संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्|

पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ३६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ जैमिनिरुवाच ॥
अतः परं प्रवक्ष्यामि शयनोत्सवमुत्तमम् ॥
आषाढीमवधिं कृत्वा हरेः स्वापस्तु कर्कटे ॥१॥
वार्षिकांश्चतुरो मासान्यावत्स्यात्कार्त्तिकी द्विजाः ॥
अयं पुण्यतमः कालो हरेराराधनं प्रति ॥२॥
काश्यां बहुयुगं वासान्नियमव्रतसंस्थितेः ॥
फलं यदुक्तं तद्विद्यात्क्षेत्रे श्रीपुरुषोत्तमे ॥३॥
चातुर्मास्यदिनैकेन वसतः सन्निधौ हरेः ॥
वार्षिकाणां चतुर्णां तु यान्यहानि वसन्नयेत् ॥४॥
पुण्यक्षेत्रे जगन्नाथसन्निधौ निर्मलांतरे ॥
प्रत्यक्षं वाजिमेधस्य सहस्रस्य लभेत्फलम् ॥५॥
स्नात्वा सिंधुजले पुण्ये दृष्ट्वा श्रीपुरुषोत्तमम् ॥
चातुर्मास्यव्रते तिष्ठन्न शोचति कुतश्चन ॥६॥
चातुर्मास्ये निवसति क्षेत्रे श्रीपुरुषोत्तमे ॥
साक्षाद्दृष्टिर्भगवतस्तद्द्वयं मुक्तिसाधनम् ॥७॥
तस्मात्सर्वाणि संत्यज्य श्रौतस्मार्त्तानि मानवः ॥
प्रयत्नान्निवसेत्पुण्ये क्षेत्रे श्रीपुरुषोत्तमे ॥८॥
भोगिभोगासने सुप्तश्चातुर्मास्येषु वै प्रभुः ॥
सर्व क्षेत्रेषु सान्निध्यं न करोति जगद्गुरुः ॥९॥
अत्र साक्षान्निवसति यथा वैकुण्ठवेश्मनि ॥
द्वादशस्वपि मासेषु भगवानत्र मूर्तिमान् ॥
मुक्तिदश्चक्षुषा दृष्टश्चातुर्मास्ये विशेषतः ॥१०॥
अष्टमासनिवासेन दृष्ट्वा विष्णुं दिने दिने ॥
यदाप्नोति फलं तद्धि चातुर्मास्यदिनैकतः ॥११॥
चातुर्मास्यनिवासेन क्षेत्रे श्रीपुरुषोत्तमे ॥
दिनं दिनं महापुण्यं सर्वक्षत्रनिवासजम् ॥
फलं ददाति भगवान्क्षेत्रे वर्षनिवासतः ॥१२॥
सर्वपापप्रसक्तोऽपि सर्वाचारच्युतोऽपि च ॥
सर्वधर्मबहिर्भूतो निवसेत्पुरुषोत्तमे ॥१३॥
चातुर्मास्यमथेकं यः कुर्याद्वै पापकृन्नरः ॥
विहाय सर्वपापानि बहिरंतश्च निर्मलः ॥१४॥
नरसिंहप्रसादेन वैकुण्ठभवनं व्रजेत् ॥१५॥
तस्मान्नरः सर्वभावैर्विष्णोः शयनभावितान् ॥
वार्षिकांश्चतुरो मासान्निवसेत्पुरुषोत्तमे ॥१६॥
कुर्यादन्यन्न वा कुर्याज्जन्मसाफल्यमृच्छति ॥१७॥
आषाढशुक्लैकादश्यां कुर्यात्स्वापमहोत्सवम् ॥
मण्डपं रचयेत्तत्र शयनागारमुत्तमम् ॥१८॥
देवस्य पुरतः शय्यां रत्नपल्यंकिकोपरि ॥
स्वास्तीर्य सोपधानां तु मृदुचीनोत्तरच्छदाम् ॥१९॥
कर्पूरधूलिविक्षिप्तां साधुचंद्रातपां शुभाम् ॥
सर्वतो वेष्टितां छिद्ररहितां चदनोक्षिताम् ॥२०॥
साधुद्वारां समां स्निग्धां नानाचित्रोपशोभिताम्॥
एकं स्वापगृहं कृत्वा निशीथे प्रतिमात्रयम् ॥२१॥
सौवर्णं राजतं वापि रीतिजं दार्षदं तथा ॥
यथाश्रद्धं प्रकुर्वीत प्रशस्तं चोत्तरोत्तरम् ॥२२॥
तत्त्रयाणां सुराणां वै पादमूले यथातथम् ॥
निधाय पूजूयेद्देवांस्तच्छेषं तेषु निक्षिपेत् ॥२३॥
पूजांते भावयेदैक्य तेषां कृष्णादिभिः सह ॥
एह्येहि भगवन्देव सर्वलोकैकजीवन ॥२४॥
स्वापार्थं चतुरो मासान्सर्वकल्याणवृद्धये ॥
इति संप्रार्थ्य देवेशांस्तदंगात्तत्स्रजां त्रयम् ॥२५॥
 प्रत्यर्चासु विनिक्षिप्य मांगल्यस्तुतिगीतिभिः ॥
नयेच्छय्यागृहद्द्वारं वासयेद्धटिकात्रये ॥२६॥
पंचामृतैः स्नापयेत्तान्पृथक्पलशताधिकैः ॥
सुगन्धचंदनैर्लिप्तान्वस्त्रालंकरणादिभिः ॥२७॥
पूजयित्वा यथान्यायं प्रांजलिर्मंत्रमुच्चरेत् ॥
जगद्वन्द्य जगन्नाथ जगत्त्राणपरायण ॥२८॥
हिताय जगतामीश चातुर्मास्यान्घनागमान् ॥
सुप्त्वा प्रशमयारिष्टाञ्छक्रेण सह पूजितः ॥२९॥
एह्येहि शयनागारं सुखमत्र स्वप प्रभो ॥
इति संप्रार्थ्य देवेशं स्वापयेत्पुरुषोत्तमम् ॥३०॥
सुदृढं बन्धयेद्द्वारं विष्णोः शयनवेश्मनः ॥
स्वापयित्वा जगन्नाथं लभते सुखमुत्तमम् ॥३१॥
वार्षिकांश्चतुरो मासान्प्रसुप्ते वै जनार्दने ॥
व्रतैरनेकैर्नियमैर्मासान्वै चतुरः क्षिपेत् ॥३२॥
कल्पस्थायी विष्णुलोके नरो भक्तो भवेद्ध्रुवम्॥
नियमव्रतानि गदतः शृणुध्वं मुनयो मम ॥३३॥
मंचखट्वादिशयनं वर्जयेद्भक्तिमान्नरः ॥
अनृतौ न व्रजेद्भार्यां मासं मधु परौदनम् ॥३४॥
पटोलं मूलकं चैव वार्ताकं च न भक्षयेत् ॥
अभक्ष्यं वर्जयेद्दूरान्मसूरं सितसर्षपम् ॥३५॥
राजमाषान्कुलत्थांश्च आशुधान्यं च संत्यजेत्॥
शाकं दधि पयो माषाच्छ्रावणादौ क्रमादिमान् ॥३६॥
राजगोपयतींस्त्यक्त्वा नारोहेच्चर्मपादुके ॥
वार्षिकांश्चतुरो मासानव्रतेन नयेद्यदि ॥
तस्य पापस्य शांत्यर्थं कार्तिके वा व्रती भवेत् ॥३७॥
नमः कृष्णाय हरये केशवाय नमोनमः ॥
नमोऽस्तु नारसिंहाय विष्णवे पापजिष्णवे ॥३८॥
सायं प्रातर्दिवामध्ये कर्मांतेषु च योजयेत् ॥३९॥
तस्य पापानि घोराणि चितानि बहुजन्मसु ॥
निर्दहत्येव सर्वाणि तूलराशिमिवानलः ॥४०॥
एकाहारो यताहारो विष्णुनिर्माल्यभोजनः ॥
आषाढीमवधिं कृत्वा कार्तिक्यवधि यो भवेत् ॥
नक्तभोजी भवेद्वापि स्वर्गस्तस्याल्पकं फलम् ॥४१॥
तैलाभ्यंगं दिवास्वापं मृषावादं च वर्जयेत् ॥
आषाढशुक्लैकादश्यां संक्रांतौ कर्कटस्य वा ॥४२॥
आषाढ्यां वा नरो भक्त्या गृह्णीयान्नियमं व्रती ॥
सर्वपापहरं देवं प्रपूज्य मधुसूदनम् ॥४३॥
तदग्रे प्रतिसंकल्प्य व्रतार्चनजपादिकम् ॥
प्रार्थयेत्परमानन्दं कृतांजलिपुटो व्रती ॥४४॥
चातुर्मास्यव्रतं देव गृहीतं त्वत्प्रसादतः ॥
तव प्रसादान्निर्विघ्नं सिद्धिमायातु केशव ॥४५॥
व्रतेस्मिन्यद्यसंपूर्णे परलोकगतिर्भवेत्॥
तन्मे भवतुसंपूर्णं त्वत्प्रसादादधोक्षज ॥४६॥
इति संप्रार्थ्य देवेशं पूर्वोक्तनियमे स्थितः ॥
यापयेच्चतुरो मासान्विष्ण्वर्पित मतिर्व्रती॥४७॥
पारणं प्रतिमासांते प्रीत्यै कृष्णस्य कारयेत् ॥४८॥
मिष्टान्नैर्भोजयेद्विप्रान्पूजयित्वा जगत्पतिम् ॥
असमर्थस्तु कार्तिक्यां पारयेद्व्रतमुत्तमम्॥४९॥
तस्यां पूज्य जगन्नाथं वह्निस्थं तर्पयेत्ततः ॥
द्विजाग्र्यान्पायसैर्मिष्टैर्विष्णुभक्त्या प्रपूजयेत् ॥५०॥
यथाशक्त्या प्रदद्याद्वै कनकं वस्त्रमेव च ॥
अशक्तः कार्तिके मासि व्रतं कुर्यात्पुरोदितम् ॥५१॥
व्रतं च विविधं विष्णोः कृच्छ्रचांद्रायणं तथा ॥५२॥
पयः पीत्वा नयेद्यस्तु शाकाहारेण वा पुनः ॥
भुक्त्वात्र विपुलान्भोगान्परं निर्वाणमृच्छति॥५३॥
तत्रापि चेदशक्तः स्याद्भीष्मपंचकमुत्तमम्॥
प्रीतये देवदेवस्य वन्यवृत्तिर्भवेद्व्रती ॥५४॥
एतद्व्रतं समाख्यातं भगवत्प्रीतिकारकम् ॥
सर्वपापप्रशमनं विष्णुलोकगतिप्रदम् ॥
धन्यं यशस्यमायुष्यं सर्वकामप्रसाधनम् ॥५५॥
मुनयः प्रोक्तमेतद्वो रहस्यं शृणुतापरम् ॥
एतद्व्रतानि चान्यानि व्रतानि सबहूनि च ॥५६॥
भगवद्भक्तिहीनानां जानीध्वं विफलानि वै ॥
फलं महाक्रतूनां यत्तीर्थानां फलमुत्तमम् ॥५७॥
दानानां तपसां चैव सात्त्विकानां च यत्फलम् ॥
एकया विष्णुभक्त्या तत्समग्रं फलमश्नुते ॥५८॥
ये पश्यंति महात्मानः शयनोप्सवमुत्तमम्॥
मातुर्गर्भे न स्वपंति कारयंति च ये महम् ॥५९॥
उत्सवांते व्रतं चेदं प्रतिज्ञाय तदग्रतः ॥
पर्याप्तं पारयित्वा तु ब्रह्मलोके महीयते ॥६०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये षट्त्रिंशोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : October 25, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP