पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ३९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ मुनय ऊचुः ॥
मुने त्वत्तः श्रुतं सम्यङ्माहात्म्यं जगदीशितुः ॥
निर्माल्यप्रभृतीनां च यथावदनुपूर्वशः ॥१॥
श्रोतुमिच्छामहे ब्रह्मन्यात्रां तरफलानि वै ॥
शृण्वतां तत्त्वतो ब्रूहि यथोद्देशः कृतः पुरा ॥२॥
॥ जैमिनिरुवाच ॥
सर्वथा वर्त्तते लोकहिताय पुरुषोत्तमः ॥
नानागुणविकासैश्च नानारूपविचेष्टितैः ॥३॥
नानारूपविलासेन नानात्मा च जगन्मयः॥
अहंकारं विना कर्मफलं नो द्विजसत्तमाः॥४॥
अहंकारेण बध्यन्ते कारागारे भवाभिधे ॥
बुद्ध्यहंकारयुक्तस्तु यत्कर्मारभते नरः ॥५॥
तस्य सद्गुणमाप्नोति फलं शुभमथापरम् ॥
बुद्धिस्तु त्रिविधा तेषां गुणभेदेन भाविता ॥६॥
तत्र ये सात्त्विकाः संतः फलावाप्तिपराङ्मुखाः ॥
भगवत्प्रीतये कर्म कुर्वते ते मुमुक्षवः ॥७॥
परस्य स्पर्द्धया कीर्त्यै फलमुद्दिश्य वा पुनः॥
बहुवित्तव्ययायासै राजसं कर्म तन्वते ॥८॥
गतानुगतिका ये च दृष्टार्थैकपरायणाः ॥
प्रसंगात्फलमिच्छंतस्तामसं कर्म कुर्वते ॥९॥
सात्त्विकानां जगन्नाथः सर्वदा सर्वभावनः ॥
ध्यातो दृष्टः स्मृतो वापि मुक्तिदाता न संशयः ॥१०॥
राजसास्तामसा ये वै मूढात्मानः फलैषिणः ॥
उत्सवादिकृतं कर्म मन्यंते फलदायि ते ॥११॥
संभूय बहवो विप्रा आरभंतेऽल्पकं विधिम् ॥
बहुलायासदुःखं यत्कर्म तेषां फलप्रदम् ॥१२॥
तेषामुद्धरणार्थाय विश्वासाय दुरात्मनाम् ॥
यात्रा नानाविधा विप्रा वर्षे वर्षे प्रवर्तयेत् ॥१३॥
जन्मस्नानं महावेद्या उत्सवश्च प्रकीर्तितः ॥
महायात्राद्वयं पुंसां कीर्तनात्पापनाशनम् ॥१४॥
दर्शनं दक्षिणामूर्तेस्तथा च शयनोत्सवः ॥
सर्वपापहरश्चैषामुत्सवो दक्षिणायने ॥१५॥
अतः परं प्रवक्ष्यामि पार्श्वस्य परिवर्तनम् ॥
शयितस्य जगद्भर्तुः परिवर्तयितुर्युगम् ॥१६॥
नभस्य विमले पक्षे संप्राप्ते हरिवासरे ॥
विष्णोः स्वापगृहद्वारि शनैर्गत्वा प्रविश्य च ॥१७॥
नमस्कृत्वा जगन्नाथं पर्यंके शयितं मुदा ॥
अवच्छाद्य शनैर्गत्वा पूजयेदुपचारकैः ॥१८॥
प्रणम्य भक्त्या तत्पादौ गुह्योपनिषदैः स्तुवन् ॥
मन्त्रं चेमं पठन्देवं स्वापयेदुत्तरामुखम् ॥१९॥
देवदेव जगन्नाथ कल्पानां परिवर्तक ॥
परिवृत्तमिदं सर्वं येन स्थावरजंगमम् ॥२०॥
यदिच्छाचेष्टितैरेव जाग्रत्स्वप्नसुषुप्तिभिः ॥
जगद्धिताय सुप्तोऽसि पार्श्वेन परिवर्त्तय ॥२१॥
परिवर्त्तनकालोऽयं जगतः पालनाय ते ॥
तवाज्ञयाऽयं शक्रोऽपि ध्वजे तिष्ठन्समुत्सुकः ॥२२॥
द्रष्टुं त्वत्पादकमलं विमुचञ्जलदैर्जलम् ॥
महीतलं प्लावयति प्रजापालनहेतुकम् ॥२३॥
इति संप्रार्थ्य देवेशं वीप्सया तोषयेत्ततः ॥
व्यजनैश्चामरैश्चैव वीजयेदनुकल्पकृत् ॥२४॥
सुगन्धचन्दनैरस्य सर्वांगं परिलेपयेत् ॥
स्वादूनिक्षुविकारांश्च विकृतैः पायसैस्तथा ॥२५॥
यावकानि च हृद्यानि फलानि विविधानि वै ॥
स्वादूपदंशानन्यांश्च घृतपूपान्सपायसान् ॥२६॥
पक्वतांबूल पत्राणि सोपस्काराणि च द्विजाः ॥
शय्यागृहद्वारि विभोः शनैर्भक्त्या निवेदयेत् ॥२७॥
तस्मिन्दिने हरे रूपं भवेद्यदि महाफलम् ॥
देवमुद्दिश्य यः कुर्यात्सर्वमक्षयतां व्रजेत् ॥२८॥
स्नानं दानं जपो होमस्तपो जागरणं तथा ॥
उपवासश्च नियमो व्रतांते द्विजतर्पणम् ॥२९॥
सांगं व्रतमिदं कृत्वा विष्णुलोकमवाप्नुयात् ॥
यं यं कामयते चित्ते तं तमाप्नोत्यसंशयम् ॥३०॥
अयं वः कथितो विप्राः पार्श्वपर्यायणोत्सवः ॥
अनायासेन लोकानामक्षयः सुखदायकः ॥३१॥
अतः परं वै शृणुत उत्थापनमहोत्सवम् ॥
पूजयित्वा जगन्नाथं कौमुद्याख्ये महोत्सवे ॥३२॥
अक्षक्रीडादिभिः पुष्पवस्त्रमाल्यानुलेपनैः ॥
ततोस्मिन्पौर्णमास्यायां रात्रावुत्सवसंयुतम् ॥३३॥
नारिकेलादिभिर्द्रव्यैः पिष्टकैरर्चयेद्धरिम् ॥
ततः प्रभाते संकल्प्य कार्त्तिके व्रतमुत्तमम् ॥३४॥
व्रतेन तेनैव नयेद्यावदेकादशी सिता ॥
तस्यामुत्थापयेद्देवं सुसुप्तं जगदीश्वरम् ॥३५॥
पूर्ववत्पूजयित्वा तु निशामध्ये जगद्गुरुम् ॥
उत्थापयेदिमं मंत्रमाह्वयञ्छनकैर्मुदा ॥३६॥
उत्तिष्ठ देवदेवेश तेजोराशे जगत्पते ॥
वीक्षस्व सकलं देव प्रसुप्तं तव मायया ॥३७॥
प्रफुल्लपुंडरीकश्रीहारिणा नयनेन वै ॥
त्वया दृष्टं जगदिदं पावित्र्यं परमेष्यति ॥३८॥
श्रौतस्मार्त्ताः क्रियाः सर्वाः प्रवर्तंते ततो ध्रुवम् ॥
इत्युत्थाप्य जगन्नाथं वेणुवीणादिकस्वनैः ॥३९॥
बंदिमागधसूतानां स्तुतिभिर्मंगलस्वनैः ॥
शंखकाहालमुरजवादनैर्नृत्यगीतकैः ॥४०॥
जयशब्दैस्तथा स्तोत्रैर्नयंत्तं नृत्यमण्डपम् ॥
सुगन्धतैलेनाभ्यज्य स्नापयेत्पुरुषोत्तमम् ॥४१॥
पञ्चामृतैर्नारिकेलरसैः फलरसैस्तथा ॥
सुगन्धामलकेनाथ यवकल्केन लेपयेत् ॥४२॥
घर्षयेत्तुलसीचूर्णैर्लेपयेद्गन्धचन्दनैः ॥
पुष्पाधिवासितैस्तोयैस्तथा कर्पूरवासितैः ॥४३॥
कुशोदकै रत्नतोयैस्तथा गंधोदकैस्तथा ॥
स्नाप्यमानं तथा देवं ये पश्यंति मुदान्विताः ॥४४॥
क्षालयन्ति दृढं पंकं बहुजन्मोपपादितम् ॥
ततः श्रीजगदीशस्य क्रोडे संवासयेद्द्विजाः ॥४५॥
आपादान्मूर्धपर्यंतं सर्वागं परिलेपयेत् ॥
कुंकुमागुरुकस्तूरीकर्पूरैश्चंदनान्वितैः ॥४६॥
पाटलोदकसंपिष्टैः कालागुरुरसाप्लुतैः ॥
दत्त्वा च मालतीमाला चन्द्रचूर्णेन संयुताम् ॥४७॥
महोपचारैः संपूज्य विष्णुं नीराजयेत्ततः ॥
कृतांजलिपुटो भूत्वा प्रार्थयेत्परया मुदा ॥४८॥
चराचरमिदं सर्वं त्वदेकशरणं विभो ॥
अनुग्रहामृतालोकैः पावयस्व जगद्गुरो ॥४९॥
नृत्यगीतैः प्रेक्षणकै रात्रिशेषं समापयेत् ॥
शयनादुत्थितं देवं यः पश्यति गदाधरम् ॥५०॥
निद्रां मोहमयीं भित्त्वा ज्योतिः शांतं व्रजंति ते ॥
सर्वान्कामानवाप्नोति यान्यान्कामयते हृदि ॥५१॥
अश्वमेधसहस्रस्य फलं साग्रं लभेत वै ॥
कपिलालंकृताधेनुकोटिदानफलं तथा ॥५२॥
पुण्यं चाप्नोति परमं सर्वतीर्थाभिषेकजम् ॥
कार्त्तिक्यां पारणं कुर्याच्चातुर्मास्यव्रतस्य वै ॥५३॥
दामोदरस्य प्रतिमां स्वर्णनिष्केण निर्मिताम् ॥
यथाशक्तिकृतां वापि शालग्रामशिलास्थिताम् ॥५४॥
चक्रमूर्तिं भगवतः पूजयेत्प्रयतात्मवान् ॥
रचयेन्मण्डपं शुभ्रमेकदेशं गृहस्य वा ॥५५॥
अलंकुर्यात्पुष्पदामचामरैः सवितानकैः ॥
भूमिभित्तीः सुधालेपैः स्तंभैश्चित्रदुकूलकैः ॥५६॥
कालागुरूणां धूपैश्च धूपयेत्तद्गृहं शुभम् ॥
तन्मध्ये मण्डलं कुर्यात्स्वस्तिकं वर्णकैः शुभैः ॥५७॥
तदन्तः स्थापयेत्खट्वां करिदन्तमयीं शुभाम् ॥
पट्टतूलीं तदुपरि वासयेत्पुरुषोत्तमम् ॥५८॥
दामोदराकृतिं शंखपद्मपाणिं चतुर्भुजम् ॥
लक्ष्मीमालिंग्य पद्मस्थां क्रोडस्थां वामपाणिना ॥५९॥
भक्तेभ्यो दातुमुद्यंतं वरं दक्षिणपाणिना ॥
सुनासं सुललाटं च सुनेत्रं सुश्रुतिद्वयम् ॥६०॥
विशालवक्षसं देवं सर्वलावण्यसंयुतम् ॥
सर्वालंकाररुचिरं दिव्यपीतनिचोलिनम् ॥६१॥
लक्ष्मीं पद्मकरां वापि तांबूलं ददतीं तथा ॥
पञ्चामृतैः स्नापयित्वा वासोयुग्मेन वेष्टयेत् ॥६२॥
पूजयेदुपचारैस्तं यथाविभवविस्तरैः ॥
ताम्रदीपान्मृन्मयान्वा ज्वालयेद्गव्यसर्पिषा ॥६३॥
तैलेन वा शतं दीपवृक्षांश्चैव प्रदापयेत् ॥
ब्रह्माणं नारदादींश्च देवर्षींस्तत्र पूजयेत् ॥६४॥
दामोदरस्वरूपान्वै ब्राह्मणानपि पूजयेत् ॥
वस्त्रयुग्मैर्माल्यगन्धैर्भक्ष्यभोज्यफलैस्तथा ॥६५॥
तीर्थराजाभिषेकांगं पूजाकर्म यथोचितम् ॥
दामोदरस्य तेनैव विधिनेहार्चनं भवेत् ॥६६॥
तद्विष्णोरिति मन्त्रेण ब्रह्मादीनपि पूजयेत् ॥
वेणुवीणादिकैर्गीतैः पुराणपठनेन च ॥६७॥
महोत्सवं प्रकुर्वीत ततो जागरणेन च ॥
ततः प्रभाते विमलेऽग्निकार्यं च समाचरेत् ॥६८॥
अष्टाक्षरेण मंत्रेण समिदाज्यचरूनपि ॥
लाजान्मधुसमिन्मिश्राञ्जुहुयाच्च ततः श्रिये ॥६९॥
सूक्तेनाष्टोत्तरशतं ब्रह्मादीनां तदन्ततः ॥
अष्टाहुतीर्वै जुहुयात्क्रमादेकैकशस्तिलैः ॥७०॥
ब्रह्माणं नारदं दक्षं वसिष्ठं गौतमं तथा ॥
सनत्कुमारमत्रिं च भरद्वाजं च कश्यपम् ॥७१॥
दुर्वाससमगस्त्यं च महादेवं ततः परम् ॥
विख्याता वैष्णवा ह्येते विष्णुरूपा न संशयः ॥७२॥
एतान्संपूजयन्विप्रान्विष्णुः प्रीणाति तत्क्षणात् ॥
होमांते प्राशनं कृत्वा दद्यादाचार्यदक्षिणाम् ॥७३॥
सुवर्णभूषितां धेनुं वस्त्रं धान्यं च भक्तितः ॥
प्रीतये वासुदेवस्य भोजयेद्द्विजपुंगवान्॥ ७४॥
सर्वोपचारसहितं दद्याद्दामोदरं ततः ॥७६॥
ॐ दामोदर जगन्नाथ त्वन्मयं विश्वमेव हि ॥
त्वदाधारमिदं सर्वं त्वं धर्मः सर्वभावनः॥
त्वत्प्रसादाद्व्रतं चीर्णं सुसंपूर्णं तदस्तु मे ॥७६॥
दामोदरः प्रदाता च गृहीता च वृषध्वजः॥
प्रदीयते जगन्नाथः प्रीयतां मे जगद्गुरुः॥७७॥
इति मंत्रं जपन्दद्यादाचार्याय सुरोत्तमम्॥
समाप्य पूजयेद्भक्त्या स्तूयात्तं च प्रसादयेत् ॥७८॥
आचार्ये परितुष्टे तु तुष्टो भवति माधवः ॥
तत्तद्द्रव्याणि च ततो दद्याद्विप्रेभ्य एव हि ॥७९॥
ततः स्वयं वै भुंजीत इष्टैः शिष्टैः स्वबंधुभिः ॥
चातुर्मास्यव्रतं चेदं प्रतिष्ठाप्य विधानतः ॥८०॥
यथोक्तफलसंपन्नो विष्णुलोकमवाप्नुयात् ॥
श्रुतिस्मृतिपुराणेषु नातः परतरं व्रतम् ॥८१॥
येनानुष्ठितमात्रेण कृतकृत्यो भवेन्नरः ॥
विष्णोः प्रीतिकरं यादृङ्न तथान्यद्व्रतं द्विजाः ॥८२॥
तिलपात्रसहस्रैस्तु गवां चैवायुतायुतैः ॥
कृष्णाजिनशतेनापि कन्यानामयुतेन च ॥८३॥
दत्त्वा यत्फलमाप्नोति कृत्वैतद्व्रतमुत्तमम् ॥
सार्द्धत्रिकोटितीर्थानामभिषेकफलं तथा ॥८४॥
प्राप्नोति तत्फलं विप्रा यं यं कामयते नरः ॥८५॥
इति श्री स्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये चातुर्मास्यव्रतविधिर्नामैकोनचत्वारिंशोऽध्यायः ॥३९॥
N/A
References : N/A
Last Updated : October 25, 2024
TOP