पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ३५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ जैमिनिरुवाच ॥
अतः परं प्रवक्ष्यामि रथरक्षाकरं विधिम्॥
भूतप्रेतादयो घोरा दारुणान्यद्भुतानि च ॥१॥
न बाधंते रथान्येन मुनयो वश्च यन्मतम् ॥
प्रत्यहं पूजयेद्देवान्कृष्णादीन्ध्वजसंस्थितान् ॥२॥
गंधपुष्पाक्षतैर्माल्यैरुपहारैरनुत्तमैः ॥
गीतनृत्तादिकैश्चैव धूपदीपनिवेदनैः ॥३॥
दिक्पालेभ्यो बलिं दद्यात्पायसान्नेन चान्वहम् ॥
भूतप्रेतपिशाचेभ्यो दद्याच्च बलिमुत्तमम् ॥४॥
रक्षेच्च यत्नतस्तान्वै रथानारोहणोचितान् ॥
यथा न कश्चिदारोहेन्नरो ग्राम्यपशुस्तथा ॥
पक्षिणश्च विशेषेण येषां वासो न शोभनः ॥५॥
अष्टमेऽह्नि पुनः कृत्वा दक्षिणाभिमुखान्रथान्॥
विभूषयेद्वस्त्रमाल्यपताकैश्चामरादिभिः ॥६॥
नवम्यां वासयेद्देवांस्तेषु प्रातः समृद्धिमत् ॥७॥
दक्षिणाभिमुखा यात्रा विष्णोरेषा सुदुर्लभा ॥
यात्रा प्रयत्नतः सा हि भक्तिश्रद्धासमन्वितैः ॥८॥
यथा पूर्वा तथा चेयं द्वे च मुक्तिप्रदायिके ॥
यात्राप्रवेशौ देवस्य एक एवोत्सवो मतः ॥९॥
पुराविदो वदंत्येतां यात्रां नवदिनात्मिकाम् ॥
एषा त्र्यवयवा यात्रा संपूर्णा यैरुपासिता ॥१०॥
सुसंपूर्णफलस्तेषां महावेदीमहोत्सवः ॥११॥
गुंडिचामंडपात्कृष्णमायांतं दक्षिणामुखम् ॥
रथस्थं बलिनं भद्रां पश्यंतो मुक्तिभागिनः १२॥
उत्तराभिमुखान्दृदृष्ट्वा लभंते यादृश फलम् ॥
रामादीन्स्यंदनस्थान्ये पश्यंत्येवं महोदयान् ॥
यादृशं फलमाप्नुयुस्तादृशं दक्षिणामुखान् ॥१३॥
पदा यांतं रथे यांतं यः पश्येद्दक्षिणामुखम् ॥
तस्य जन्म कृतार्थं स्याद्वाजिमेधः पदे पदे ॥१४॥
स्तुतिभिः प्रणिपातैश्च पुष्पवृष्टिभिरेव च ॥
नानानृत्तोपहारैश्च व्यजनच्छत्रचामरैः ॥
उपायनैर्बहुविधैरुपतिष्ठेद्रथाग्रतः ॥१५॥
नीलाचलं समायांतं रथस्थं दक्षिणामुखम्
ये पश्यंति हृषीकेशं सुभद्रां लांगलायुधम् ॥१६॥
कामकल्पतरुं पुंसां दर्शनादेव मुक्तिदम् ॥
ते व्रजंति महात्मानो वैकुण्ठ भवनं हरेः ॥१७॥
रथेन विचरंतं तं सिन्धुतीरे जनार्दनम् ॥
पश्यन्तं करुणापांगैः प्रणतान्पुरतो नरान् ॥१८॥
दक्षिणाभिमुखं यांतं प्रासादं नीलभूधरे ॥
सर्वतीर्थनिधिं सर्वदानकल्पतरुं हरिम् ॥१९॥
स्तुवंतः प्रणमंतश्च श्रद्दधानाश्च ये नराः ॥
न ते पुनरिहायांति ब्रह्मलोकस्थिता ध्रुवम्॥ २०॥
मुनयः कथितो वोऽयं महावेदीमहोत्सवः ॥
यस्य संकीर्त्तनादेव निर्मलो जायते नरः ॥२१॥
यश्चेदं कीर्तयेन्नित्यं प्रातरुत्थाय मानवः ॥
शृणुयादपि बुद्धिस्थः शक्रलोकं व्रजेदसौ ॥२२॥
प्रत्यर्चारूपमपि वा रथमास्थाप्य यो हरेः ॥
कुर्याद्यात्रामिमां श्रद्धाभक्तिभावेन मानवः ॥२३॥
सोऽपि विष्णोः प्रसादेन गुंडिचोत्सवजं फलम्॥
प्राप्य वैकुण्ठभवनं याति नात्र विचारणा ॥२४॥
पश्य श्रीर्यावती विप्रा भक्तिर्वा श्रद्धयान्विता ॥
तावतीयं महायात्रा यो यथा कर्तुमिच्छति ॥२५॥
इदं पवित्रं परमं रहस्यं वेधसोदितम् ॥
कारयित्वाथवा दृष्ट्वा यन्नरो नावसीदति ॥२६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये पञ्चत्रिंशोऽध्यायः ॥३५॥
N/A
References : N/A
Last Updated : October 25, 2024
TOP