संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| सप्तविंशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - सप्तविंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव सप्तविंशोऽध्यायः Translation - भाषांतर ईश्वरः - वामदेवस्तुतिं श्रुत्वा ते सर्वे मुनिसत्तमाः । सर्वोपनिषदां सारं श्रोतॄणां ज्ञानबोधदम् ॥१॥ऊचुः प्राञ्जलयः सर्वे मां गोकर्णेश्वरं तदा । दक्षिणामूर्तिरूपेण संस्थितं जगदंबिके ॥२॥मुनयः - वामदेव महायोगिन् त्वत्तो ज्ञानवतां वर । शम्भो मुनिसहस्रेषु कश्चित् त्वद्ज्ञानभाजनम् ॥३॥भविष्यति महादेव इत्युक्त्वा छिन्नसंशयाः । उद्दालकोऽपि देवेशि मत्तो लब्ध्वात्मनिर्वृतिः ॥४॥प्रणम्य मुनिभिः सार्धं गोकर्णेशं ययौ तदा । वामदेवो महायोगी नत्वा मां परमेश्वरम् ॥५॥कौपीनसंवृतो देवि सदा भस्मविभूषणः । मन्मयं जगदालोक्य ययौ स्वैरगतिर्मुनिः ।गोकर्णेशं समाराध्य विमुक्ता बहवो जनाः ॥६॥देवी - वामतेवस्तुतिः पुण्या वामदेव श्रुताऽधुना । नातः परततरा देव श्रुतीनां सार एह हि ॥७॥शम्भो ज्ञानप्रदा नित्यं त्वद्बोधानन्ददायिनी । किं वाऽन्यत् क्षेत्रमस्तीति भूलोके तव सिद्धिदम् ॥८॥तद्वदस्व महादेव संप्रीतास्मि कथारसैः ।सूतः - शिवोऽम्बिकावचः श्रुत्वा प्रहृष्टः प्राह तां तदा ॥९॥शिवः - श्रृणु देवि प्रियं नित्यमस्ति क्षेत्रवरं मम । यत्रैतद् ज‘जानममलं दत्तं स्कन्दाय शङ्करि ॥१०॥श्रीशैले हि महादेवि मत्पुत्रस्य तपस्यया । तुष्टोऽहं तस्य च स्तुत्या ज्ञानं दत्तं मयांबिके ॥११॥देवी - कुत्र श्रीशैलसंज्ञोऽस्ति भूधरस्त्वत्प्रियंकरः । वद तन्महिमानं मे स्मन्दे तुष्टो भवान् कथम् ॥१२॥तत्कथां श्रोतुमिच्छामि वद तन्मह्यमादरात् । इति श्रुत्वांबिकावाक्यं प्राह देवो घृणानिधिः ॥१३॥ईश्वरः - श्रीशैलोऽपि च देवेशि निवासो मम विश्रुतः । श्रीशैलेश्वरलिङ्गात्मा तत्र नित्यं वसाम्यहम् ॥१४॥भ्रमरांबेति विख्याता गौरि त्वं तत्र संस्थिता । तत्रापि बहवः शैवाः श्रीशैलेशार्चने रताः ॥१५॥भस्मरुद्राक्षसंवीतास्त्रिपुण्ट्रोज्वलफालकाः । रुद्रलिङ्गार्चनरता रुद्राध्यायजपादराः ॥१६॥पञ्चाक्षररता नित्यं पञ्चासध्यानपूर्वकम् । श्रीशैले निवसामीशे गणवृन्दैश्च संवृतः ॥१७॥तत्र त्वया तपस्तप्तं ब्रह्मविष्णुमुखैः सुरैः । इन्द्राद्या विबुधाः सर्वे तप्यन्ति परमं तपः ॥१८॥अन्यैर्मुनिवरैर्देवि गौतमात्रिपराशरैः । तपःसिद्धिकरं स्थानं मम श्रीशैलमुत्तमम् ॥१९॥अत्र जप्तो महादेवि मनुः कोटिगुणो भवेत् । अत्रान्नं ये प्रयच्छन्ति स्मृत्वान्नपतिमादरात् ॥२०॥अन्नं मत्प्रीतये देवि बहु कुर्वीत च श्रुतिः । शांभवं भोजयित्वैकं सन्तोषयति मां सदा ॥२१॥कृष्णा नाम महापुण्या नदी सागरगामिनी । भित्वा श्रीशैलमूलं मे स्नातानामघहारिणी ॥२२॥सन्तर्प्य पाथसा तस्याः पितॄन् देवानृषीनपि । पितरस्तस्य तृप्ताः स्युर्मल्लोके निवसन्ति ते ॥२३॥तत्पूननीरैर्बिल्वैर्मां समाराध्यातिभक्तितः । मदालयस्य शिखरं दृष्ट्वा नैवाप्नुयाञ्जनुः ॥२४॥शिवलोकप्रियान्मर्त्यः श्रीशैले निवसेच्च यः । प्रातःसङ्गवमध्याह्नसायाह्नेष्वर्च्य शङ्करम् ॥२५॥बिल्वपत्रैर्महादेवि मुक्तश्चाज्ञानतो भवेत् । अश्वमेधादयो यज्ञाः येन सान्नाः सदक्षिणाः ॥२६॥कृतास्तेनैव लभ्येत श्रीशैलेशस्य दर्शनम् । नातप्ततपसो देवि श्रीशैलेश्वरदर्शने ॥२७॥मतिर्भवति तस्यैव येन तप्ततपोऽबिके । अद्यापि ब्रह्मविष्ण्वाद्या मुनयश्च तथाऽपरे ॥२८॥पश्यन्ति नियतं गौरि तल्लिङ्गं द्रष्टुमिच्छवः । रुद्राध्यायावर्तनैश्च पञ्चाक्षरजपादिभिः ॥२९॥शिवलिङ्गार्चको यः स्यात् भूरिभाग्येन शांभवि । यो भस्मनिष्ठः सततं रुद्राक्षकृतकङ्गणः ॥३०॥त्रिपुण्ट्रधारी सततं तस्य मे दर्शनं भवेत् । प्राप्य नारं वपुरिदं दृष्ट्वा श्रीशैलनायकम् ॥३१॥तज्जन्म सफलं गौरि नो चेज्जन्म निरथकम् । शतायुः पुरुषो यो हि जन्ममध्येऽपि मां शिवम् ॥३२॥श्रीशैलेशं सकृद् दृष्ट्वा मुच्यते भवबन्धनात् । अन्यत्रापि मृतो देवि मम लोके वसेच्चिरम् ॥३३॥श्रीशैले च मृतो जन्तुर्न पुनर्जन्मभाग्भवेत् । अत्रापि देवि लिङ्गानि श्रीशैले सन्ति तान्यपि ॥३४॥पूजितानीह मुक्तिः स्याद् दृष्टान्यपि मनोरमे । बिल्वपत्रैः सदा देवि पुषपिर्दूर्वाङ्कुरैरपि ॥३५॥उत्फुल्लपद्मैरमलैः फुल्लनीलोत्पलैरपि । भूधराराधितं लिङ्गं त्रिपुरान्तकसंज्ञितम् ॥३६॥तल्लिङ्गदर्शनेनैव सर्वपापक्षयो भवेत् । दृष्टे लिङ्गे महादेवि मुक्तो भवति शङ्करि ॥३७॥पूर्वं त्रिपुरसंहारं कृत्वा देवैस्तथा स्तुतः । त्रिपुरान्तकलिङ्गस्थः श्रीशैले सर्वकामदे ॥३८॥घण्टाकर्णेश्वरं लिङ्गमत्रास्ति भुवनेश्वरि । घण्टाकर्णगणेशेन पूजितं मुक्तिदायकम् ॥३९॥यस्तल्लिङ्गं सकृद् दृष्ट्वा पूज्य बिल्वैश्च कोमलैः । मुक्तिकान्ता कराक्रान्ता तस्य देवि भविष्यति ॥४०॥तत्रास्ति च सुधाकुण्डं सुधास्वादुजलं शिवे ।तस्मिन् कुण्डे सकृत् स्नात्वा न यामीं यातनां व्रजेत् ॥४१॥घण्टाकर्णमहालिङ्गं दृष्ट्वा यः स्तोष्यति प्रिये । तस्य मुक्तिं ददामीशे या देवैरपि दुर्लभा ॥४२॥अनेन स्तोत्रवर्येण घण्टाकर्णस्तदास्तवीत् ।घण्टाकर्णः - विश्वेश प्रमथाधिनाथ पुरहन् श्रीशैलगोले स्थित पापानङ्गपतङ्गसङ्गजनितानन्दाङ्गविद्युत्प्रभ ।त्वन्नामान्यनिशं वदामि भगवन्नन्यानि नामानि मे घण्टाकर्णोऽहमीश त्वयि शिव सततं भक्तिरस्त्वद्य शम्भो ॥४३॥अथान्यदपि देवेशि लिङ्गं तच्छिखरेश्वरम् । तच्च लिङ्गं सकृद् दृष्ट्वा बिल्वैः संपूज्य मुक्तिभाक् ॥४४॥विभूतिकुण्डं तत्रास्ति स्नानात् पानावगाहनात् । पापनाशकरं देवि सर्वसौभाग्यदायकम् ॥४५॥हाटकेशं तथान्यत् हि लिङ्गमस्त्येकमुत्तमम् । संपूज्य हाटकेशं तु बिल्वैर्मुक्तस्तथांबिके ॥४६॥हाटकाख्यं महाकुण्डं तल्लिङ्गाग्रे महेश्वरि । तत्र स्नात्वा स गौरीशसेवया गणपो भवेत् ॥४७॥स तु लिङ्गमयो देवि नानाकुण्डविराजितः । श्रीपर्वतः श्रिया युक्तो नानालिङ्गविराजितः ॥४८॥भ्रमरांबा च गौरि त्वं सदा तच्छिखरे स्थिता । तव पादांबुजद्वन्द्वदर्शनान्मुक्तिभाङ् नरः ॥४९॥श्रीशैलेशोऽहमीशानि तत्तुङ्गशिखरे स्थितः । ब्रह्मविष्ण्वादिभिर्देवैर्गणेन्द्रैरपि सेवितः ॥५०॥तत्र मां नियमाद् दृष्ट्वा सर्वपापैः प्रमुच्यते । पुरा श्रिया तपस्तप्तं तत् श्रृणुष्वाम्बिके मुदा ॥५१॥यदाऽनङ्गो मया दग्धः श्रियः पुत्रो महेश्वरि । तेन दुःखेन सन्तप्ता भस्मरुद्राक्षभूषणा ॥५२॥पञ्चाग्निनिरता देवी पञ्चाक्षरपरायणा । लक्ष्मीः सन्तपदत्युग्रं वर्षाणां शतकं शिवे ॥५३॥दत्तं च दर्शनं देवि तस्याः कालान्तरे मया । मां दृष्ट्वा नियता गौरि तुष्टाव नियता तदा ॥५४॥लक्ष्मीः - शर्वरीरमणखण्डमौलिनं शर्वरीकृतविहारहारिणम् ।शर्वसर्वपतिमाश्रये सदा दूर्वया तु सततं समर्च्यसे ॥५५॥कुंभिकुम्भदलनोज्ज्वलत्पदं कुंभिवक्त्रवृतमान्यपुत्रकम् ।कुंभसंभवमुनीन्द्रपूजितं कुंभिभिन्नटनमीशमाश्रये ॥५६॥इत्थं स्तुत्वा हि मां लक्ष्मीस्त्वामस्तौषीत् तदाम्बिके ।अमरीकबरीभारचञ्चरीकैः मुखरितवेदशिरोभिरीड्यपादाम् ।सुखकरकिन्नरमौलिपुष्पजालैः भ्रमराम्बां प्रणतास्मि शङ्करीं ताम् ॥५७॥इत्थं स्तुत्वा तदा मां त्वां ययाचे वरमुत्तमम् ॥५८॥अनङ्गः कोपतस्तेऽद्य त्वया दग्धो महेश्वर । साङ्गतां प्राप्नुयाच्छंभो एष देयो वरो मम ॥५९॥तदा लक्ष्म्या वचः श्रुत्वा तामवोचं तदाम्बिके ।ईश्वरः - त्वत्कटाक्षेण देवेशि पुनरुज्जीव्यतां स्मरः । पुत्रीणीयं भवेल्लक्ष्मीः सदा मुदितमानसा ॥६०॥इत्थं मद्वचनात् त्वं हि त्वत्कटाक्षोत्थकोणतः । अनङ्ग साङ्गतां नीतो विबभौ स यथापुरम् ॥६१॥ऐक्षवं कार्मुकं बिभ्रत् पुष्पबाणांस्तथांऽबिके । रत्या सह तदा गौरि मां तुष्टाव प्रहृष्टधीः ॥६२॥मन्मथः - दुग्धाब्धिप्रभवप्रचण्डौरगक्ष्वेडव्यथासंहृतौ त्वामेकं ददृशुर्निलिपमुखराः सोत्कंपगात्राः शिवम् ।तत्पानारुणलोलनेत्रयुगलं वीक्ष्याकृतार्थस्मितं शम्भो शङ्कर शाश्वतेति बहुधा त्वां तुष्टुवुः सुस्तवैः ॥६३॥इत्थं स्मरेण देवेशि श्रीशैलेशः स्तुतोऽस्म्यवहम् । लक्ष्मीः पुत्रं तदा वीक्ष्य साङ्गमुद्यतकार्मुकम् ॥६४॥प्रहृष्टा साऽभवद्गौरि वृतश्चापि तया वरः ॥६५॥लक्ष्मीः - मन्नामा पर्वतश्चायं भवत्वद्य महेश्वर । तस्यै दत्तो वरो देवि तन्नामख्यापनाय मे ॥६६॥कृतः श्रीपार्वतो नाम्ना सापि पुत्रयुता ययौ । पुरा दैवासुरे युद्धे तारकादीन् महाबलान् ॥६७॥न्यपातयत् शक्तिपातैः कुमारो मेऽम्बिके तदा । नानावाहनसंपन्नान् दैत्यकोटिसमावृतान् ॥६८॥निहत्यैव च राजानं त्रिविष्टपनिविष्टितम् । चकारातिबलो देवि तारकारिः सुरासुरान् ॥६९॥तदा काव्येन शप्तः स भव त्वं मोहमास्थितः । तच्छापविनिवृत्त्यर्थं श्रीशैलं मे समागतः ॥७०॥देवी - कुमारो मे महादेव कथं काव्येन शापितः । तद्धेतुं विस्तरेणाद्य मह्यं कथय शङ्कर ॥७१॥ईश्वरः - शूरपद्मादयो दैत्यास्तारकाद्या महाबलाः । शस्त्रास्त्रैः शक्तिभिर्घो रैर्निहता दानवोत्तमाः ॥७२॥तान् सर्वान् निहतान् शिष्यान् काव्यो दृष्ट्वाऽतिकोपनः ।शशाप षण्मुखं गौरि मोहयुक्तो भवेति तम् ॥७३॥द्विजिह्वः फणिरूपश्च सर्वेषामिष्टदायकः । स्कन्द षष्ठीपराणां त्वं साक्षात् कामप्रदौ भव ॥७४॥सा तिथिस्ते प्रियतमा कृत्तिकाभं च ते प्रियम् । एवं शशाप काव्योऽसौ षण्मुखं केकिवाहनम् ॥७५॥तदा काव्यस्य तच्छापं स्वीचकार कृपाबलात् । लोकानामुपकाराय कुण्डलीशोऽभवत् तदा ॥७६॥शप्तं स्कन्दं तदा ज्ञात्वा महाक्रोधान्मया तदा । काव्यो ग्रस्तस्तदा गौरि जठरे मय्यधोगतः ॥७७॥तदा मज्जठरे तिष्ठन् तुष्ठाव प्रणतस्तदा ॥७८॥काव्यः - कञ्जजकन्धर कञ्जनेत्रकृतपूज्यशिर कञ्जमित्रकृतनेत्र विचित्रां दुर्गतिं मम विनाशय शम्भो ॥७९॥वह्निवृत्रहणबभ्रुसोमकैः शूरमारजनकाब्जजपूज्य ।पापतपहृदयेन कंपितं देवभूप सततं दयस्व माम् ॥८०॥इत्थं तेन स्तुतो देवि विसृष्टः शुक्रतो मया । स वै शुक्र इति प्रख्या तस्याऽभूद्देवि चोत्तमा ॥८१॥स्कन्दः श्रीशैलभागत्य मां प्रणम्यांबिके तदा । तताप च तपो धोरं वायुभक्षः सुतस्तव ॥८२॥ज्वलत्पञ्चाग्निमध्यस्थो भस्माभ्यक्तोऽर्चयन् हि माम् । प्रजपन् शतरुद्रीयं दृष्टो ब्रह्मादिभिस्तदा ॥८३॥तत्तपःक्षुब्धहृदयाः प्रार्थयन्ति स्म मां सुराः । श्रीशैलेशं समभ्यर्च्य बिल्वपत्रैश्च कोमलैः ॥८४॥देवास्तुष्टुवुरीशाने भ्रमरांबापतिं शिवे ।ब्रह्माद्याः - उपेन्द्रविधिकारणं निगममौलिसंचारिणं कुरङ्गकिणधारिणं नमकनामगण्यं गुणम् ।भजामि भवहारिणं मुनिसुगदिमौलिस्फुरत् सरोरुहगणारुणं शिवदचरणं कालहरणम् ॥८५॥फणीन्द्रकृतकङ्कणं धृतत्रिपुण्ट्रफालेक्षणं सुशैवकृतरक्षणं गिरिसुताब्जवक्त्रेक्षणम् ।यमस्मरपुरान्धकप्रबलदक्षसंशोषणं भजाम गिरिधारिणं सुकृतराशिसंपूरणम् ॥८६॥इति स्तुत्वांबिके देवाः श्रीशैलेशं तदा हि माम् । तत्क्षणादाविरासं च गणेन्द्रैरमरैस्त्वया ॥८७॥स्कन्दपार्श्वं तदा गत्वा समुपस्पृश्य तं तदा । अजिघ्रं तस्य मूर्धानं तमवोचमहं प्रिये ॥८८॥मत्करस्पर्शमात्रेण हित्वैहं रूपमम्बिके । मुदा शक्तिधरः स्कन्दो मां प्रणम्यास्तुवत् तदा ॥८९॥स्कन्दः - सुन्दरवरमन्दरगिरिकन्दरचर कुन्दजसुमसुगन्धमधुरबन्धुरतर इन्दुजकरनन्दितकुमुदाकरहारजमकरन्दरणित पन्नगजननन्दनकरवन्दित मुनिवृन्दजकृतवेदवचनबन्दिजगुणतुन्दिल मम मानसवरनन्दित शिव पालय माम् ॥९०॥उन्दुरकृतवाहनसुतसिन्दुर भव कृतिवसन तिन्दुकसुमपूजितपद इन्दुनिवबिंबितकरचुंबितजटीलोत्तमपूजन जननन्दनविदिशान (?) नन्दिवाहन परिपालय याम् ॥९१॥काव्यशापान्महेशान नष्टज्ञानोऽस्मि शङ्कर । तद् ज्ञानं देहि मे देव स्थानं मेऽद्य दिश प्रभो ॥९२॥तदा स्कन्दवचः श्रुत्वा ब्रह्मादीनां च श्रृण्वताभ् । अवोचं वेदवाक्योत्थं ज्ञानं स्कन्दाय पार्वति ॥९३॥ईश्वरः - अनाख्येयमिदं गुह्यं यस्य कस्यापि देहिनः । अहं मां च परं ब्रह्म निरुपाधिग्नीश्वरः ॥९४॥ततः सर्वमिदं जातं दृश्यते श्रूयते च यत् । मय्येव संस्थितं विश्वं मय्येव लयमेष्यति ॥९५॥अगन्धमरसस्पर्शमशरीरेन्द्रियोज्झितम् । मामात्मानं च यो वेद सद्य एव विमुच्यते ॥९६॥मम कार्यं न वै किञ्चित न करोमीह किञ्चन ।न मत्समोऽस्ति कोऽप्यन्यो नाधिको दृश्यतेऽपि वा ॥९७॥ममैव शक्तिर्विविधा यया व्याप्तमिदं जगत् । अणोरणियसां चाय महतोऽपि महत्तरः ॥९८॥न च मां विदुरन्यानि अहं वेदेदमेव हि । सत्यं ज्ञानोऽहमानन्द विश्व विश्वाधिको ह्यहम् ॥९९॥न मत्तोऽस्ति पृथक् किञ्चित नेह नानास्ति किञ्चन ।मामविज्ञाय दुःखेषु निमज्जन्त्यखिला जनाः ॥१००॥मां विज्ञाय न वै कश्चिन्मोमुह्यति न वै नरः । भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ॥१०१॥अदाह्योहमशीर्योऽहं देहजालेषु सत्तम । नाहं स्त्री नैव पुरुषो न तियक् स्थावरोऽपि वा ॥१०२॥विभान्ति यान्ति उद्यन्ति चन्द्रेन्द्रानिलभास्कराः । मद्भासा भासते लोको जडोऽयं काष्ठसन्निभः ॥१०३॥ऋतमात्मा परं ब्रह्म सत्यं ज्ञानोऽहमीश्वरः । यो मां वेद स सर्वं हि वेदेत्येव परा श्रुतिः ॥१०४॥एवं न कर्मणा प्राप्यं पूजया न धनेन वा । न चैवोपासनाभिश्च ज्ञानादेव हि केवलम् ॥१०५॥एतद्गुह्यतमं ज्ञानं नाख्येयं यस्य कस्यचित् । प्रियपुत्राय ते दत्तं शिष्याय च हिताय च ॥१०६॥मां प्रणम्य तदा स्कन्दो मुदा तुष्टाव हृष्टधीः ॥१०७॥स्कन्दः - शशिखण्डशिखण्डमण्डनं विधिमुण्डामलषण्डकण्ठमालम् ।धृतनागसुकुण्डलं भजे हतचण्डांशुसुतप्रचण्डगर्वकाण्डम् ॥१०८॥अखण्डबोधाय सुचण्डदीधितिप्रचण्डनेत्रं कृतताण्डवं सदा ।भजामि वेतण्डमुखस्तुतं मुदा सुमेरुकोदण्डधराखिलाण्डगम् ॥१०९॥सुचण्डबाहुं रणचण्डविक्रमं सुपुण्डरीकोज्ज्वलहारलीलम् ।तं खण्डपर्शुं प्रणमामि शम्भुमाखण्डलाद्यैरभिवन्दनीयम् ॥११०॥मुनीन्द्रवर्यैरखिलैः समर्चितं करीन्द्रकुम्भस्थितपादपद्मम् ।गिरीन्द्रजाप्राणसखं भजे शिवं विधीन्द्रनारायणवेदसंस्तुतम् ॥१११॥भुजङ्गहारं गलनीलकन्धरं महाजटाभारधरं हरं सदा ।भजामि गङ्गाधरमीशितारं परात्परं कालहरं महेश्वरम् ॥११२॥वसुधाधरधारकं महेशं अमरेन्द्रं च सुधाकरोरुचूडम् ।प्रणमाम्यर्जुनदीप्तिदीधितिं भगवन्तं तमगाधबोधदम् ॥११३॥जगतां मम देवदेव शम्भो जनकस्त्वं भगवन्नुमा जनित्री ।प्रियपुत्रे मयि दत्तमेतदाद्यं श्रुतिगुह्यं जगतो विमुक्तये ॥११४॥इति स्तुतोऽहं स्कन्देन स्तोत्रवर्येण सत्तमे । अवोचं तं तदा स्कन्दं तत्स्तुत्या तोषितोऽम्बिके ॥११५॥ईश्वरः - स्कन्द त्वत्कृतभक्तिशक्तिभिरहो स्तुत्यं स्तुवन् मां मुदा युक्तः पातकवर्गजातसहितो मुक्तः स वै पुण्यभाक् ।तस्मै तद्वयुनं दिशामि च यदा शक्तोऽस्तु तत्वाधिकः ॥११६॥वस त्वं भूधरे स्कन्द सिंहाद्रौ सुरसेविते । स्वामिपुष्करिणीतीरे नानाबृक्षैकशोभिते ॥११७॥निवासो विहितस्तेऽद्य यावदाभूतसंप्लवम् । मदाज्ञया ययौ स्कन्दो ब्रह्मादिविबुधैः सह ॥११८॥प्रणम्य मां तदा देवि श्रीशैलेशं कृपानिधिम् । संपूज्य भ्रमराम्बां त्वां नत्वा स्कन्दो गणैर्वृतः ॥११९॥बिल्वैः पद्मैस्तथा पूज्य प्रदक्षिणपुरःसरम् । भुजङ्गेनोज्वलच्चञ्च्वा केकारावैर्विराजता ॥१२०॥मयोरेणोह्यमानश्च ययौ स्कन्दः सुरैर्वृतः । स्वामिपुष्करिणीतीरे सिंहाद्रौ भक्तिभावितः ॥१२१॥उवास च तदा स्कन्दो देवीं शक्तिधरस्तदा ।ईश्वरः - श्रीशैलेश्वरलिङ्गमेतदमलं मुक्तिप्रदं शाश्वतं दृष्टं येन समस्तपुण्यफलदं स्वर्गापवर्गप्रदम् ।तेनेर्वी सकला सुशांभववरे दत्तऽखिलैः पातकैः मुक्तो मत्कथया स्वसुन्दरतरे श्रोत्रे च पात्रीकृते ॥१२२॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे श्रीशैलेशमाहात्म्ये लक्ष्मीवरप्रदान - स्कन्दशापविमोचन - ज्ञानोपदेश - स्थानकल्पनवर्णनं नाम सप्तविंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP