संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्|

पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय २९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ जैमिनिरुवाच ॥
इत्युक्त्वा नृपशार्दूलं लोकसंग्रहणाय वै ॥
सिंहाकृति स हृदये उद्वास्य कमलासनः ॥१॥
पूर्वं प्रकाशरूपं यद्विष्णोस्तु प्रकटीकृतम् ॥
रथावरोहणे दृष्टाश्चतस्रो मूर्त्तयः पुरा ॥२॥
ता एव सिंहासनगाः सर्वे ते ददृशुः पुनः ॥
द्विषडक्षरमन्त्रेण बलभद्रमपूजयत् ॥३॥
सूक्तेन पौरुषेणैनं नारायणमनामयम् ॥
देवीसूक्तेन चक्रं च द्वादशाक्षरकेण च ॥
पूजयित्वानुग्रहाय पार्थिवस्य न्यवेदयत् ॥४॥
॥ ब्रह्मोवाच ॥
भगवन्देवदेवेश भक्तानुग्रहकारक ॥
इन्द्रद्युम्नस्य जन्मानि त्वयि भक्तिं प्रकुर्वतः ॥
सहस्रं समतीतानि तदन्ते त्वामलोकयत् ॥५॥
त्वद्दर्शनं हि भगवंस्त्वयि सायुज्यकारणम् ॥
यद्यप्ययं भक्तियोगेनेच्छति त्वां समर्चितुम् ॥६॥
तदाज्ञापय येन त्वां भक्तियोगेन भावयेत् ॥
देशकालव्रताद्यैस्तु तथा नानोपचारकैः ॥७॥
त्वन्मुखांभोजगलितमाज्ञामृतरसं नृपः ॥
पिपासुस्त्वां जगन्नाथ पश्यत्येषोऽनिमेषकम्॥८॥
॥ जैमिनिरुवाच ॥
इति विज्ञापितो देवः साक्षात्कमलयोनिना ॥
दारुदेहोऽपि विहसन्प्राह गंभीरया गिरा ॥९॥
॥ श्रीप्रतिमोवाच ॥
इन्द्रद्युम्न प्रसन्नस्ते भक्त्या निष्कामकर्मभिः ॥
त्वदन्येनेदृशी संपन्न केनाप्यपवर्जिता ॥१०॥
वरं ददामि ते भूप मयि भक्तिः स्थिराऽस्तु ते ॥
उत्सृज्य वित्तकोटीस्तु यन्ममायतनं कृतम् ॥११॥
भंगेप्येतस्य राजेंद्र स्थानं न त्यज्यते मया ॥
कालांतरेऽपि योऽप्यन्यः प्रासादं कारयिष्यति ॥१२॥
तवैव कीर्त्तिः सा नूनं त्वत्प्रीत्या तत्र मे स्थितिः ॥
सत्यं सत्यं पुनः सत्यं सत्यमेव ब्रवीमि ते ॥१३॥
प्रासाद भंगे तत्स्थानं न त्यक्ष्यामि कदाचन ॥
अनेन दारुवपुषा स्थास्याम्यत्र परार्द्धकम् ॥१४॥
द्वितीयं पद्मयोनेस्तु यावत्परिसमाप्यते ॥
मनोः स्वायंभुवस्यास्य द्वितीये च चतुर्युगे ॥१५॥
कृतस्य प्रथमे ज्येष्ठे दशेति क्रतुसंस्थितिः ॥
ज्यैष्ठ्यामहं चावतीर्णस्तत्पुण्यजन्मवासरम् ॥१६॥
तस्यां मे स्नपनं कुर्यान्महास्नानविधानतः ॥
प्रत्यर्चायां महाराज साधिवासं समृद्धिमत् ॥१७॥
पापं विनाशयिष्यामि कोटिजन्मभिरर्जितम् ॥
सर्वतीर्थक्रतुफलं सर्वदानफलं तथा ॥१८॥
पश्यतां चापि राजेंद्र फलं तावत्प्रपद्यते ॥
न्यग्रोधादुत्तरे कूपः सर्वतीर्थमयोऽस्ति हि ॥१९॥
स्नानाय पूर्वं निर्माय किंचिदाच्छादितं भुवा ॥
अवतीर्णस्त्वहं पश्चात्तं विविच्य प्रकाशय ॥२०॥
संस्कार्यः स चतुर्दश्यां बलिं दत्त्वा विधानतः ॥
रक्षकक्षेत्रपालाय दिशांपालेभ्य एव च ॥२१॥
कम्बुकाहालमुरजध्वनिषु सुस्वरेषु च ॥
द्विजातयः स्वर्णकुम्भैरुद्धरेयुस्ततो जलम् ॥२२॥
ज्यैष्ठ्यां प्रातस्तने काले ब्रह्मणा सहितं च माम् ॥
रामं सुभद्रां संस्नाप्य मम लोकमवाप्नुयात् ॥२३॥
स्नाप्यमानं तु यः पश्येन्मां तदा नृपसत्तम ॥
देहबन्धं च नाप्नोति स पुनर्न तु पूरुषः ॥२४॥
कारयित्वा दृढं मंचमैशान्यां दिशि मंडितम् ॥
वितानशोभारचितं चंदनांभः समुक्षितम् ॥२५॥
तत्र मां रामभद्राभ्यां स्नापयित्वा पुनर्नयेत् ॥२६॥
दक्षिणाभिमुखं यांतं यो मां पश्यति भक्तितः ॥
तत्तद्ध्रुवमवाप्नोति मनसा यद्यदिच्छति ॥२७॥
ततः पंचदशाहानि स्थापयित्वा तु मां नृप ॥
विरूपमभिरूपं वा न पश्येत्तु कदाचन ॥२८॥
ज्येष्ठस्नानमिदं कृत्वा सर्वपापैः प्रमुच्यते ॥२९॥
गुंडिचाख्यां महायात्रां प्रकुर्वीयाः क्षितीश्वर ॥
यस्याः संकीर्तनादेव नरः पापाद्विमुच्यते ॥३०॥
माघमासस्य पंचम्यामष्टम्यां चैत्रशुक्लके ॥
एते कालाः प्रशस्ता हि गुंडिचाख्यमहोत्सवे ॥३१॥
विशेषान्मोक्षदाषाढद्वितीया पुष्यसंयुता ॥
ऋक्षाभावे तिथौ कार्या सदा सा प्रीतये मम ॥३२॥
आषाढस्य सिते पक्षे द्वितीया पुष्यसंयुता ॥
तस्यां रथे समारोप्य रामं मां भद्रया सह ॥३३॥
महोत्सवप्रवृत्त्यर्थं प्रीणयित्वा द्विजान्बहून् ॥
गुंडिचामण्डपंनाम यत्राहमजनं पुरा ॥३४॥
अश्वमेधसहस्रस्य महावेदी तदाभवत् ॥
तस्याः पुण्यतमं स्थानं पृथिव्यां नेह विद्यते ॥३५॥
यत्राजुहोः पंचशतवर्षाणि प्रीतये मम ॥
मम प्रीतिकरं स्थानं तस्मान्नान्यद्धरागतम् ॥३६॥
यथेयं नीलशिखरा प्रासादेन तवाधुना ॥
चतुर्मुखानुरोधेन महाप्रीतिकरी मम ॥३७॥
तथा नृसिंहक्षेत्रे वै महावेदी तव क्रतोः ॥
ममोत्पत्तेश्च निलयं प्रीतिकृन्मम शाश्वतम् ॥३५॥
बहुकालं स्थितश्चाहं तस्यां मे प्रीतिरुत्तमा ॥
आत्मा मे पद्मभूरेष प्रासादे स्थापितोऽमुना ॥३९॥
अस्यानुरोधात्त्वद्भक्त्या ह्यवतिष्ठेऽत्र नित्यदा ॥
दिनानि नव यास्यामि तथा तस्मादिहागतः ॥४०॥
तत्रास्ति ते महाराज सर्वतीर्थमयं सरः ॥
तत्तीरे सप्तदिवसान्स्थास्याम्यनुजिघृक्षया ॥४१॥
तत्र स्थितं मां पश्यंतो यांति मर्त्या ममालयम् ॥
तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां भुवनत्रये ॥४२॥
तानि सर्वाणि सरसि मत्सान्निध्याद्व्रजंति ते ॥
तत्र स्नात्वा च विधिवद्दृष्ट्वा मां भक्तिभावतः ॥४३॥
जननीजठरे क्लेशं पुनर्नानुभवंति हि ॥
नवमेऽह्नि समायातं दक्षिणाशामुखं तदा ॥४४॥
ये पश्यन्ति प्रतिपदमश्वमेधक्रतोः फलम् ॥
प्राप्य भोगानिंद्रसमान्भुक्त्वान्ते मां विशंति ते ॥४५॥
ममोत्थानं मम स्वापं मत्पार्श्वपरिवर्त्तनम् ॥
मार्गप्रावरणं चैव पुष्यस्नानमहोत्सवम् ॥४६॥
फाल्गुन्यां क्रीडनं कुर्याद्दोलायां मम भूमिप ॥
दोलायां येऽपि पश्यंति दक्षिणामुखपूजितम् ॥४७॥
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥४८॥
अनयोर्मां समभ्यर्च्य दृष्ट्वा मां प्रणिपत्य च ॥
प्रत्येकमष्टसाहस्रं वाजिमेधफलं लभेत् ॥४९॥
चैत्रे सितत्रयोदश्यां कुर्यात्कर्मप्रपूरणम् ॥
चैत्रे मासि चतुर्दश्यां दमनैर्मे प्रपूजनम् ॥
शुक्लपक्षे तु ये लोकाः सर्वपापक्षयो भवेत् ॥५०॥
वैशाखस्य सिते पक्षे तृतीयाऽक्षयसंज्ञिता ॥
तत्र मां लेपयेद्गन्धलेपनैरतिशोभनैः ॥५१॥
प्रीतये मम ये कुर्युरुत्सवान्मम शाश्वतान् ॥
चतुर्वर्गप्रदा ह्येते प्रत्येकं परिकीर्तिताः ॥५२॥
॥ जैमिनिरुवाच ॥
इति दत्त्वा वरं तस्मा इन्द्रद्युम्नाय भो द्विजाः ॥
ब्रह्माणमाह भगवान्स्मेरांभोरुहसन्मुखः॥ ५३॥
चतुर्मुख तव प्रीत्यै सर्वं संपादितं मया ॥
त्वदिच्छा हि ममैवेच्छा न भेदो ह्यावयोर्ध्रुवम् ॥५४॥
यन्मां माधवमूर्तिं त्वं पुरा प्रार्थितवानसि ॥
तस्यैव परिपाकोऽयमवतारः कृतो मया ॥५५॥
मामत्र दृष्ट्वा त्वभ्यर्च्य प्राणान्संत्यज्य मुच्यते ॥
क्रमात्सर्वे त्वया सार्द्धं भूयः सायुज्यमेव च ॥५६॥
यद्वाचाभिलपन्मर्त्यो मामत्र हि निषेवते ॥
अवश्यं तदवाप्नोति संगत्या चात्र भूपतिः ॥५७॥
व्रजेदानीं सत्यलोकं त्रिदिवं यांतु देवताः॥
तवायुःपूर्णिपर्यंतमहमत्र स्थितो ध्रुवम् ॥५८॥
ततस्ते हर्षिताः सर्वे ब्रह्मर्षिसुरसत्तमाः ॥
प्रणम्य शिरसा देवं जग्मुस्ते निलयं स्वकम् ॥५९॥
देवोऽपि च जगन्नाथः प्रतिमारूपधृक्तदा ॥
तूष्णीं तिष्ठति सर्वेषां हर्षमापादयन्नृणाम्॥६०॥
इन्द्रद्युम्नोऽपि धर्मात्मा विष्णुभक्तो दृढव्रतः ॥
अनुव्रजन्पद्मयोनिं तेनादिष्टो न्यवर्तत ॥६१॥
यात्राः सर्वा भगवता आज्ञप्ताः साधु कारय ॥
अस्मिंस्तुष्टे जगन्नाथे सन्तुष्टं वै चराचरम्॥६२॥
इत्याज्ञां पद्मयोनेस्तु मूर्ध्न्याधाय क्षितीश्वरः ॥
नारदेन सह श्रीमान्निधिना च समृद्धिमत् ॥
ज्येष्ठस्नानादिकं सर्वमुत्सवं निरवर्तयत् ॥६३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्य एकोनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : October 13, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP