संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्|

पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय १०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ इन्द्रद्युम्न उवाच ॥
जन्मप्रभृति तत्र त्वं न प्रयातो द्विजोत्तम ॥
कथं विद्याद्भवान्दिव्यवृत्तांतं पुरुषोत्तमे ॥१॥
॥ विद्यापतिरुवाच ॥
तत्र स्थितोऽहं सायाह्ने भगवंतमुपागमम् ॥
तस्मिन्काले दिव्यगन्धो ववौ च शिशिरो मरुत् ॥२॥
उद्यतः संकुलः शब्दः श्रूयते स्म वियत्पथे ॥
क्रमाद्याहि प्रयाहीति स तु वर्णमयः स्वनः ॥३॥
दिविष्ठानां पतत्पुष्पवृष्ट्याच्छादितपर्वतः ॥
समागमोऽभूत्सान्निध्ये वैकुंठस्य महीपते ॥४॥
वीणावेणुमृदंगानां चर्चरीणां च निःस्वनः ॥
अभूतपूर्वस्तत्रासीद्दिव्यगानविमिश्रितः ॥५॥
सहस्रमुपचाराणां प्रीतये परमेशितुः ॥
देवैः समर्पितं तत्र मनुष्यादृष्टपूर्वकम् ॥६॥
संपूज्य विधिवद्देवं करमात्रोपलक्षिताः ॥
जयपूर्वैश्च तं स्तोत्रैः संतोष्य मधुसूदनम् ॥७॥
यथागतं ते त्रिदशाः प्रययुस्त्रिदशालयम् ॥
तेषु यातेषु शबरः सखा विश्वावसुर्मम ॥८॥
दिव्योपहारभोज्यानि माल्यं चेदं ददौ मम ॥
अनर्घ्यमेतदम्लानं श्रीराज्यसुखदायकम् ॥९॥
अलक्ष्मीपापरक्षोघ्नं योग्यं तेनाहृतं मया ॥
शृणुष्व तस्य संस्थानं विष्णोर्यत्क्षेत्रमुत्तमम् ॥१०॥
अपूर्वशिल्पनैपुण्यं रूपं चास्य मनोहरम् ॥
न भूमिजन्मना पुंसा शक्यते गदितुं हि तत् ॥१ १॥
तद्भाग्यपौरुषाभ्यां तल्लक्षितं कथयामि ते ॥
समंताद्गहनाकीर्णं क्षेत्रं नीलाद्रिनाभिकम् ॥१२॥
आयामविस्तृतिभ्यां च विख्यातं क्रोशपंचकम् ॥
तीर्थराजस्य वेलायां स्वर्णवालुकयावृतम् ॥१३॥
अद्रेः शृंगे महानुच्चः कल्पस्थायी वटो महान् ॥
क्रोशायतः पुष्पफलवर्जितः पल्लवोज्ज्वलः ॥१४॥
सूर्यापक्रमणे तस्य छायां नापक्रमेत वै ॥
तस्य पश्चात्प्रदेशे हि कुंडं रोहिणसंज्ञकम् ॥१५॥
जलोद्गमान्नीलदृषदारोहणविभूषितम् ॥
बहिः स्फटिकवेदीभिश्चतुर्दिक्षु परीवृतम् ॥१६॥
अघसंघातहारीभिरद्भिः पूर्णं मनोरमम् ॥
तत्पूर्ववेदिकामध्ये न्यग्रोधच्छायशीतले ॥१७॥
इन्द्रनीलमयो देव आस्ते चक्रगदाधरः ॥
एकाशीत्यंगुलमितः स्वर्णपद्मोपरि स्थितः ॥१८॥
अष्टमीचन्द्रशकलशोभाविजयिभालभूः ॥
स्मेरेंदीवरयुग्मश्रीधिक्कारोद्यतलोचनः ॥१९॥
आननामृतभानूद्यत्संतापत्रयमोचनः ॥
नासापुटद्वयोद्भासितिलपुष्पप्रशोभनः ॥२०॥
वपुषोऽश्ममयत्वेऽपि सुस्मितस्रपिताधरः ॥
हाससंफुल्लगंडाभ्यां रुचिरं चिबुकं हनुः ॥२१॥
अनन्यपूर्वघटितं सृक्किणीयुगमंजसा॥
हासनिम्नाधरौ गंडौ चिबुकं सृक्किणी शुभे ॥२२॥
वहन्निदर्शनं देवो विश्वकर्मादिशिल्पिनाम् ॥
मकरास्यकर्णभूषाशोभिश्रुतियुगेन सः ॥२३॥
गुरुभार्गवयोर्मध्ये पूर्णचंद्रोपहासकः ॥
ग्रैवयशोभाजनककंठदेशेन पश्यताम् ॥२४॥
दक्षिणावर्त्तशंखस्य मुक्ताजन्माभिशंककृत् ॥
पीनायतस्कंधयुगजानुदीर्घचतुर्भुजः ॥२५॥
स्वच्छनिर्मलहारोपशोभकोरःस्थलो विभुः ॥
धत्ते चतुर्दशजगद्दिव्यकौस्तुभबिंबितम् ॥२६॥
निम्ननाभिह्रदाविष्टतनुरोमालिमंजुलः ॥
हारं त्रिवलिमध्येन स्थाणुत्वपरिणामकः ॥२७॥
सुरत्नमेखलादाम्ना किंकिणीमौक्तिकस्रजा ॥
जगल्लावण्यपुटके स्फिचौ देवस्य शोभतः ॥२८॥
जघनालंविमुक्तास्रक्पीतचैलोपशोभितम् ॥
जंघास्तंभयुगं मोक्षमांगल्यतोरणाश्रयम् ॥२९॥
वृत्तानुपूर्वजानुभ्यां मालया प्रपदीनया ॥
रत्नाढ्यवलयाभ्यां च शोभेते चरणौ विभोः ॥३०॥
हारकंकणकेयूर मुकुटाद्यैरलंकृतम् ॥
ज्ञानाहंकारकैश्वर्यशब्दब्रह्मणि केशवः ॥३१॥
चक्रपद्मगदाशंखपरिणामानि धारयन् ॥
सर्वाशाद्योतको देवो नीलाद्रेरुपरि स्थितः ॥३२॥
भक्त्या प्रणम्य दृष्ट्वा यं देहबंधात्प्रमुच्यते ॥
वामपार्श्वगता लक्ष्मीराश्लिष्टा पद्मपाणिना ॥३३॥
वल्लकीवादनपरा भगवन्मुखलोचना ॥
सर्वलावण्यवसतिः सर्वालंकारभूषिता ॥३४॥
तावपश्यं हि जगतः पितरावचलस्थितौ ॥
तूष्णींभूतौ स्मेरदृशाऽनुगृह्णंतौ च पश्यतः ॥३५॥
सजीवौ तावबुधं भो दीनानुग्रहकारणात् ॥
छत्रीभूतफणावृंदः शेषः पश्चादवस्थितः ॥३६॥
अग्रे व्यवस्थितं दृष्टं वपुर्बिभ्रत्सुदर्शनम् ॥
कृतांजलिपुटं तस्य पश्चाद्गरुडमास्थितम् ॥३७॥
एवमद्भुतरूपं तं दृष्ट्वा साक्षाच्छ्रियः पतिम् ॥
चेतोरज्जुभिराकृष्टमिव तत्रैव धावति ॥३८॥
अनेकजन्मसाहस्रैः सुकर्माण्यर्जितानि चेत् ॥
युगपत्परिपक्वानि यस्यासौ तं हि पश्यति ॥३९॥
तीर्थस्नानतपोदानदेवयज्ञव्रतैरपि ॥
नालमालोकितुं मर्त्यस्तादृशं पुरुषोत्तमम् ॥४०॥
ये नीलमूर्तिं विमलांबराभं ध्यायंति विष्णुं पुरुषोत्तमस्थम् ॥
ते क्षीणबंधाः प्रविशंति विष्णोः पुरं हि यत्प्राप्य न शोचतीह ॥४१॥
विद्याभिरष्टादशभिः प्रणीतं नानाविधं कर्मफलं नृणां यत् ॥
एकत्र तत्सर्वममुष्य विष्णोः संदर्शनस्यैति शतांशमानम् ॥४२॥
किमत्र वाच्यं त्वधिकं क्षितींद्र पुंसो मतिर्यावदुपैति कामान् ॥
लभेत नीलाद्रिपतिं प्रणम्य ततोऽधिकंक्षेत्रभुवो महिम्ना ॥४३॥
स एव दाता क्रतुभिः स यष्टा सत्यप्रवक्ता स तु धर्मशीलः ॥
सर्वैर्गुणैः सर्वभवैर्वरिष्ठो नीलाद्रिनाथः खलु येन दृष्टः ॥४४॥
तत्र ये सेवकाः संति माधवस्य जगत्पतेः ॥
तेभ्यः सकाशान्माहात्म्यमिदं ज्ञातं मया नृप ॥४५॥
तस्मिन्परंपरायातमादिसृष्टेः पुरातनम् ॥
प्रसिद्धमिदमाख्यानं श्रुत्वा तत्रागतो ह्यहम् ॥४६॥
त्वदाज्ञया तत्र गत्वा दृष्ट्वा श्रीपुरुषोत्तमम् ॥
निवेदितं ते राजेंद्र यथेच्छसि तथा कुरु ॥४७॥
॥ इंद्रद्युम्न उवाच ॥
आप्तवाक्याद्भगवतः श्रुत्वा रूपमघापहम् ॥
कृतकृत्योऽस्मि भगवन्दिव्यनिर्माल्यसंगमात् ॥४८॥
बहुजन्मस्वर्जितानि क्षीणानि दुरितानि मे ॥
अधिकारी त्वहं जातो दर्शने श्रीपतेरिह ॥४९॥
सर्वात्मनाहं यास्यामि राज्येन सुसमृद्धिना ॥
तत्रावासं करिष्यामि पुरदुर्गाणि चैव हि ॥५०॥
क्रतुना हयमेधेन यक्ष्ये प्रीत्यै मुरद्विषः ॥
शतोपचारैः श्रीनाथं पूजयिष्ये दिनेदिने ॥५१॥
व्रतोपवासनियमैः प्रीणयिष्ये जगद्गुरुम् ॥
वाक्यामृतेन संतप्तं यथा मामभिषेक्ष्यति ॥५२॥
दीनानुकंपी भगवान्साक्षान्नारायणो विभुः ॥
एवं स श्रद्धया भक्त्या संस्तुते यावदीश्वरम् ॥५३॥
नारदस्तत्र संप्राप्तो भुवनालोककौतुकी ॥
तमायांतमृषिं दृष्ट्वा वैष्णवाग्र्यं विधेः सुतम् ॥५४॥
आशशंस स्वकार्यस्य सिद्धिं नरपतिस्तदा ॥
उत्थाय सहसा विप्राः पाद्यार्घ्याचमनीयकैः ॥
वरासनस्थं प्रणतः प्रोवाचेदं कृतांजलिः ॥५५॥
॥ इन्द्रद्युम्न उवाच ॥
अद्य मे सफला यज्ञा दानमध्ययनं तपः ॥५६॥
यन्मे गृहं समागच्छद्द्वितीया ब्रह्मणस्तनुः ॥
कृतार्थो यद्यपि मुने आगमानुग्रहात्तव ॥५७॥
तथापि त्वत्प्रसादाय किमाज्ञां करवाणि ते ॥
किं प्रयोजनमुद्दिश्य भवनं मे पवित्रितम् ॥५८॥
॥ जैमिनिरुवाच ॥
तच्छ्रुत्वा नृपतेर्वाक्यं भक्तिप्रश्रयकोमलम् ॥
उवाच ब्रह्मणः पुत्रः स्मितपूर्वं महीपतिम् ॥५९॥
॥नारद उवाच ॥
इंद्रद्युम्न नृपश्रेष्ठ विमलैस्त्वद्गुणोत्करैः ॥
प्रीणिता देवताः सिद्धा मुनयो ब्रह्मणा सह ॥६०॥
स्वप्रतिष्ठा पृथग्योग्या गुणा एकैकशस्तव ॥
ब्रह्मणः सदने स्थित्यै पर्याप्तास्तु समीहिताः ॥६१॥
अवतीर्णो नरं द्रष्टुं तिष्ठंतं बदराश्रमे ॥
तद्ध्यानावसरे ज्ञातो व्यवसायस्तवेदृशः ॥६२॥
साधु व्यवसितं राजन्याभूत्ते बुद्धिरीदृशी ॥
सहस्रजन्मस्वभ्यासाद्भक्तिर्भवति भूपते ॥६३॥
नीलाचलगुहावासे माधवे जगतां धवे ॥
पितामहो महाप्राज्ञो यमाराध्य जगत्पतिम् ॥६४॥
विनिर्ममे सृष्टिमिमां लेभे पैतामहं पदम् ॥
तदन्वयप्रसूतोऽसि युक्ता ते भक्तिरीदृशी ॥६५॥
चतुर्वर्गफला भक्तिर्विष्णौ नाल्पतपःफलम् ॥
अनाद्यविद्या सुदृढपञ्चक्लेशविवर्द्धिनी ॥६६॥
एकैवेयं विष्णुभक्तिस्तदुच्छेदाय जायते ॥
भवारण्ये प्रतिपदं दुःखसंकटसंकुले  ६७॥
नराणां भ्रमतां विष्णुभक्तिरेका सुखप्रदा ॥
निरालये द्वंद्ववातप्रोद्यतेस्मिन्सुदुस्तरे ॥६८॥
निमग्नानां भवांभोधौ विष्णुभक्तिस्तरिः स्मृता ॥
आश्रित्यैकां भगवतीं विष्णुभक्तिं तु मातरम् ॥६९॥
सन्तः सन्तुष्टमनसो न तु शोचन्ति जातुचित् ॥
विष्णुभक्तिसुधापानसंहृष्टानां महात्मनाम् ॥७०॥
ब्राह्म्यं पदं स्वल्पलाभो भाजनानां विमुक्तये ॥
त्रिविधो योंऽहसा राशिः सुमहाञ्जन्मिनां नृप ॥७१॥
विष्णुभक्तिमहादाववह्नौ स शलभायते ॥
प्रयागगंगाप्रमुखतीर्थानि च तपांसि च ॥७२॥
अश्वमेधः क्रतुवरो दानानि सुमहांति च ॥
व्रतोपवासनियमाः सहस्राण्यर्जिता अपि ॥७३॥
समूह एषामेकत्र गुणितः कोटिकोटिभिः ॥
विष्णुभक्तेः सहस्रांशसमोऽसौ न हि कीर्तितः ॥७४॥
॥ जैमिनिरुवाच ॥
विष्णुभक्तेस्तु माहात्म्यं श्रुत्वा ब्रह्मर्षिणोदितम् ॥
विष्णुभक्तेः स्वरूपं हि ज्ञातुकामः क्षितीश्वरः ॥७५॥
नारदं पुनराहेदं वाक्यं सत्कारयुक्तिमान् ॥७६॥
 इन्द्रद्युम्न उवाच ॥
महिमा विष्णुभक्तेस्तु साधु प्रोक्तो महामुने ॥
तस्याः स्वरूप जिज्ञासा चिरान्मे हृदि वर्त्तते ॥७७॥
लक्षणं वर्णयेदानीं भक्तेर्वैष्णवपुंगव ॥
त्वदन्यो न हि वक्ता स्याद्विज्ञातो मे महीतले ॥७८॥
॥ नारद उवाच ॥
साधु राजंस्त्वया पृष्टं भक्तिलक्षणमुत्तमम् ॥
कथयिष्ये यथार्थं त्वां भक्तिभाजनमुत्तमम् ॥७९॥
अपात्रे न हि वाच्येयं नरेंऽधे मलिनांतरे ॥
शृणुष्वावहितो राजन्प्रोच्यमानां मयानघ ॥८०॥
सामान्यतो विशेषाच्च विष्णोर्भक्तिं सनातनीम् ॥
अत्यन्तसुखसंप्राप्तौ विच्छेदे दुःखसंततेः ॥८१॥
हेतुरेकोऽयमेवेति संश्रयाद्भक्तिरुच्यते ॥
त्रिधा सा गुणभेदेन तुरीया निर्गुणा मता ॥८२॥
कामक्रोधाभिभूतानां दृष्ट्वा यान्यं न पश्यताम् ॥
लब्धये चाभिचाराय भक्तिः स्यान्नृप तामसी ॥८३॥
यशसे चातिरिक्ताय परस्य स्पर्द्धयापि वा ॥
प्रसंगात्परलोकाय भक्तिः सा राजसी स्मृता ॥८४॥
आमुष्मिकं स्थिरतरं दृष्ट्वा भावान्विनश्वरान् ॥
पश्यताश्रमवर्णोक्तान्धर्मान्नैव जिहासता ॥८५॥
आत्मज्ञानाय या भक्तिः क्रियते सा तु सात्त्विकी ॥
जगच्चेदं जगन्नाथो नान्यं चापि च कारणम् ॥८६॥
अहं च न ततो भिन्नो मत्तोसौ न पृथक्स्थितः ॥
हीनं बहिरुपाधीनां प्रेमोत्कर्षेण भावनम् ॥८७॥
दुर्लभा भक्तिरैषा हि मुक्तयेऽद्वैतसंज्ञिता ॥
सात्त्विक्या ब्रह्मणः स्थानं राजस्या शक्रलोकताम् ॥८८॥
प्रयांति भुक्त्वा भोगान्हि तामस्या पितृलोकताम् ॥
पुनरागत्य भूर्लोकं भक्तिं तां वैपरीत्यतः ॥८९॥
तामसो राजसीं कुर्याद्राजसः सात्त्विकीं तथा ॥
सात्त्विको मुक्तिमाप्नोति कृत्वा चाद्वैतभावनाम् ॥९०॥
एकामपि समाश्रित्य क्रमान्मुक्तिपथं व्रजेत् ॥
विष्णुभक्तिविहीनस्य श्रौतस्मार्ताश्च याः क्रियाः ॥९१॥
प्रायश्चित्तादिकं तीर्थं यात्रा कृच्छ्रादिकं तपः ॥
कुले प्रसूतिः शिल्पानि सर्वं लौकिकभूषणम् ॥९२॥
कायक्लेशः फलं तेषां स्वैरिणी व्यभिचारवत् ॥
कुलाचारविहीनोऽपि दृढभक्तिर्जितेंद्रियः ॥९३॥
प्रशस्यः सर्वलोकानां न त्वष्टादशविद्यकः ॥
भक्तिहीनो नृपश्रेष्ठ सज्जातिर्द्धार्मिकस्तथा ॥९४॥
नाल्पभाग्यस्य पुंसो हि विष्णौ भक्तिः प्रजायते ॥
यां तु संपाद्य यत्नेन कृतकृत्यो न सीदति ॥९५॥
यया वेत्ति जगन्नाथं सा विद्या परिकीर्तिता ॥
येन प्रीणाति भगवांस्तत्कर्माशुभनाशनम् ॥९६॥
विष्णुभक्तश्च संप्रोक्तस्ताभ्यां युक्तो दृढव्रतः ॥
यत्पादपांसुना विश्वं पूयते सचराचरम् ॥९७॥
सृष्टिस्थितिविनाशानां स्वेच्छया प्रभवत्यसौ ॥
कि पुनः क्षुद्रकामानां भूमिस्वर्गादिसंपदाम् ॥९८॥
वासुदेवस्य भक्तस्य न भेदो विद्यतेऽनयोः ॥
वासुदेवस्य ये भक्तास्तेषां वक्ष्यामि लक्षणम् ॥९९॥
प्रशांतचित्ताः सर्वेषां सौम्याः कामजितेंद्रियाः ॥
कर्मणा मनसा वाचा परद्रोहमनिच्छवः ॥१००॥
दयार्द्रमनसो नित्यं स्तेयहिंसापराङ्मुखाः ॥
गुणेषु परकार्येषु पक्षपातमुदान्विताः ॥१॥
सदाचारावदाताश्च परोत्सवनिजोत्सवाः ॥
पश्यावः सर्वभूतस्थं वासुदेवममत्सराः ॥२॥
दीनानुकंपिनो नित्यं भृशं परहितैषिणः ॥
राजोपचारपूजायां लालनाः स्वकुमारवत् ॥३॥
कृष्णसर्पादिव भयं बाह्ये परिचरंति ते ॥
विषयेष्वविवेकानां या प्रीतिरुपजायते ॥४॥
वितन्वते तु तां प्रीतिं शतकोटिगुणां हरौ ॥
नित्यकर्तव्यताबुद्ध्या यजंतः शंकरादिकान् ॥५॥
विष्णुस्वरूपान्ध्यायंति भक्त्या पितृगणेष्वपि ॥
विष्णोरन्यं न पश्यंति विष्णुं नान्यत्पृथग्गतम् ॥६॥
पार्थक्यं न च पार्थक्यं समष्टिव्यष्टिरूपिणः ॥
जगन्नाथ तवास्मीति दासस्त्वं चास्मि नो पृथक् ॥७॥
अन्तर्यामी यदा देवः सर्वेषां हृदि संस्थितः ॥
सेव्यो वा सेवको वापि त्वत्तो नान्योऽस्ति कश्चन ॥८॥
इति भावनया कृतावधानाः प्रणमंतः सततं च कीर्त्तयंतः ॥
हरिमब्जजवन्द्यपादपद्मं प्रभजंतस्तृणवज्जगज्जनेषु ॥९॥
उपकृतिकुशला जगत्स्वजस्रं परकुशलानि निजानि मन्यमानाः ॥
अपि परपरिभावने दयार्द्राः शिवमनसः खलु वैष्णवाः प्रसिद्धाः ॥११०॥
दृषदि परधने च लोष्टखंडे परवनितासु च कूटशाल्मलीषु ॥
सखिरिपुसहजेषु बन्धुवर्गे सममतयः खलु वैष्णवाः प्रसिद्धाः ॥१३॥
हरिचरणसरोजयुग्मचित्ता जडिमधियः सुखदुःखसाम्यरूपाः ॥
अपचितिचतुरा हरौ निजात्मनतवचसः खलु वैष्णवाः प्रसिद्धाः ॥१४॥
रथचरणगदाब्जशंखमुद्राकृतितिलकांकितबाहुमूलमध्याः ॥
मुररिपुचरणप्रणामधूलीधृतकवचाः खलु वैष्णवा जयंति ॥१५॥
मुरजिदपधनापकृष्टगन्धोत्तमतुलसीदलमाल्यचंदनैर्ये ॥
वरयितुमिव मुक्तिमाप्तभूषाकृतिरुचिराः खलु वैष्णवा जयंति ॥१६॥
विगलितमदमानशुद्धचित्ताः प्रसभविनस्यदहंकृतिप्रशांताः ॥
नरहरिममराप्तबंधुमिष्ट्वा क्षयितशुचः खलु वैष्णवा जयंति ॥१७॥
भगवति सततं प्रभक्तिभाजां शुभचरितं तव लक्ष्म नोभ्यधायि ॥
श्रुतिपथभवतीर्णमाशु पुंसां हरति मलं चिरसंचितं यदेतत् ॥१६॥
न हि धनमपि मृग्यते कदाचिन्न खलु शरीरजखेदसंप्रयोगः ॥
मृदुलघुवचसाभिधानकीर्तिं भजनमहं तव दास्य एव चिंता ॥१९॥
शुभचरितमपि द्विषंति पुंसां स्वयमिह दुश्चरितानुबंधचित्ताः ॥
महदकुशलमप्यवाप्य सुस्था भगरसरसिका अवैष्णवास्ते ॥१२ ०॥
परमसुखपदं हृदंबुजस्थं क्षणमपि नानुसज्जंति मत्तभावाः ॥
वितथवचनजालकैरजस्रं पिदधति नाम हरेरवैष्णवास्ते ॥२१॥
परयुवतिधनेषु नित्यलुब्धाः कृपणधियो निजकुक्षिभारपूर्णाः॥
नियतपरमहत्त्वमन्यमाना नरपशवः खलु विष्णुभक्तिहीनाः ॥२२॥
अनवरतमनार्यसंगरक्ताः परपरिभावकहिंसकाऽतिरौद्राः ॥
नरहरिचरणस्मृतौ विरक्ता नरमलिनाः खलु दूरतो हि वर्ज्याः ॥१२३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : October 02, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP