दपरिलुतः । साष्टाङ्गं प्रणनामाथ बाणपातप्रमाणतः ॥६३॥तस्मिन् सन्दर्शनं दत्तं तस्मै शैलेन्द्रकन्यके । चतुर्बाहुमुदाराङ्गं नीलकण्ठं वृषस्थितम् ॥६४॥गङ्गाचन्द्रकलामौलिं खण्डकर्पूरसन्निभम् । वृन्दारबृन्दैः सततं सेव्यमानपदाम्बुजम् ॥६५॥मन्दारकुन्दमालाभिः कण्ठलोलाभिरीश्वरम् । गणवृन्दैर्महादेवि तस्मै दत्तं च दर्शनम् ॥६६॥दृष्ट्वा मां देवदेवेति प्रसीदेति वदन् मुदा । प्रणाममुखरो दैत्यो वरेण छन्दितो मया ॥६७॥ईश्वरः - उत्तिष्ठोत्तिष्ठ दैत्येन्द्र महेन्द्रसमविक्रम । गिरीन्द्रशिखराकार मृगेन्द्रामललोचन ॥६८॥वरं वरय मत्तस्त्वं यदिच्छसि तदस्तु ते । इत्थं मद्वचनाम्भोजवाणीं श्रुत्वा स दैत्यपः ।प्रणम्य मां तदा प्राह विनयानतकन्धरः ॥६९॥बाणः - भक्तिं त्वदीयजनसङ्गममेव शम्भो लिङ्गार्चनं च सुभगं तव बाणलिङ्गे ।संप्रार्थयामि भगवंस्तव भक्तिभावं वांछा न मे भवति तुच्छभवादिधर्मे ॥७०॥किं यागैरतुतुच्छभोगफलदैः स्वर्गादिपातान्तकैः किं गोभिर्धनन्यान्यरत्ननिकरैर्हैमैश्च पात्रार्पणैः ।शम्भो नार्मदलिङ्गमस्तकगमं बिल्वीदलैः कोमलैः संपूज्य प्रमथाधिनाथपदवीं प्राप्नोति भाग्यैर्युतः ॥७१॥नीरैर्नार्मदजैः सुशोभितमहाकर्पूरखण्डद्रवैः संसेव्यालोक्य हृष्टो भवदभयपदं प्राप्तुमिच्छामि शम्भो ।गाणापत्यं ममास्तु प्रियममरवरैर्दुर्लभं त्वत्पदाब्जे भक्तिर्भक्तैः सहास्तु प्रतिदिवसमहो सङ्गमश्चाघहारी ॥७२॥सद्यो नार्मदलिङ्गमण्डलमिदं बाणाख्यतां प्राप्नुया - देवं देयो वरो मे प्रथयितुमखिलं लोकमद्य प्रसीद ॥७३॥ईश्वरः - तस्योदारवचो निशम्य गिरिजे दत्तो वरो मे कृतो गाणापत्यपदे स दैत्यतनयः शक्रादिगर्वापहः ।सर्वं भक्तजनार्पणाय सततं चित्तं मदीयं शिवे सद्भक्तो भुवि दुर्लभः सुखकरः श्रीबाणलिङ्गार्चकः ॥७४॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे बाणासुरस्य गाणापत्यवर्णनं नार्मदलिङ्गमहिमवर्णनं नाम दशमोऽध्यायः ॥ N/A References : N/A Last Updated : April 07, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP