संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
पञ्चमोऽध्यायः

भर्गाख्यः पञ्चमांशः - पञ्चमोऽध्यायः

श्रीशिवरहस्यम्


ब्रह्मा -
तवोदारविचित्राणि चरित्राणि नृपोत्तम । त्रिनेत्रपादद्वन्द्वार्चाभक्तिसाराणि सत्तम ॥१॥
द्रष्टुमभ्यागताः सभ्या वयं सेन्द्रा दिवौकसः । नारदप्रमुखाः सर्वे मुनयस्त्वयि सन्मुखाः ॥२॥
षण्मुखेन समोऽसि त्वं महादेवस्त्वदुन्मुखः । त्वन्न्नेत्रापाङ्गसङ्गेन पापभङ्गः प्रजायते ॥३॥
अनङ्गरिपुरत्यर्थं कृपां साङ्गां करिष्यति । निःसङ्गेनापि भावेन त्वयि भावेन भावितः ॥४॥
भावनाशकरस्तुभ्यं भवत्वेव भवोद्भवः । किञ्च पञ्चास्यपादाब्जचञ्चिरीकस्त्वमेव हि ॥५॥
मा मुञ्च तादृशीं भक्तिं भवनाशकरीं नृप । यया भक्त्या मुनिवरा वयं विष्णुमुखाः सुरा ॥६॥
अपारघोरसंसारसागरं तर्तुमिच्छवः । संसारतरणोपायः श्रीमहादेवपूजनम् ॥७॥
महादेवं समभ्यर्च मुच्यते भवबन्धनात् । विज्ञानं महदाप्नोति तस्य भक्त्यैव नान्यथा ॥८॥
अनभ्यर्च्य महादेवं को वा मुक्तो भविष्यति । वयं विष्ण्वादयो देवाः पशवः परिकीर्तिताः ॥९॥
तस्मात् पशुपतिः शम्भुः काम्यकर्ममयैर्नृप । पाशैरस्मान् निबन्धाति जगदेतच्चराचरम् ॥१०॥
स एव भक्तिभावेन भावितः परमेश्वरः । कामकर्ममयैः पाशैर्मोचयत्येव नान्यथा ॥११॥
भक्तिरेव विरूपाक्षे भवमोक्षप्रदायिनी । भावग्राह्यो महादेवः शिवः शशिविभूषणः ॥१२॥
लिङ्गेऽर्चितो बिल्वपत्रैः स्तुतः कष्टानि नाशयेत् । शिपिविष्टेष्टेजनकं लिङ्गं मङ्गलदायकम् ॥१३॥
शिवभक्तैः कृतां पूजां लिङ्गे गृह्णाति शङ्करः । भक्तिं च भुक्तिं मुक्तिं च ददात्येव महेश्वरः ॥१४॥
विष्णुर्महेशलिङ्गार्चां कृत्वा पालयते जगत् । मयापि सृज्यते लोको नृप लिङ्गार्चनात् सदा ॥१५॥
इन्द्रोप्ययं मुनिश्रेष्ठो लिङ्गसंपूजनात् सुरान् । वृत्तजम्भादिकान् हत्वा त्रिदिवं पालयत्यपि ॥१६॥
एते सर्वे दिविषदः सर्वे च मुनयो‍ऽप्यमी । महादेवस्य लिङ्गार्चां कृत्वैवौजस्विनोऽभवन् ॥१७॥
भस्मरुद्राक्षधार्येव लिङ्गपूजाधिकारवान् । पञ्चाक्षरावर्तनेपि रुद्राध्यायजपेपि वा ॥१८॥
भस्मरुद्राक्षहीनाङ्गो यो लिङ्गं सकृदर्चयेत् । कृत्वाऽपि शिवलिङ्गार्चां नरकं याति सान्वयः ॥१९॥
भस्मत्रिपुण्ट्ररुद्राक्षहीनं नेक्षति शङ्करः । भस्मरुद्राक्षधार्येव कृपापात्रं महेशितुः ॥२०॥
यथाम्बावदनं कृष्ण पङ्कजं वीक्षते शिवः । यथा वेतण्डशुण्डादिधृतवक्त्रं महेश्वरः ॥२१॥
षण्मुखामलक्त्रेषु नेत्रमालां महेश्वरः । स्वलोलनयनापाङ्गसङ्गिनं कुरुतेऽथ तम् ॥२२॥
भस्मरुद्राक्षसंपन्नं शिवभक्तं शिवार्चकम् । तद्दत्तं बिल्वपत्रं वा नीरं वा फलमेव वा ॥२३॥
भक्तवश्यो महादेवः साक्षाद्गृह्णाति भूपते । पुण्ड्रान्तरं यस्तु धृत्वा पूजयिष्यति यः शिवम् ॥२४॥
कृपीटयोनिनेत्रोन्थज्वालया दाहयेच्च तम् । तं नैव पश्यतीशानः अशुचिं शुचिभाग्यथा ॥२५॥
तस्मात्संपूजयेच्छम्भुं भस्म धार्यैव सन्ततम् । त्रिपुण्ड्रामलभस्माङ्कं रुद्राक्षवरधारिणम् ॥२६॥
श्चपचं पूजयाशु त्वं यतः शिवसमो हि सः । भस्मरुद्राक्षहीनाङ्गं द्विजं वा वेदपारगम् ॥२७॥
निःसारयाशु राष्ट्रात् त्वं यतिं वेदान्तपारगम् । भस्मरुद्राक्षहीनाङ्गो यतिर्वेदान्तसंभवम् ॥२८॥
नैव ज्ञानमवाप्नोति श्रृण्वन्नपि सदा नृप । ज्ञानदाता यतः शम्भुस्तत्कृपाहीनतो ध्रुवम् ॥२९॥
भस्मरुद्राक्षसंपन्नं चण्डालमपि वासय । नृप किं बहुनोक्तेन शिवप्रीतिकरं त्विदम् ॥३०॥
तव पूर्वभवोत्थां हि कथां वक्ष्ये नृपोत्तम । त्वं याचकवरः पूर्वं विप्रबन्धुः किलाभवः ॥३१॥
शैवदत्तमहाविद्यादग्धपातकपर्वतः । उपास्य च महाकालं क्षेत्रेऽस्मिन् मरणं गतः ॥३२॥
शांभवान्नेन पुष्टस्त्वं सदारश्च विशेषतः । भार्या त्वाऽनुममारैव पातिव्रत्यपरायणा ॥३३॥
अकृत्रिमेव भावेन त्र्यम्बकस्तोषितस्त्वया । यमोऽपि चित्रगुप्तेन मार्ष्टि त्वत्पापपत्रिकाम् ॥३४॥
पूजितस्त्वं यमेनापि सुत्राम्णा वरुणेन च । तत्र भुक्त्वा सुखान्येव तस्माद्भृतलमाश्रितः ॥३५॥
महारथसुतो जातो नाम्ना चित्ररथो बली । चण्डभानुकुलश्रेष्ठः प्रचण्डतरविक्रमः ॥३६॥
त्वद्दोर्दण्डेषु कोदण्डखण्डितारातिमण्डलः । आखण्डलोऽपि साह्यं ते कांक्षते दितिजार्दितः ॥३७॥
या सा ते गृहिणी बाला नाम्ना रत्नवती नृप । तवाग्रमहिषी जाता सुतास्ते सुरथादयः ॥३८॥
एतादृशं महाभाग्यं महाकालार्चनादभूत् । महाशैवाङ्गसङ्गेन महाविद्याप्रभावतः ॥३९॥
जातिस्मरस्त्वं नृपतिः स्मरशासनपूजकः । एतत्ते भासुरं जन्म भूसुरस्य विशेषतः ॥४०॥
महादेवं महाभाग्यैः संपूजयसि भूपते । अभाग्यानां न सौभाग्यपतिपूजामतिर्भवेत् ॥४१॥
ये सर्वमङ्गलाकान्तं महेशं शरणं गताः । ते सर्वमङ्गलाकारा भवन्त्येव पदेपदे ॥४२॥
अमङ्गलतराः सर्वे मङ्गलेशार्चनोज्झिताः । यथा महाकालगणो गणत्वं प्राप शङ्करात् ॥४३॥
तथा त्वमपि भूपाल देहान्ते गणपो भव । श्रुतिडितमहेशस्य तथा गणपतेः प्रभोः ॥४४॥
इत्थं वाणीपतीर्वाणीं श्रुत्वा चित्ररथो नृपः । उवाच प्राञ्जलिर्वाक्यं ब्रह्माणं विनयान्वितः ॥४५॥
राजा -
उत्फुल्लामलराजीवराजासनविराजित । सुरम्यवेणीवाणीश गीर्वाणगणवन्दित ॥४६॥
कोऽसौ महाकालगणो गणेशार्चनतत्परः । शिपिविष्टेष्टसद्भावो विनष्टाशुभभावनः ॥४७॥
कुले वा कस्य तज्जन्म सुजन्मा मच्छ्रुतिं गतः । का माता तस्य किं गोत्रं गोत्रभिद्गात्रसन्निभः ॥४८॥
वसुधाधिपतेर्वाक्यं श्रुत्वा माधुर्यवाग्गुणम् । वेधा वक्तुं समारेभे महाकालोद्भवं तदा ॥४९॥
पितामहः -
श्रृणु राजन् प्रवक्ष्यामि महेन्द्र्दसमविक्रम । अस्त्यस्मिन् वसुधापीठे कुमुदो नाम शैलकः ॥५०॥
महाभूमिसरःफुल्लकुमुदाकारतां गतः । रम्यशाखिशतोपेतः शाखामृगगणाश्रयः ॥५१॥
वसन्तपुष्पितानेकशाखाच्छादितमस्तकः । सालतालतमालैलापिप्यलामलकैर्वृतः ॥५२॥
पुन्नागनाजम्बीरजम्बूनिंबकदम्बकः । रसालबिल्वसरलमल्लातकविभीतकः ॥५३॥
शभ्यर्जुनशिरीषादिबाहुक्रमुकचम्पकः । मन्दारपाटलामोदकुद्दालपनसावृतः ॥५४॥
कपित्थशिंशुपालोघ्रमधूकोद्दामगन्धिलः । तक्कोलाङ्कोलहिन्तालप्रियालोत्फुल्लकेतकः ॥५५॥
बादामोदुम्बराक्रोडप्रियङ्गुबदरीधवः । कुरण्टकुटजोपेतो वटोरुविटपैर्वृतः ॥५६॥
त्रिन्त्रिणीवकुलोपेतचन्दनामोदमोदितः । मालतीजातिककुदमल्लीवल्लीशतावृतः ॥५७॥
सुरम्यस्वच्छपानीयः कुमुदोत्पलमण्डितः । पद्मकिञ्जल्कसौरभ्यगन्धबन्धुरमारुतः ॥५८॥
गुच्छगच्छदलिव्रातस्वच्छनादाच्छकन्दरः । विपिनावनिसंचारिमयूरक्षिप्तचन्द्रकः ॥५९॥
नानापक्षिरुतापारविनादितगुहामुखः । पुंस्कोकिलनिनादैश्च केकारवविनादितः ॥६०॥
वेणुक्रेंकारसंघर्षसमुद्भूतहुताशनः । लतागृहतमोभृतझिल्लिकागणनादितः ॥६१॥
कुथास्तीर्णं इवाभाति हरिन्मणिनिभैस्तृणैः । गोगणानन्दजननो गन्धर्वगणसेवितः ।६२॥
मृगेन्द्रशब्दवित्रस्तगजेंद्रकृतधावनः । उद्धूतपुच्छचमरीमृगवित्रस्तलोचनः ॥६३॥
महामहिषहुंकारविषाणारवसुन्दरः । निषण्णमहिषीस्तन्यपयोलिप्तमयोपलः ॥६४॥
क्रोडाम्रेडितमुस्तार्धसह्स्तचारुशिलातलः । शललीशरसंलग्ननिर्यासितमहाद्रुमः ॥६५॥
विद्याधरमुखोद्गीतकृतमार्दङ्गिकारवः । मृदङ्गनादसंलुब्धकुरङ्गगणसंवृतः ॥६६॥
गोलाङ्गूलोत्थहुंकारप्रयातोद्विग्नपादपः । शाखामृगाक्रमच्छाखाप्रपतत्फुल्लभूवृतः ॥६७॥
तत्र वैखानसाः सिद्धाः वालखिल्या मरीचिपाः । पञ्चाग्निमध्ये निरताः फलपूर्णाम्बुभोजनाः ॥६८॥
तप्यन्ति तप अत्युग्रं शिवे संसक्तमानसाः । कृतोटजो मुनिस्तत्र उवास द्विजसंयुतः ॥६९॥
उचथ्यनामा मेधावी त्रय्यन्तज्ञानपारगः । रुद्राध्यायजपासक्तः पञ्चाक्षरपरायणः ॥७०॥
शिवलिङ्गार्चनरतो भस्मरुद्राक्षभूषणः । त्रयीमार्गैकनिरतस्तृणीकृतजगत्त्रयः ॥७१॥
सोमपः सौम्यभावश्च सोमशेखरपूजकः । तस्यासीद्विनयोपता गृहिणी पतिदेवता ॥७२॥
गार्हपत्यार्चनरता नान्मा वसुमती सती । तस्यां तस्य समुत्पन्नस्तपसा बहुकालतः ॥७३॥
सन्मुहूर्ते शुभे ऋक्षे कुमारो मारसुन्दरः । जातमात्रे सुते तस्मिन् पुष्पवृष्टिर्नभश्च्युता ॥७४॥
अत्याहता दुन्दुभयो देवैराहननीहताः । वीणाश्च सस्वनुस्तत्र देवर्षिनखघट्टिताः ॥७५॥
देवगन्धर्वयक्षाश्च समाजग्मुर्मुनीश्वराः । ब्रह्मविष्ण्वादयो देवा उचथ्यस्योटजं प्रति ॥७६॥
स तानर्घ्योपचाराद्यैः पूजयामास भार्गवः । पुत्रजन्मप्रहृष्टात्मा धनधान्यपयस्विनीः ॥७७॥
ब्राह्मणेभ्यो ददौ विप्रो जातेष्टिप्रमुखाः क्रियाः । निरवर्तयदव्यग्रो नाम चक्रे सुरैः सह ॥७८॥
महाकालोऽयमत्यर्थं शम्भुभक्तो गणाग्रणीः । भवितेति मया चोक्तं देवैर्यातोऽस्मि धाम मे ॥७९॥
कलाधीशकला यद्वद्वर्धमाना दिने दिने । महाकालस्तथैवायमवर्धत पितुर्मुदे ॥८०॥
विनयाचारसंयुक्तः कृतोपनयनस्तदा । वेदान् साङ्गान् स जग्राह श्रीरुद्रसमलङ्कृतान् ॥८१॥
पित्रा पञ्चाक्षरं दत्तं नित्यमावर्तयन् सुधीः । लब्ध्वाऽनुज्ञां महाकालस्तपसे कृतनिश्चयः ॥८२॥
जगाम विविधान् देशान् नदीपर्वतमण्डितान् । पुष्पितदुमसंफुल्लान् दाडिमामलकैर्वृतान् ॥८३॥
भल्लातकसमुत्फुल्लान् मालूगन् पोगसंयुतान् । स्वर्गवर्णान् कणिंकारान् रंभास्तम्भशतावृतान् ॥८४॥
नालिकेरेक्षुसद्द्राक्षाफलवल्लीमनोरमान् । यवगोधूमसंपूर्णान् शालिसस्यविराजितान् ॥८५॥
पश्यंस्तदा महाकालो महाकालालयं ययौ । ततश्चोज्जयिनीं प्राप वैजयन्तीपताकिकाम् ॥८६॥
स्नात्वा क्षिप्रानदीतोये भस्मरुद्राक्षभूषणः । पञ्चाक्षरं जपन्मन्त्रं पञ्चास्यध्यानपूर्वकम् ॥८७॥
महाकालार्चनपरो बिल्वपत्रादिसाधनैः । रुद्रावर्तनशीलश्च रुद्रे विन्यस्तमानसः ॥८८॥
भस्मनिष्ठो भस्मशायी भवभावसमन्वितः । पञ्चाग्निमध्यनिरतो ज्बलच्छिखिशिखावृतः ॥८९॥
प्रचण्डसूरकिरणैर्मूर्ध्नि सन्तापितस्तदा । निरालम्बोर्ध्वपादश्च कटधूमं सदा पिबन् ॥९०॥
पिशङ्गितजटाभारो धूमधूम्रीकृताननः । वर्षास्वभ्रावकाशश्च हेमन्ते जलसंश्रयः ॥९१॥
सुत्राममुखसत्रशवित्रासनकरं तपः । चकारोङ्कारसुभगोद्गीथगाथाहृदन्तरः ॥९२॥
एवं तपस्यतस्तस्य कालो भूयानवर्तत । विघ्नजालं महाधैर्यात् स तु संजघ्निवांस्तदा ॥९३॥
मोहकाराप्सरोजालं तिमिरं भास्करो यथा । निघ्नन् भगघ्नपादाब्जध्यानशुद्धहृदन्तरः ॥९४॥
मरमारकबाणानां नान्तरं स ददौ तदा । वयं सब्रध्नका देवास्तत्तपोदर्शनेप्सवः ॥९५॥
तदभ्यर्णगता देवास्तूर्णं तेन प्रपूजिताः । वत्सोत्तिष्ठेति च तदा मया प्रोक्तः स बालकः ॥९६॥
वरैः संछादितश्चापि न चक्रे संमतिं तदा । स मां प्रणम्य बहुशो विनयावनताननः ।
प्राञ्जलिः प्राह मां बालोऽप्यबालमतिरुत्तमः ॥९७॥
महाकालः -
पद्मासनमुखा देवा मत्सद्माद्य समागताः । महान्तो भगवन्तो हि वरं दद्युर्यदीप्सितम् ॥९८॥
भवे भवे भवे भूयाद्भक्तिरेव सदा मम । एतदेव वरं याचे नान्यत्राहं सुरोत्तमाः ॥९९॥
भवतां दर्शनेनाद्य निर्वृतोऽस्मि न संशयः ॥१००॥
इत्थं महाकालवचो निशम्य सुरा ययुः स्थानमतीव हृष्टाः ।
महेश्वरस्यामलपादपङ्कजं दृष्ट्वाऽथ तद्भक्तिमपारपुण्यजाम् ॥१०१॥
तद्भक्तिदर्शनानन्दविवशास्ते सुराऽब्रुवन् । उत्कण्ठपुलकाः सन्तः सानन्दजलसंप्लवाः ॥१०२॥
सूतः -
अतिष्ठदेकपादेन दश वर्षाणि बालकः । स गृणच्छतरुद्रीयं स्थाणुभूतः सुनिश्चलः ॥१०३॥
स्थाणुध्यानपरो भूत्वा जीर्णपर्णफलाशनः । मासमेकं निराहारः स्फुटितस्नायुवन्धनः ॥१०४॥
अष्टाकपालात् तच्छीर्षान्मूर्ध्नि धूमो व्यजायत । तद्धूमतान्ता देवाद्या मुनयः सासुरोरगाः ॥१०५॥
महेशं शरणं जग्मुः तन्मनोऽभीष्टसिद्धये । अष्टमूर्तिं कृपाविष्टं उमाश्लिष्टार्धभागकम् ॥१०६॥
प्रणम्य साञ्जलिकराः शाङ्करास्ते सुरस्तदा । तुष्टुवुर्हृष्टमनसो देवा विश्वेश्वर शिवम् ॥१०७॥
देवाः -
हर हर मुरहरपूजितपाद प्रहर महाघगिरिं कटाक्षवज्रैः ।
शमय शमनजातभीतिदुःखं छेदय पाशमयं भवैकजालम् ॥१०८॥
त्रिपुरदहन दक्षध्वंसनाक्षिप्रकोणोत्थितशिखिविशिखाग्रैर्दग्धमार प्रसीद ।
शिव शिव शिव शम्भो चन्द्रमौले कपर्दिन् ॥१०९॥
विश्वाधिक त्रिनयन त्रिपुरान्तकारे त्रय्यन्तवेद्य त्रिदशाद्य त्रिकाग्निकाल ।
श्रीमत् त्रियम्बक त्रिलोकविलासशील लीलाकृताङ्ग त्रिगुणात्मक पाहि शम्भो ॥११०॥
भावग्राह्यस्त्वमसि भगवन् जिह्मभावैर्न लभ्यः
त्वत्तो जातं भुवनमखिलं नामरूपैर्विचित्रम् ।
सर्वं रुद्र त्वमसि भगवन् वेदवाक्यैकगम्यो
ब्रह्मण्यश्च प्रभवसि विभो ब्राह्मणार्च्यं पदं ते ॥१११॥
मूकास्त्वद्गुणवर्णने भवशतेष्वद्वैतवार्तालसाः
कामान्धाः सततं सदा शिवकथां श्रोतुं तथा दुःश्रवाः ।
त्वद्ध्याने जडबुद्धयो हि सततं त्वत्पादपूजाविधौ
छिन्नाङ्घ्र्याशयकाः सदा शरणतः संप्रहीणः प्रहीणाः ॥११२॥
सूतः -
इति सुरवचनं निशम्य शम्भुः प्रणतसुरासुरलग्नपादपद्मः ।
ओमिति देवगणैः सुखं विरेजे गिरिजादत्तकरस्तदा प्रतस्थै ॥११३॥
सुतुङ्गशितशाङ्करं समधिरुह्य देव्या शिवः सुरासुरमुनीश्वरप्रणतपादनालीककः ।
गणेश्वरमुनीश्वरैर्जयरवैर्मुदा संस्तुतः उमामुखसुण्ङ्कजे मुहुरपारसंवीक्षणः ॥११४॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे महाकालतपःप्रभाव-देवताप्रार्थनवर्णनं नाम पञ्चमोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 07, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP