संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| त्रिंशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - त्रिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव त्रिंशोऽध्यायः Translation - भाषांतर देवी - कानि तीर्थानि पुण्यानि सा गङ्गाप्लावयच्छिवा । तन्मे वद महादेव नहि तृप्तास्मि शङ्कर ॥१॥सूतः - तद्देव्या वचनं श्रुत्वा महादेवो महेश्वरः । प्राह गम्भीरवाक्यानि तदाऽपर्णां प्रहर्षयन् ॥२॥ईश्वरः - मत्पादमूलतो देवि यदा गङ्गा विनिर्गता । हरिद्वारात् तदा पुण्या विबुधैश्चैव संयुता ॥३॥कुरुक्षेत्रं गता गङ्गा तस्माच्चापि विनिर्गिता । कुरुक्षेत्रं गता गङ्गा स्नानात् पापविनाशिनी ॥४॥प्रतिपेदे मधुवनं तत्र तीर्थे मनोरमे । मुनिभिः संस्तुता स्नाता दृष्टा पीताघहारिणी ॥५॥प्रयागवनमासाद्य यत्र पूर्वं पितामहः । अयजद्धयमेधेन मां मेधपतिमीश्वरम् ॥६॥तत्रासीत् सरिदुत्कृष्टा यत्र प्राची सरस्वती । ततावभृथमासाद्य ब्रह्मा प्राह सरस्वतीम् ॥७॥ ब्रह्मा - सरस्वति महाभागे सर्वदा सर्वपावनी । सरसः पावनाज्जाता पुण्यान्मानसनामकात् ॥८॥मेरौ देवासुरैः पूर्व प्रार्थितासि मनोरमे । अस्मिन् देशवरे पुण्ये सरसस्त्वं विनिर्गता ॥९॥तस्मात् सरस्वतीत्याख्यां गमिष्यसि महीतले । एकांशेन वसात्रैव एकांशेन वसेर्मयि ॥१०॥इत्थं सा ब्रह्मणो वाक्यं प्रणम्याह सरस्वती ॥सरस्वती - नाहं वसामि भूलोके त्वन्मखात् पावनाय हि । समानीताहममला त्वया यास्ये पितामह ॥११॥ब्रह्मलोकं च सावित्र्या निवसामि त्वया सह । सरस्वत्याश्च वचनाद्ब्रह्मा क्रोधाच्छशाप ताम् ॥१२॥यस्मान्मद्वाक्यनिर्घातः कृतो देवि त्वयाऽधुना । अदृश्या चासि भूलोके पातालतलवाहिनी ॥१३॥भव त्वं शापिता मत्तः स इत्थं शप्तवान् शिवे । इत्थं शप्ता तदा ब्रह्म्णा प्रयागेऽभूत् सरस्वती ॥१४॥यमुनाऽपि तथैवागान्नीलनीरतरङ्गिणी । गङ्गायमुनयोर्मध्ये अन्तर्बद्धाऽभवत् तदा ॥१५॥ब्रह्मणः सा महेशानी प्रयागमभितः शुभे । सितासिते ते सरितौ देवि यत्रैव सङ्गते ॥१६॥तत्राप्लुता जनाः सर्वे ब्रह्मलोकपरायणाः । तनुं यस्त्यजते तत्र स मुक्तो भवति प्रिये ॥१७॥तत्राक्षयवटो नाम विटपैर्बहुभिर्वृतः । तत्प्रतीच्या महादेवि प्रयागेशोऽहमास्थितः ॥१८॥विष्णुनाराधितश्चाहं तेन तुष्टस्स्तुतस्था । प्रयागमाधवेनाहं पूजितस्तत्र शङ्करि ॥१९॥संपूज्य मां बिल्वपत्रैः तुष्टाव परमेश्वरम् ॥माधवः - दुरदृष्टविनाशकं महेशं जनिनाशं प्रतिबद्धकष्टजालम् ।कनिष्ठं वरिष्ठं तथा ज्येष्ठमीशं वसिष्ठादिवन्द्यं नतोस्मीष्टसिद्ध्यै ॥२०॥श्रीमत्प्रयागवनसुन्दरनीलकण्ठ पाहीन पापगिरिदारणशूलटङ्क ।भक्तएष्वकुण्ठदय कुण्ठितवेदवाक्य वैकुण्ठपूजितपदागसुतोपकण्ठ ॥२१॥इत्थं स्तुतोऽस्मि तेनैव तत्स्थानेशः कृतो मया । तदुत्तरेऽहं सोमेशः पूजितः सुरसत्तमैः ॥२२॥बिल्वैर्मन्दारकुसुमैः स्तुतोऽहं विबुधैरपि ॥देवाः - पुरारे भवारे यमारे प्रसीद प्रसीदाधुना देवदेवश शंभो ।चरित्रं पवित्रं विचित्रं तवाद्य त्रिनेत्राधुना पापजालैकहारि ॥२३॥इत्थं स्तुतोऽहममरैर्निवसामि गिरीन्द्रजे । गङायमुनयोः सन्धौ लिङ्गं मङ्गलदं मम ॥२४॥यः प्रयागे महातीर्थे माघे मकरगे रवौ । तत्र स्नात्वा मासमेकं विमुक्तः सर्वकिल्विषैः ॥२५॥तीर्थाधिदेवो मां भक्त्याप्रयोगेशं समर्चयन् । तताप परमं देवि तप उग्रं समास्थितः ॥२६॥मां तुष्टावांबिके तत्र तीर्थराजत्वसिद्धये ॥तीर्थराजः - शिव शैवजनावने धुरीण श्रुतिगणकारण कारणाद्यकर्ण ।फणिरणितपदाब्जकङ्कण मम पापाद्यखिलाघशोषण ॥२७॥तीर्थाधिदेवो मां स्तुत्वा मत्तस्तीर्थवरोऽभवत् । यः प्रयागं समासाद्य त्रिरात्रं समुपोषितः ॥२८॥शतजन्मोत्थपापेभ्यो मुच्यते नात्र संशयः । प्रयागेश्वरमभ्यर्च्य दृष्टआ नत्वा महेश्वरम् ॥२९॥स्नानदानार्चनात् सिद्धिः तस्य स्यान्नात्र संशयः । त्रिवेणीसङ्गमो यत्र तत्र पापभयः कुतः ॥३०॥तत्रावसत् सदा विष्णुर्वेणीमाधवसंज्ञितः । मां ध्यायन् सर्वदा देवि स्नातॄणां फलदायकः ॥३१॥गङ्गा च यमुना चैव यत्र गुप्ता सरस्वती । प्रवहत्यनिशं देवि यस्यान्तो नैव विद्यते ॥३२॥अन्तर्वेद्यां ब्रह्मणोऽपि कृतं पुण्यमनन्तकम् । ये स्नात्वाऽथ प्रयागेशं पश्यन्ति च गणोत्तमाः ॥३३॥संपूज्य बिल्वपत्रैश्च मुक्त एव न संशयः । प्रयागमन्यतीर्थेषु यः स्मरन् स्नाति भक्तिमान् ॥३४॥स गङ्गायमुनोद्भेदे स्नाति नित्यं महेश्वरि । प्रयागे मकरे भानौ माघे स्नात्वा इनोदये ॥३५॥स सर्वपापसङ्घेभ्यो मुक्तो मुक्तिं परां व्रजेत् । तस्माद्विनिर्गता पुण्या देवि गङ्गा सरस्वती ॥३६॥यमुना च महादेवि ब्रह्मारण्यं सुशोभनम् । अविमुक्तं तदा प्राप्य चक्रतीर्थं सरिद्वरा ॥३७॥मणिकर्णीभवन्नाम्ना ख्याता गङ्गा च पावनी । तस्मादयोध्यां विपुला अगमत् सुरसंयुता ॥३८॥गङ्गासरय्वोर्यः सन्धौ स्नात्वा सन्तर्प्य वै पितॄन् । गयायां चैव पुण्यात्मा धर्मारण्यादिकेषु च ॥३९॥फल्गुर्नाम नदी तत्र स्नानतः पापनाशिनी । भगीरथाश्रमं प्राप्य पितॄन् सन्तारयेत् सुतः ॥४०॥गया कीकटदेशस्था पितॄणां तृप्तिदायिनी । पिण्डं तृप्तिप्रदं देवि तत्र दत्तमथाक्षयम् ॥४१॥गयासुरशिरःस्थाने मत्पादं प्रकटीकृतम् । ईशानसंज्ञं तत्पादं सुराणां चाथ वैभवम् ॥४२॥मत्पादे पिण्डदानेन यमलोके महेश्वरि । वासये स्वपितॄन् भक्त्या पुनरावृत्तिवर्जिते ॥४३॥अयोध्या मधुरा माया काशी काञ्ची अवन्तिका । पुरी द्वारवती चैव पितॄणां तृप्तिदायिकाः ॥४४॥अयोध्यायां ममास्त्येकं सुधेशाख्यं महेश्वरि । लिङ्गं मङ्गलदं पुण्यं दृष्ट्वा रघुवरार्चितम् ॥४५॥बिल्वपत्रैस्तथा पुष्पैः सरयूसंभवैर्जलैः । समभ्यर्च्य प्रणम्येशं स्तोत्रमेतत् पठेन्नरः ॥४६॥पापसङ्घैर्विमुच्येत नात्र कार्या विचारणा ॥४७॥सुधाधारकलाधारपरिपूर्णोत्तमाङ्गक । नमस्तेऽस्तु महादेव दीनबन्धो प्रसीद मे ॥४८॥नमस्ते देवदेवेश राघवैः परिपूजित । भवरोगहरापारपापराशिविनाशक ॥४९॥प्रसीद देव विश्वेश परमेश्वर शङ्कर । शंभो शाश्वत सर्वज्ञ विश्वाधिक जगत्प्रभो ॥५०॥नमस्ते शिव कामारे मयि देव कृपां कुरु । इति स्तुत्वा महादेवं सुधेशपरमेश्वरम् ॥५१॥सरय्वां यः सकृत् स्नात्वा प्रणम्याथ सुधेश्वरम् । बिल्वैः संपूज्य भक्तयाथ रुद्राध्यायं पठेन्नरः ॥५२॥मुक्त एव स पापेभ्यो नात्रास्ति विशयोंऽबिके ॥गङ्गातुङ्गतरङ्गसङ्घविलसत्फुल्लैः सरोजोत्पलैः नीलस्वच्छपतङ्गपुत्रिसहिता गुप्ता च वाण्या तदा ।ब्रह्मादित्रिदशैर्हरीन्द्रपवनैर्याता पतिं सागरं तीरोद्भासिमहर्षिसङ्घवनजापारैः सुमैरर्चितम् ॥५३॥शुकपिकबककाककोकघूकैर्निभृतविनादितकेकिचक्रवाकैः ।गहनविपिनवृक्षमस्तसंस्थैः घनपाषाणकणाशनादितुष्टैः ॥५४॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे गङ्गानिर्गमन - प्रयागगयायोध्यामहिमवर्णनं नाम त्रिंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP