पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ४०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ जैमिनिरुवाच ॥
मार्गशीर्षे सिते पक्षे षष्ठ्यां प्रावरणोत्सवम् ॥
कृत्वा दृष्ट्वा नरो भक्त्या वैष्णवं लोकमाप्नुयात् ॥१॥
विधानं तस्य वक्ष्यामि शृणुध्वं मुनयोऽधुना ॥
वासोधिवासं कुर्वीत पंचम्यां निशि कर्मवित् ॥२॥
देवाग्रे मंडपे कुर्यात्पद्ममष्टदलान्वितम् ॥
दिक्पालान्पूजयेद्दिक्षु क्षेत्रपालं गणाधिपम् ॥३॥
चंडप्रचंडौ च बहिश्चतुर्दिक्षु प्रपूजयेत् ॥
मध्ये पात्रं समाधाय प्रोक्षयेद्वस्त्रवारिणा ॥४॥
द्युतानस्त्वेति मंत्रेणच्छादयेद्दिव्यवाससा ॥
सुधूपितं वस्त्रजातमेकविंशतिसंख्यकम् ॥५॥
तन्मध्ये स्थापयेन्मंत्रं वैष्णवं च समुच्चरन् ॥
अन्येन वाससा तद्धि समाच्छाद्य प्रयत्नतः ॥६॥
स्पृष्ट्वा जपेन्मंत्रमिमं संस्मरन्पुरुषोत्तमम् ॥
आच्छादको यो जगतां तेजसा विष्णुरव्ययः ॥७॥
वसनात्तस्य वस्त्र त्वं वस वासे जगत्पतेः ॥
इन्द्रघोषस्त्वेति रक्षां विदध्यात्तस्य सर्वतः ॥८॥
पूजयेद्गंधपुष्पाभ्यां ततो देवं प्रपूजयेत् ॥
सर्वलेपं प्रकुर्वीत नृत्यगीतैर्नयेन्निशाम् ॥९॥
ततोऽरुणोदये काले प्रातःसंध्यासमीपतः ॥
पुनः प्रपूजयेद्देवं पूर्ववत्सुसमाहितः ॥१०॥
ततस्तं पूजितं वस्त्रसमूहं बहिरानयेत् ॥
कार्पासपट्टक्षौमाढ्यं तथैवाच्छादितं द्विजाः ॥११॥
छत्रध्वजपताकाभिश्चामरांदोलनैस्तथा ॥
गीतवादित्रनृत्यैश्च प्रसूनोत्किरणेन च ॥१२॥
प्रासादं त्रिः परिभ्रम्य देवं त्रिर्भ्रामयेत्ततः ॥
आच्छादितं तदाकृष्य संस्कुयार्द्वीक्षणादिभिः ॥१३॥
सप्तभिः सप्तभिर्देवान्वासोभिः परिवेष्टयेत् ॥
मुखवर्जं तु सर्वांगं शीतप्रावरणैर्द्विजाः ॥१४॥
तांबूलं च निवेद्याथ कर्पूरलतिकां तथा ॥
दूर्वाक्षतैः प्रपूज्याथ कुर्यान्नीराजनं विभोः ॥१५॥
हिमागमे नृसिंहं ये प्रावृण्वंति सुचेलकैः ॥
पश्यंति प्रावृतिं ये वा न तेषां मोहसंवृतिः ॥१६॥
ते द्वंद्ववातशीतोत्थभयं नाप्नुवते क्वचित् ॥
विष्णोर्देवाधिदेवस्य इमं प्रावरणोत्सवम् ॥१७॥
भक्त्या ये वै प्रपश्यंति सर्वान्कामानवाप्नुयुः ॥
भगवंतं समुद्दिश्य ब्राह्मणेभ्यः प्रदापयेत् ॥१८॥
गुरुभ्यश्चान्यदेवेभ्यो दीनानाथेभ्य एव च ॥
शीतप्रावरणं दद्यात्सत्कृत्य परया मुदा ॥
ददाति भगवान्प्रीतस्तस्मै वरमनुत्तमम्॥१९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये प्रावरणोत्सववर्णनंनाम चत्वारिंशोऽध्यायः ॥४०॥
N/A
References : N/A
Last Updated : October 25, 2024
TOP