संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| चतुस्त्रिंशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - चतुस्त्रिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव चतुस्त्रिंशोऽध्यायः Translation - भाषांतर ईश्वरः - तत्प्रतीच्यां महादेवि प्रभासं नाम विश्रुतम् । प्रभासे वेनिका नाम नदी पुण्यप्रदा शुभा ॥१॥तत्र शैववरा नित्यं भसितोद्धूलने रताः । त्रिपुण्ड्रफालाः सततं अन्यपुण्ट्रविवर्जिताः ॥२॥रुद्राक्षकवचाः सर्वे पञ्चाक्षरपरायणाः । रुद्राध्यायार्थकथनप्रवणाः शरणा मयि ॥३॥मम लिङ्गार्चकाः सर्वे बिल्वपत्रादिसाधनैः । तैः शिवानर्पितं वारि फलं वा नोपभुज्यते ॥४॥षट् सहस्रं मुनीन्द्राणां प्रभासे समवस्थितम् । तत्र मङ्कणको नाम पुरा सिद्धोऽभवन्मुनिः ॥५॥तेन सिद्धेश्वरं लिङ्गं त्रिकालेषु समर्चितम् । बिल्वपत्रैश्च कल्हारैर्नीलैर्नीलोत्पलैरपि ॥६॥नैवेद्यैः फलमूलादिकल्पितैः परमेश्वरि । सदा ममाराधनकृत् स मां तुष्टाव शङ्करि ॥७॥सिद्धेशं सर्वसिद्धीनामाकरं भुवनेश्वरि ॥मङ्कणकः - सिद्धेश सिद्धगणपूज्यपदाब्जयुग्ममद्यैतदेकमनिशं दयया ददस्व ।मुग्धेन्दुचूड मयि सिद्धिगणं त्वदीयैः (?) सिद्धोऽस्मि मोचय महाघसुपाशबद्धम् ॥८॥बुद्धिं प्रसारय महेश सुखाय शम्भो त्वत्पादपूजनविधौ दृढभक्तियुक्ताम् ।सक्तां सुदारतनयादिधनादिकेषु धान्येषु गोषु गृहवर्णगणेषु मुक्तिम् ॥९॥देहि प्रसीद परमेश्वर पञ्चवक्त्र लोकेशमेति निखिलं सहभूतवर्गैः ।वैमानिकाश्च सकलाः ससुराश्च लोकाः कालस्त्वमीश बडवामुखसन्निभोऽब्धौ ॥१०॥क्षेत्रोत्तमं मुनिवरैः सेवितं शांभवोत्तमैः । तत्र सिद्धेश्वरं नाम्ना लिङ्गं मुक्तिप्रदं मम ॥११॥मद्भासनाकर्षणेन प्रभासमिति विश्रुतम् ।हरिब्रह्मरुद्रेन्द्रसाम्राज्यजालं निकृष्टं तदुत्कृष्टकष्टैकनिष्ठम् ।ममेशानलिङ्गार्चनध्यानतुष्टस्य लक्षस्थलिक्षायिता देववर्गाः ॥१२॥इति मङ्कणकेनेशि संस्तुतोऽहं मुदा तदा । तमाहूय मुनिं सिद्धं सिद्धयस्तेऽभवंस्त्वयि ॥१३॥इति मत्तो वरं लब्ध्वा स तु मङ्कणको द्विजः । स्वकरात् पयसो धारां निःसृतां ददृशेऽम्बिके ॥१४॥सिद्धिः प्राप्तेसि च मया तस्य हर्षोऽजनि दुतम् । ननर्त सिद्धलिङ्गाग्रे करतालैः स शांभवः ॥१५॥मङ्कणकः - स्वामिन्नन्नपते धनाधिपपते हे शैलकन्यापते हे कामान्तक हे पुरान्तक महादेवेश मां पालय ।हे विश्वेश्वर भर्ग देव भगवन् हे चारुचामीकरस्फाराकारशशीरशोभित महासिद्धेश सिद्धिप्रद ॥१६॥हे भीमामरनाथकाक्घिलमहापापेरूतापं हर रुद्रोग्रामितशङ्कर त्रिपुरजापारव्यथां संहर ।हे कालान्तक कालकाल भवहन् कालाद्भयं संहार हे गङ्गोत्तमसङ्गरङ्गितजटाभारार्धचन्द्रस्फुर ॥१७॥कर्पूरोज्वलभूतिभूष भगवन् मां सर्वदा पालय हे भोगीश्वरकङ्कण प्रमथपानाथे प्रसीदाधुना ।हे विश्वान्तक विश्वमेतदधुना त्वत्तो विबो निःसृतं पाहि त्वं परमेश्वरेश कृपया त्वन्मायया कल्पितम् ॥१८॥हे लिङ्गार्चनजातनन्दितनिजानन्दैकमोदप्रद हे बिल्वादिदलोत्तमाङ्ग भगवन् मत्सिद्धिदातार्चने ॥१९॥इत्थं ननर्त स मुनिः सिद्धिविस्मापितस्तदा । तेन वृत्तेन सकलं जगन्नृत्तपरं भवत् ॥२०॥सोद्विग्नास्त्रिदशाः सर्वे मुनिं ते ददृशुस्तदा । निमीलिताक्षं ध्यायन्तं सानन्दजललोचनम् ॥२१॥ब्रह्मोपेन्द्रेन्द्रविबुधान् नैवापश्यत् तदाऽम्बिके । सिद्धेश्वराग्रतः सर्वे स्तुवन्तं मां सुरास्तदा ॥२२॥सदा सब्रह्मकाः सर्वे सिद्धेशं मां प्रणम्य च । बिल्वैः संपूज्य मां सर्वे प्रार्थयन्ति तदा सुराः ॥२३॥देवाः - भो शम्भो त्रिपुरान्तकान्तक महादेवेश विश्वाधिक विश्वाशास्य दयानिधे त्रिजगतां नाथ प्रसीदाव नः ।भो भर्गामरधीर वीर भगवन् पाहीन्दुमौळे सुरान् नृत्ये तेन मुनीश्वरेण भुवनं नृत्यन् विनम्येद्ध्रुवम् ॥२४॥अयं मङ्कणकः सिद्धः सिद्धेश तव दर्शनात् । सिद्धिं परमिकाः प्राप्तस्तेन नृत्यानि मोहितः ॥२५॥तं निवारय लोकेश लोकानां स्थितिहेतवे । तद् ब्रह्मणो वचः श्रुत्वा सिद्धरूप्यहमागतः ॥२६॥जटामण्डलशोभाढ्यस्त्रिपुण्ट्रनिटिलोल्लसन् । रुद्राक्षहारवलयः कङ्कणाद्यैश्च शोभितः ॥२७॥भसितोद्धूलितवपुः स्वर्णवेत्रलसत्करः । शंखखङ्गादिकलितकुण्डलैः शोभिवक्त्रकः ॥२८॥पादुकाविलसत्पादो मेखलां पादलम्बिनीम् । दधड्डमरुकं देवि नादयन् डरबरोऽम्बरम् ॥२९॥पादकङ्कणभूतस्य फणिनः श्वासफूत्कृतैः । वैनतेयमहापक्षकृतपीडो महेश्वरि ॥३०॥तस्याग्रतः स्थितो देवि सिद्धेशोऽहं मुनेस्तदा । स मुनिर्विस्मयाविष्टो मां प्रणम्य तदा स्थितः ॥३१॥पश्यतस्तस्य मेऽङ्गुष्ठो देवि संताडितो मया । तस्माच्च भस्मनो राशिरुदभूत पर्वतोपमः ॥३२॥देवा मङ्कणकः शैवा अद्भुतं ददृशुस्तदा । नृत्तादुपारमद्विप्रो मया प्रोक्तः स मङ्कणः ॥३३॥गच्छ मङ्कण सिद्धिस्ते मत्प्रसादात् परा तव । मैव ते विस्मयो भूयादेतल्लिङ्गं हि सिद्धिदम् ॥३४॥प्रभासे पावने क्षेत्रे यो वा को वाऽपि मानवः । नियतः संवसेदत्र तस्य सिद्धिः परा भवेत् ॥३५॥सिद्धिप्रदमिदं लिङ्गं सिद्धेशाख्यं तु कामदम् । दर्शनादस्य लिङ्गस्य सर्वाः सिद्ध्यन्ति सिद्ध्यः ॥३६॥प्रभासे मत्प्रसादेन सिद्धलिङ्गमुदीक्ष्य च । मत्सायुज्यमवाप्नोति देवि सत्यं वदामि ते ॥३७॥पुरा जयन्तः शक्रस्य तनयो मोहमास्थितः । ऐरावतसुतं नागं समारुह्य जवात् तदा ॥३८॥समागतो देवगणैर्मध्येमार्ग द्विजस्य हि । गोवत्सो मर्दितः पादैस्तेनोन्मत्तेन हस्तिना ॥३९॥शतर्चनः शशापैनं जयन्तं पाकशासनिम् । श्वित्री भवेति च तदा शापाच्छ्वित्र्यभवत् तदा ॥४०॥इन्द्रमिन्द्रगुरुः गत्वा तत्सर्वं शापकारितम् । जयन्तः प्राह दुःखेन प्रणम्य पितरं गुरुम् ॥४१॥जयन्तः - अज्ञानाद्यौवनोन्मादाद्धस्तिपादावमर्दितः । तर्णकस्तस्य विप्रस्य क्रुद्वो मयि शतर्चनः ॥४२॥तस्याद्य निष्कृतिं ब्रूतं युवां यद्ब्रूत तद्व्रतम् । करिष्यामि न सन्देहः सुखोपायं वदाधुना ॥४३॥जयन्तवाक्यं तच्छ्रुत्वा शक्रस्यानुमते पुनः । बृहस्पतिस्तदा प्राह प्रभासं क्षेत्रमुत्तमम् ॥४४॥सिद्धेश्वरं प्रणम्याथ स्नात्वा वेणानदीजले । संवत्सरं वस प्रीत्या जप रुद्रं महेश्वरम् ॥४५॥बिल्वपत्रैः समभ्यर्च्य मुक्तो भवसि नान्यथा । तदा गुरुवचः श्रुत्वा जयन्तस्तौ प्रणम्य च ॥४६॥इन्द्रेण चाभ्यनुज्ञातः प्रभासे मां समागतः । स्नात्वा वेणानदीतोये तपोऽतप्यत दुष्करम् ॥४७॥भस्मत्रिपुण्ट्ररुद्राक्षमालालङ्कृतविग्रहः । नमस्कारैर्महादेवं रुद्राध्यायेन शङ्करम् ॥४८॥शक्रात्मजस्तदा गौरि सिद्धेशाख्यं तदा मुदा । बिल्वपत्रैः समभ्यर्च्य प्रदक्षिणपुरःसरम् ॥४९॥स्तुवन् जपन् सदा ध्यायन् मां निरीक्षंश्च भक्तितः । तुष्टावाथ जयन्तो मां प्रणिपत्य कृताञ्जलिः ॥५०॥जयन्तः - सिद्धीनां निलयस्त्वमीश दयया आगस्कृतं पाहि मां विश्वाधीश्वर विश्वनाथ भगवन् श्रीचन्द्रचूड प्रभो ।त्वं शक्रादिसुरासुरार्चितपदो निर्द्वन्द्वनित्यो विभुः गुप्तो मूढधियां सुसूक्ष्मकधिया पश्यन्ति यं योगिनः ॥५१॥सान्द्रानन्दमयं दयामयतनुं प्राप्तोऽस्मि पादं तव । मां सद्यः सुखयाशु पाहि दयया सिद्धेश भद्रं कुरु ॥५२॥इति संप्रार्थितस्तेन जयन्तेन मनोरमे । तस्माच्छ्वित्राद्विनिर्मुक्तो नत्वा शक्रं मुदा गतः ॥५३॥इत्थं प्रभासक्षेत्रस्य महिमायं तवोदितः । सिद्धिप्रदमिदं क्षेत्रं सिद्धेशस्यास्य दर्शनात् ॥५४॥सूतः - शिवप्रणतिसंभवं फलमपारपुण्याधिकं न तत् क्रतुशतार्जितैः फलगणैः समानं भवेत् ।अनन्तमहिमास्पदं विविधपातकोच्छेदकं शिवद्रुहि जने सदा न खलु वाच्यमेतद् द्विजैः ॥५५॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे प्रभासक्षेत्रमाहात्म्ये जयन्तस्य श्वित्ररोगनिवारणवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP