पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय २

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ जैमिनिरुवाच ॥
ततो ब्रह्मागमत्तूर्णं यत्रास्ते भगवान्स्वयम् ॥
स्तवान्तेऽसौ यथा दृष्टस्तथाद्राक्षीत्प्रभुं तदा ॥१॥
प्रत्यभिज्ञानसंहृष्टस्तं दृष्ट्वा परमेश्वरम् ॥
अत्यद्भुतज्ञाननिधिर्बभूवासौ द्विजोत्तमाः ॥२॥
यावत्स्तोतुं समारेभे हर्षसंफुल्ललोचनः ॥
तावदेव समागत्य कुतश्चिद्वायसोत्तमः ॥३॥
कारुण्योदकसंपूर्णे तस्मिन्कुण्डे निमज्य तम् ॥
विलोक्य माधवं नीलरत्नकांतिं कृपानिधिम् ॥४॥
काकदेहं समुत्सृज्य लुठमानो मुहुः क्षितौ ॥
शंखचक्रगदापाणिस्तस्य पार्श्वे व्यवस्थितः ॥५॥
तिरश्चस्तां गतिं दृष्ट्वा योगींद्राणां सुदुर्लभाम् ॥
मेनेऽसौ मुनयः सृष्टिः क्रमात्क्षीणा भविष्यति ॥६॥
मनुष्याधिकृते मुक्तौ वेदांते संशयोऽभवत्॥
न किंचिद्दुर्लभं चेह विष्णुभक्तस्य विद्यते ॥७॥
प्रत्यक्षोऽभूद्द्विजश्रेष्ठाः पुराणपुरुषोदिते ॥
संकीर्त्य यन्नाम नरः सर्वपापैः प्रमुच्यते ॥८॥
तस्य संदर्शने विप्रा मुक्तिः किं खलु दुर्लभा ॥
मनसा ध्याययन्विष्णुं त्यजन्प्राणान्विमुच्यते ॥९॥
साक्षात्कृतो भगवतः किं चित्रं मुक्तिमेति यत् ॥
पुरुषोत्तमसंज्ञस्य क्षेत्रस्य महिमाद्भुतः ॥१०॥
यत्र काकोऽपि च हरिं साक्षात्पश्यति भो द्विजाः ॥
सुदुर्लभं क्षेत्रमिदमज्ञानां च विमोचनम् ॥
अहो क्षेत्रस्य माहात्म्यं काकस्यापि विमुक्तिदम् ॥
किं पुनः सततं शांति वैराग्यज्ञानसंयुजाम् ॥११॥
॥ ऋषय ऊचुः ॥
नीलाख्यं माधवं दृष्ट्वा किं चकार पितामहः ॥१२॥
तद्दर्शने क्षणान्नष्टदेहबन्धं च वायसम् ॥१३॥
॥ जैमिनिरुवाच ॥
अत्यद्भुतमयं दृष्ट्वा यावद्ध्यायति माधवम् ॥
तावत्पितृपतिः स्वाधिकारसंयमनाकुलः ॥१४॥
दीनाननो निःश्वसन्वै तत्र यातस्त्वरान्वितः ॥
नीलाद्रौ माधवं दृष्ट्वा साऽष्टांगं प्रणिपत्य च ॥१५॥
तुष्टाव स जगन्नाथं स्वाधिकारदृढस्थितौ ॥
॥ यम उवाच ॥
नमस्ते देवदेवेश सृष्टिस्थित्यन्तकारण ॥१६॥
त्वयि प्रोतमिदं सर्वं सूत्रे मणिगणा यथा ॥
त्वया धृतं त्वया सृष्टं त्वया चाप्यायितं जगत् ॥१७॥
चन्द्रसूर्यादिरूपेण नित्यं भासयसेऽखिलम् ॥
विश्वेश्वरं जगद्योनिं विश्वावासं जगद्गुरुम् ॥१८॥
विश्वसाक्षिणमाद्यन्तवर्जितं प्रणमाम्यहम् ॥
नमः परमकारुण्यजलसंभृतसिन्धवे ॥१९॥
परापरपरातीतविभवे विश्वसंभवे ॥२०॥
भवसंतापनीहारभानवे दीनबन्धवे ॥
स्वमायारचिताशेष भवे गुणरज्जवे ॥२१॥
नमः कमलकिंजल्क पीतनिर्मलवाससे ॥
महाहवरिपुस्कन्ध कृंतचक्राय चक्रिणे ॥२२॥
दंष्ट्रोद्धृत क्षितिभृते त्रयीमूर्तिमते नमः ॥
नमो यज्ञवराहाय चन्द्रसूर्याग्निचक्षुषे ॥२३॥
नरसिंहाय दंष्ट्रोग्रमूर्तिद्रावितशत्रवे ॥
यदपांगविलासैक सृष्टिस्थित्युपसंहृतिः ॥२४॥
उच्चावचात्मको ह्येष भवः संभवते मुहुः ॥
तममुं नीलमेघाभं नीलाश्ममणिविग्रहम् ॥२५॥
नीलाचलगुहावासं प्रणमामि कृपानिधिम् ॥
शंखचक्रगदापद्मधारिणं शुभदायिनम् ॥२६॥
प्रणताशेषपापौघदारिणं मुरवैरिणम् ॥
नमस्ते कमलापांग संगसंस्कारचक्षुषे ॥२७॥
श्रीवत्सकौस्तुभोद्भासि मनोहृद्व्यूढवक्षसे ॥
यत्पादपंकजद्वंद्वसंश्रयैश्वर्यभागिनी ॥२८॥
श्रीः संश्रिता जनैः शश्वत्पृथगैश्वर्यदायिनी ॥
या परापरसंभिन्ना प्रकृतिस्ते सिसृक्षया ॥२९॥
निर्विकारं परं ब्रह्म विकारि ससृजेंऽजसा॥
सर्वलक्षणसंपूर्णा लक्षितां शुभलक्षणैः ॥
लक्ष्मीशोरसि नित्यस्था लक्ष्मीं तां प्रणमाम्यहम् ॥३०॥
॥ जैमिनिरुवाच ॥
तदेवं धर्मराजेन श्रीकांतः परितोषितः ॥
पार्श्वस्थां वल्लकीहस्तां नेत्रांतेनादिशच्छ्रियम् ॥३१॥
तेन संभाविता लक्ष्मीर्भवदुःखविनाशिनी ॥
शुभाय सर्वलोकानां यमं प्रोवाच लीलया ३२॥
॥ लक्ष्मीरुवाच ॥
यदर्थमावां संस्तौषि क्षेत्रेस्मिन्दुर्लभं हि तत् ॥
अत्याज्यमावयोरेतत्क्षेत्रं श्रीपुरुषोत्तमम् ॥३३॥
कल्पावसानेप्यावां वै ध्रियेते परमेष्ठिना ॥
ब्रह्मादिदिक्प्रभूणां हि स्वामित्वं नेह विद्यते ॥३४॥
नेह कर्मपरीपाकाः संभवंति कदाचन॥
अत्र प्रवसतां नृणां तिरश्चामपि दुष्कृताम्॥ ३५॥
दह्यते ज्वलिताग्नौ हि तूलराशिर्यथा भृशम् ॥
ये बद्धा पापपुण्याभ्यां निगडाभ्यामहर्निशम् ॥३६॥
तेषां संयमिता त्वं हि यमः पूर्वं विनिर्मितः ॥
अत्र साक्षाद्वपुष्मंतं नीलेन्द्रमणिमंजुलम् ॥३७॥
दृष्ट्वा नारायणं देवं मुच्यते कर्मबन्धनात् ॥
अतोऽन्यतः कर्मभूमौ प्रभुत्वं सूर्यसंभव ॥३८॥
वैक्लव्यं क्षेत्रराजेस्मिन्मा गास्त्वं यम संयमे ॥
तवापि भगवानेष विधाता प्रपितामहः ॥३९॥
तिर्यंचं विष्णुसारूप्यं प्राप्तं पश्यति कौतुकात् ॥
एष कर्मपरीपाकं सर्वेषां वेत्ति कंजजः ॥४०॥
ज्ञात्वा क्षेत्रस्य माहात्म्यं स्तौति देवं गदाधरम्॥
त्वद्वशं गंतुमुचिता नेह तिष्ठंति जंतवः ॥४१॥
वैवस्वत वसंत्यत्र जीवन्मुक्ता मुमुक्षवः ॥
तया संबोधितस्त्वेवं विष्णुना स्त्रीस्वरूपिणा ॥
ततोऽहंकारलज्जाभ्यां विनीतः प्राब्रवीद्यमः ॥४२॥
॥ यम उवाच ॥
मातस्त्वया यदाज्ञप्तं पुरा नैतन्मया श्रुतम् ॥४३॥
अज्ञानोपहतो वेद्मि रहस्यं कथमुत्तमम् ॥
यस्य स्वरूपं वेदाश्च न च वेत्ति पितामहः॥४४॥
महिमानं कथं तस्य वेद्म्यहंकार मोहितः॥
यदादिष्टं सुरेशानि क्षेत्रमेतद्विमु्क्तिदम्॥४५॥
सान्निध्याद्वासुदेवस्य ईश्वरेच्छा निरंकुशा॥
अन्यत्र बन्धदो विष्णुरत्र मोक्षं ददाति यत् ॥४६॥
ममापि निरयाणां च स्रष्टासौ त्रिदिवस्य च॥
मृतानामत्र मुक्तिश्चेत्तन्मामंब सुविस्तरम्॥४७॥
क्षेत्रसंस्थाप्रमाणं हि तत्र स्थिति फलं हि यत् ॥
तीर्थानि कानि संत्यत्र किमन्यद्वा रहस्यकम् ॥४८॥
किमधिष्ठातृकं क्षेत्रं तत्सर्वं कथयस्व मे ॥
तदहं संपरित्यज्य निर्भयः संचरे यथा ॥४९॥
इति श्रीस्कांदे महापुराण एकाशातिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : September 30, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP