संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्|

पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ३१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ जैमिनिरुवाच ॥
कृतकृत्यं तदात्मानं मन्यमानस्ततो व्रजेत् ॥
अश्वमेधांगसंभूतमिंद्रद्युम्नसरः प्रति ॥१॥
यस्य तीरे निवसति नरसिंहाकृतिर्हरिः ॥
नरसिंहमनुप्रार्थ्य तत्र स्नायाद्यथाविधि ॥२॥
नरसिंह नमस्तुभ्यं यस्य ते क्षेत्र उत्तमे ॥
सहस्रं वाजिमेधस्य क्रतोश्चक्रे नृपोत्तमः ॥३॥
इन्द्रद्युम्नः प्रसादात्ते तस्य क्रत्वंगसंभवे ॥
सरसि स्नातुमायातो मामनुज्ञापय प्रभो ॥४॥
ततस्तीर्थतटं गत्वा कृतशौचाचमक्रियः ॥
प्रार्थयेदंजलिं कृत्वा इमं मंत्रमुदीरयेत् ॥५॥
अश्वमेधांगगोकोटिखुरक्षुण्णमहीतलः ॥
तन्मूत्रफेनादानांभः पूरिताखिलपावनः ॥६॥
स्नातुं तवागतः पुण्ये सर्वतीर्थमये जले ॥
पूर्वजन्मसहस्रोत्थं पापं स्नानाद्विमोचय ॥७॥
अन्तः प्रविश्य च ततो वारुणैः पंचभिर्द्विजाः ॥
स्नायादन्तर्जले जप्यात्त्रिरावृत्त्याघमर्षणम् ॥८॥
अश्वमेधांगसंभूत तीर्थ सर्वाघनाशन ॥
जन्मकोटिभवं पापं त्वयि स्नानाद्विनश्यतु ॥९॥
इमं मन्त्रं त्रिरुच्चार्य त्रिः स्नायात्तज्जले द्विजाः ॥
संस्मरेद्विष्णुगायत्र्या नरसिंहाकृतिं हरिम् ॥१०॥
आपो नारा इति प्रोक्ता यस्मात्ता नरसूनवः ॥
अयनं प्रथमं चास्य तस्मादप्सु हरिं स्मरेत् ॥११॥
देवानृषीन्पितॄंश्चैव तर्पयेद्विधिवन्नरः ॥
नरसिंहं ततो गच्छेत्पश्चिमाभिमुखं स्थितम् ॥१२॥
सिद्धं शंभुं कृत्रिमं वा पश्चिमाभिमुखं हरिम् ॥
दृष्ट्वा विमुच्यते पापैर्जन्मकोटिसमुद्भवैः ॥१३॥
तमाथर्वणमंत्रेण यजेच्च नरकेसरिम् ॥
नारदेन पुरा ह्येष मंत्रराजः प्रतिष्ठितः ॥१४॥
इन्द्रद्युम्नेन तेनैव चिरादेष उपासितः ॥
नरसिंहाकृतौ नान्यो मंत्रस्तत्सदृशो द्विजाः ॥१५॥
यस्योच्चारणमात्रेण तुष्टो भवति केसरी ॥
अनेन दारुवर्ष्मापि ब्रह्मणा संप्रतिष्ठितः ॥१६॥
पूर्वोक्तैरुपचारैस्तु पूजयेन्नरकेसरिम् ॥
जपाप्रसूनैररुणैरन्यैश्चैव सुगंधिभिः ॥१७॥
चंदनागरुकर्पूरैर्लेपयेन्नरकेसरिम् ॥
पायसं सितया युक्तं सौरभेयेण सर्पिषा ॥१८॥
कर्पूरखण्डसंयुक्तान्मोदकान्घृतपाचितान् ॥
संयावान्घृतपूपांश्च फलं नानाविधं तथा ॥१९॥
शर्करादधिसंयुक्तं शाल्यन्नं विनिवेदयेत् ॥
दृष्ट्वा स्पृष्ट्वा नमस्कृत्वा संपूज्य नरकेसरिम् ॥२०॥
स्वान्स्वानभीष्टानाप्नोति नरो वै नात्र संशयः ॥
देवत्वममरेशत्वं गंधर्वत्वं च भो द्विजाः ॥२१॥
ईशित्वं च वशित्वं च सार्वभौमत्वमेव वा ॥
यद्यत्कामयते चित्ते तत्तदाप्नोत्यसंशयम् ॥२२॥
पंचतीर्थीविधानं च कथितं पृच्छतां द्विजाः ॥
दिनानि पंच कृत्वैतां पञ्चभूतमये पुनः ॥२३॥
न देहे प्रविशेन्मर्त्यो व्रती विष्णुपरायणः ॥
पौर्णमास्यां प्रत्युषसि तीर्थराजजले पुनः ॥२४॥
पूर्वोक्तविधिना स्नात्वा शुद्धाहारो जितेंद्रियः ॥
एकभक्तव्रतेनैव वर्त्तते प्रीतये नरः ॥
यावत्पंच दिनानि स्युस्तावत्कालं द्विजोत्तमाः ॥२५॥
ततः प्रविश्यप्रासादं मंचस्थं पुरुषोत्तमम् ॥
रामं सुभद्रां दृष्ट्वा च मुच्यते पापकंचुकैः ॥२६॥
सर्वतीर्थमयात्कूपादुद्धृतेन सुगन्धिना ॥
वारिणा स्नाप्यमानं तु यो ज्यैष्ठ्यां पश्यते हरिम् ॥२७॥
न तस्य पापसंबंध आत्मनि प्रभविष्यति ॥
यात्राकर्तृविधिं वक्ष्ये शृणुध्वं मुनयः परम् ॥२८॥
चतुर्दश्यां दृढं मंचं कारयित्वा सुशोभनम् ॥
तृणकाष्ठमयं लिप्तं सुधया बहुलं शुभम् ॥२९॥
अथवा दार्षदं कुर्याच्चिरस्थायि द्विजोत्तमाः ॥
स्नानार्थं देवदेवस्य वित्तशाठ्यं न कारयेत् ॥३०॥
नानाद्रुमगणाकीर्णं दक्षिणानिलशीतलम् ॥
उल्लसत्सिंधुकल्लोलशाड्वलोपरि संस्कृतम् ॥३१॥
समुच्छ्रितमहामूल्यवितानवरशोभितम् ॥
विरलाच्छादनं कुर्याद्देवानां दर्शनाय वै ॥३२॥
आयांति ब्रह्मणा सार्द्धं स्नपनाय जगत्पतेः ॥
स्वर्गंगांभः समादाय पारिजातविभूषितम् ॥३३॥
ब्रह्मर्षयश्च त्रिदशा ब्रह्मणा सहिता विभुम् ॥
मंचस्थं स्नापयन्तीह वचनात्परमेष्ठिनः ॥३४॥
जयशब्दैश्च स्तुतिभिर्वंद्योऽयं त्रिदिवौकसाम् ॥
तस्मान्मंचस्तु कर्तव्यो मंडितो माल्यचामरैः ॥३५॥
नानामणिस्रजा हारिदुकूलकृततोरणम् ॥
सुगंधधूपसुरभिचंदनाभः समुक्षितम् ॥३६॥
एवं मंचं प्रतिष्ठाप्य तस्य दक्षिणतो द्विजाः ॥
कूपाद्वारि समुद्धृत्य कलशान्स्वर्णनिर्मितान् ॥३७॥
शालायां शास्त्रदृष्टेन विधिना त्वधिवासयेत्॥ ३८॥
सुवासितं जलं तेषु पावमान्या प्रपूरयेत् ॥
चतुर्दशीनिशामध्ये कर्मैतत्समुदाहृतम् ॥३९॥
शनैः शनैश्च नीयासुर्हरिं हलि पुरःसरम् ॥
ब्राह्मणाः क्षत्रिया वैश्या राज्ञा संमानितादृताः ॥४०॥
चामरैस्तालवृन्तैश्च वीज्यमानं निरंतरम् ॥
पुराकृतामलेपं तं विष्णोरंगान्न हापयेत् ॥४१॥
यथा सुगंधलेपेन सुपुष्टांगो दिने दिने ॥
तथा प्रयत्नतः कार्यः कृशांगो न हि पुष्टिकृत् ॥४२॥
नयेयुरप्रमाद्यंतो भगवंतमानदिताः ॥
प्रमादतो यदि भवेत्पतनं मुरवैरिणः ॥४३॥
बलस्य वा सुभद्राया राज्ञो राज्यस्य भीतिकृत् ॥
अपि पातयतां हानिः संततेर्बहुदुःखिता ॥४४॥
नरके नियतं वासो भवेत्तेषां दुरात्मनाम् ॥
विमुह्यंतश्चिराद्दारुमयीयं प्रतिमा कथम् ॥४५॥
तिष्ठेदविश्वसंतो ये भगवद्द्रोहिणस्तु ते ॥
नरकं प्रतिपद्यंते सर्वकर्मबहिष्कृताः ॥४६॥
मूढानां नास्तिकानां च कृतघ्नानां हतात्मनाम् ॥
धर्मकृत्येषु जायंते अविश्वासस्य युक्तयः॥४७॥
अदृष्टं यस्य यावद्धि स तु तेन विनिर्मितः ॥
तदंते तस्य क्षीयंते प्रासादप्रतिमादयः ॥४८॥
न चायं निर्मितः केन द्रुमः सोऽपि प्रवर्द्धितः ॥
वरं ददाति या नूनं न चासौ प्रतिमा मता ॥४९॥
निर्मितायां प्रतिकृतौ पुरा मन्वंतरादिषु ॥
व्यतीतेष्वपि वर्द्धंते जनानां च सुपर्वणाम् ॥५०॥
भक्तयस्तादृशो विप्राः सर्वेषां पृथिवीक्षिताम् ॥
स्वारोचिषेंऽतरे चैव आविर्भूतः कृपानिधिः ॥५१॥
वैवस्वतेंऽतरे सप्तविंशे चैव चतुर्युगे ॥
द्वापरांते समायातौ तदा कृष्णार्जुनावुभौ ॥५२॥
त्रिदिनानि स्थितावत्र व्रतस्थौ मधुसूदनम् ॥
भक्त्या संपूज्य तं स्तुत्वा जग्मतुर्द्वारकां पुनः ॥५३॥
न केऽपि तत्त्वं जानंति मानुषीं तनुमास्थिताः ॥
अवताराः प्रवर्तंते विष्णोरस्य युगेयुगे ॥५४॥
धर्मस्थापनया विप्रा लीयंते स्वपदे पुनः ॥
पूर्वं च ब्रह्मणा प्रोक्तः स चानेन परस्परम् ॥५५॥
स्थाता परार्द्धपर्यंतं भगवान्दारुरूपधृक् ॥
सदायं वरदो विष्णुः शुद्धसत्त्वेन भावितः ॥५६॥
यस्य यावांस्तु विश्वासस्तस्य सिद्धिस्तु तावती ॥
प्रमादीकृतविश्वासो भक्तो दृढमतिः पुमान् ॥५७॥
यत्नानुरूपं लभते फलमस्मात्सुदुर्लभम् ॥
पुरा वः कथितं सर्वमंबरीषविमोचनम् ॥५८॥
ततस्तस्मिञ्जगन्नाथे परमात्मस्वरूपिणि ॥
विधाय सुदृढां भक्तिं वसध्वं पुरुषोत्तमे ॥५९॥
अतोऽयं भक्तितो नेयः श्रीकृष्णमंच उत्तमः ॥
सुभद्राबलभद्रौ च राजवत्परिचर्य वै ॥६०॥
उत्तोलितेषु च्छत्रेषु चामरैर्वीजितेषु च ॥
कालागुरुसुधूपासु दिक्षु गंभीरनादिषु ॥६१॥
नानाविधेषु वाद्येषु त्वगारे परिपूरिते ॥
तौर्यत्रिके साधुवृत्ते दीपिका श्रेणिराजिते ॥६२॥
अंधकारेऽथ सर्वेषां वर्द्धमाने महोत्सवे ॥
आच्छन्ने श्रीपतेरंगे प्रमादपरिशंकया ॥६३॥
पटुपट्टदुकूलेषु नीयमानेषु दूरतः ॥
गतेर्वेगात्तदोत्तानीकृतास्ये जगतां गुरौ ॥६४॥
आवर्त्तदृष्टयो देवा दिवारोहणशंकिनः ॥
जयस्व राम कृष्णेति जय भद्रेति चोचिरे ॥६५॥
एवं सलीलं भगवाञ्जन्मज्यैष्ठ्याभिषेचने ॥
नीयते मंचदेशं तु निशीथे ब्राह्मणादिभिः ॥६६॥
अहंपूर्विकशब्दस्तु देवानां श्रूयते दिवि ॥
देवदुंदुभयश्चैव जयशब्दविमिश्रिताः ॥६७॥
ततो मंचस्थितं ब्रह्मरूपं प्रत्यर्चया सह ॥
आच्छाद्य सर्वाण्यंगानि मुखवर्जं सुचेलकैः ॥६८॥
विना निवेद्यं संपूज्य उपचारैः पुरोदितैः ॥
अधिवासितकुंभैश्च शांतिघोषपुरःसरम् ॥६९॥
समुदज्येष्ठामंत्रेण स्नापयेत्सुरपुंगवान् ॥
पश्यतामभिषेक्तॄणां कृतकृत्यत्वहेतवे ॥७०॥
स्नाप्यमानं तु पश्यंति ये नरास्तत्र संस्थिताः ॥
गर्भोदकेन स्नपनं न ते पुनरवाप्नुयुः ॥७१॥
ज्येष्ठस्नानं भगवतो ये पश्यंति मुदान्विताः ॥
न ते भवाब्धौ मज्जंति यात्रामुत्कंठमानसाः ॥७२॥
बुद्ध्यबुद्धिकृतः पुंसामनादिः पापसंचयः ॥
तत्क्षणान्नाशमायाति पश्यतां स्नपनं हरेः ॥७३॥
सत्यं सत्यं पुनः सत्यं ब्रवीमि द्विजपुंगवाः ॥
सर्वसंतापशमनमशेषमलनाशनम् ॥७४॥
स्नपनं श्रीपतेर्ज्यैष्ठ्यां यदि भक्त्या विलोकनम् ॥
प्रायश्चित्तनिमित्तानि यानि पापानि संति वै ॥७५॥
तानि सर्वाणि क्षीयंते पश्यतां स्नपनं हरेः ॥
नातः परतरं कर्म ह्यनायासेन मोचनम् ॥७६॥
ज्येष्ठजन्मदिने स्नानं हरेर्यदवलोकितम् ॥
स्नानदानतपःश्राद्धजपयज्ञादयस्तु ये ॥७७॥
विधयः कोटिगुणिताः कोटिजन्मोपपादिताः ॥
स्नानदर्शनपुण्यस्य हरेस्ते न तुलां गताः ॥७८॥
भक्त्या यः स्नपनं विष्णोरेकस्मिन्वत्सरेऽपि वा ॥
पश्येन्न शोचते विप्रा इह संसारमोचने ॥७९॥
तेनेष्टं क्रतुभिः पुण्यैः श्रद्धाविपुलदक्षिणैः ॥
महादानानि दत्तानि भोजिताः कोटिशो द्विजाः ॥८०॥
श्राद्धानि गयशीर्षादौ कोटिशश्च कृतानि वै ॥
पुण्यकाले च तीथार्दौ तपांसि चरितानि च ॥८१॥
अर्धोदयादियोगेषु कोटितीर्थेषु कोटिशः ॥
स्नातानि तेन भो विप्रा यः पश्येत्स्नपनं हरेः ॥८२॥
सत्यं सत्यं पुनः सत्यं ब्रवीमि द्विजपुंगवाः ॥
नातः श्रेयस्करं कर्म शास्त्रदृष्टपथिस्थितम् ॥८३॥
मञ्चस्थं स्नाप्यमानं हि यः पश्येत्पुरुषोत्तमम् ॥
स्नानाच्छतगुणं पुण्यं लभते वै न संशयः ॥८४॥
मञ्चस्थितं जगन्नाथं स्नानार्द्रं यस्तु पश्यति ॥
सांद्रानन्दार्द्रचित्तोऽसौ न किंचित्पापमश्नुते ॥८५॥
यदेव पुण्यमुदितं स्नानदर्शनकर्मणि ॥
तत्तत्फलमवाप्नोति दृष्ट्वा मञ्चस्थमच्युतम् ॥८६॥
एक एव जगन्नाथस्त्रिधा तत्र स्थितो द्विजाः ॥
एकैकस्यापि स्नपनदर्शनं भुक्तिमुक्तिदम् ॥८७॥
जयस्व रामभद्रेति जय भद्रेति यो वदेत् ॥
जय कृष्ण जगन्नाथ जयेत्युच्चारयेन्मुदा ॥८८॥
स्नानकाले स वै मुक्तिं प्रयाति द्विजसत्तमाः ॥
अधिवासादिकं तत्र यैः कृतं स्नानकर्मणि ॥८९॥
तेषां श्रद्धामुदायुक्तः प्रदद्याद्दक्षिणाः पृथक् ॥
ब्राह्मणेभ्यश्च मिष्टान्नं वस्त्रालंकरणानि च ॥९०॥
प्रदद्याच्छ्रद्धया युक्तो दीनानाथांश्च तर्पयेत् ॥
ये द्रष्टुमागताः स्नानं जीवन्मुक्तास्तु ते ध्रुवम् ॥९१॥
तान्यथाशक्ति वै राजा मानयेत्प्रीतये हरेः ॥
स्नानावशेषतोयेन स्नायाद्भद्रासनस्थितः ॥९२॥
नारी वा पुरुषो वापि तस्य पुण्यं वदामि वः ॥
कल्पः स्याच्चिररोगार्तो ह्यपमृत्युं जयेदसौ ॥९३॥
अपुत्रा मृतवत्सा वा वन्ध्या वापि लभेत्सुतम् ॥
सुभगः सर्वलोकानां निर्धनो धनवान्भवेत् ॥९४॥
गुर्विणी लभते पुत्रं दीर्घायुर्गुणवत्तरम्॥
गंगादिसर्वतीर्थानां स्नानजं फलमुच्यते ॥९५॥
स्नानदर्शनजं पुण्यं धर्मात्मा लभते ध्रुवम् ॥९६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्य एकत्रिंशोऽध्यायः ॥३१॥

N/A

References : N/A
Last Updated : October 25, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP