पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय १६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ जैमिनिरुवाच ॥
नृपं सुमनसं दृष्ट्वा श्रद्दधानं महाक्रतौ ॥
उवाच परमप्रीत्या नारदो लोकहर्षणः ॥१॥
व्यवसाये सुकृतिनां देवा यांति सहायताम् ॥
तत्रोदाहरणं त्वं हि यत्सहायश्चतुर्मुखः ॥२॥
तदेहि यामस्तत्रैव नीलकंठस्य सन्निधौ ॥
सर्वराक्षससंहारं सर्वविघ्ननिवारणम् ॥३॥
स्थापयाम्यग्रतो राजन्नृसिंहं वारुणीमुखम् ॥
अंतर्हितो हि भगवान्प्रत्यक्षोऽसौ नृकेसरी ॥४॥
सन्निधावस्य यागस्तु फलातिशयवान्भवेत् ॥
त्वमग्रतो गच्छ शीघ्रं प्रासादं तत्र कारय ॥५॥
स्मरणान्मम चागत्य सुतो वै विश्वकर्मणः ॥
प्रत्यङ्मुखं तु प्रासादं स तूर्णं घटयिष्यति ॥६॥
दक्षिणे नीलकंठस्य यो महांश्चंदनद्रुमः ॥
धनुःशतांतरे राजंश्चिररूढस्तु तिष्ठति ॥७॥
तस्य पश्चिमदेशस्थं क्षेत्रं राजन्भविष्यति ॥
वाजिमेधसहस्रेण तस्याग्रे यजतां भवान् ॥८॥
गच्छ त्वमहमत्रैव स्थास्यामि दिनपञ्चकम् ॥
आराध्यैनं दिव्यसिंहं ज्योतीरूपमनन्तकम् ॥९॥
प्रत्यर्चायां प्रतिष्ठाप्य प्राणेंद्रियमनोयुतम् ॥
दीपाद्दीपं यथा राजन्नयिष्ये शोभनाकृतिम् ॥१०॥
नारदस्येति वचनं प्रतिश्रुत्य नृपोत्तमः ॥
जगाम तत्र वेगेन चन्दनद्रुमसंनिधिम् ॥११॥
तत्रापश्यत्सुघटकं शिल्पशास्त्रविशारदम् ॥
नारदस्याज्ञया प्राप्तं पुत्रं वै देवशिल्पिनः ॥१२॥
मनुष्यरूपमास्थाय शस्त्रसूत्रधरं स्थितम् ॥
राजानं स तु दृष्ट्वा वै चिकीर्षंतं सुरालयम् ॥१३॥
कृतांजलिपुटः प्रोचे देवाहं शिल्पशास्त्रवित् ॥
नरसिंहालयं तेऽद्य घटयिष्यामि शोभनम् ॥
राजापि तमुवाचेदं प्रहसन्भो द्विजोत्तमाः ॥१४॥
॥ इन्द्रद्युम्न उवाच ॥
न शिल्पी त्वं हि सामान्यः शिल्पशास्त्रप्रणेतृकः ॥
कथितो नारदेनैव त्वष्टुः पुत्रो महायशाः ॥१५॥
निर्जनेऽस्मिन्महारण्ये नेतः पूर्वं जनाश्रयः ॥
वयमद्यागताः शिल्पिन्सम्बन्धः किंनिमित्तकः ॥१६॥
देवशिल्पी भवानेव विष्णोरमिततेजसः ॥
सदानुध्यायिनस्तस्य निदेशवशवर्तिनः ॥१७॥
येन स्मृतस्त्वं मुनिना स एवात्रागमिष्यति ॥
प्रत्यर्चां नरसिंहस्य गृहीत्वा तु दिनांतरे ॥१८॥
तदाशु घटयस्वाद्य सप्राकारं सतोरणम् ॥
प्रासादं नरसिंहस्य प्रतीचीवदनं शुभम् ॥१९॥
तं पूजयित्वा विधिवन्नियोज्य घटने नृपः ॥
शिलासंचयकान्भृत्यान्बहुवित्तैरयोजयत् ॥२०॥
चतुर्थे दिवसे विप्राः प्रासादोऽभूदनुत्तमः ॥
बहुकालप्रसाध्योऽपि महिम्ना देवशिल्पिनः ॥२१॥
ततः प्रभाते विमले नित्यकर्मावसानतः ॥
प्रतिष्ठाविधिसंभारं गृहीत्वा सपरिच्छदः ॥२२॥
नारदागमनं प्रेक्ष्य यावत्तिष्ठति भूपतिः ॥
तावच्छुश्रुविरे शङ्खा मृदङ्गा मुरजास्तथा ॥२३॥
गीतमङ्गलवाद्यानि घंटानां करिणां स्वनाः ॥
तथा जय जयेत्युच्चैः शब्दा आकाशमण्डले ॥२४॥
ताञ्छ्रुत्वा विस्मयापन्ना इंद्रद्युम्नपुरोगमाः ॥
राजानः श्रोत्रिया विप्रा वैष्णवाश्च सहस्रशः ॥२५॥
निराधारास्त्विमे शब्दा अद्भुतानि न संशयः ॥
विचारयंतस्ते यावत्तावद्दक्षिणतो मरुत् ॥२६॥
गन्धान्वितद्विरेफौघशब्दिताः पुष्पवृष्टयः ॥
आविर्भूतास्त्रिपथगा वारिणार्द्रीकृता द्विजाः ॥२७॥
तदनंतरमेवासौ नारदो ब्रह्मणः सुतः ॥
तपःप्रभावनिर्व्यूढ विमानवरशायिनीम् ॥२८॥
रत्नचामरहस्ताभिर्दिव्यस्त्रीभिः सुशोभिताम् ॥
अलंकृतां वहुविधैर्मणिरत्नप्रसाधनैः ॥२९॥
दिव्यमाल्यांबरधरां दिव्यगन्धानुलेपनाम् ॥
रम्यां प्रतिष्ठितप्राणां घटितां विश्वकर्मणा ॥३०॥
तेजोमण्डलसंवीतां परितो हर्षदामपि ॥
आदाय नरसिंहस्य प्रत्यर्चां प्रत्युपस्थितः ॥३१॥
तां दृष्ट्वा हर्षिताः सर्वे राजा राजानुयायिनः ॥
अन्तर्द्धानं गतो देवो नारदेनोद्धृतः किमु ॥३२॥
मेनिरे हर्षितात्मानः प्रशशंसुश्च तं मुनिम् ॥
निरूप्य संनिधिस्थां तु नरसिंहाकृतिं द्विजाः ॥
आद्यमूर्तेर्नृसिंहस्य प्रतिमामथ मेनिरे ॥३३॥
प्रत्युत्थाय ततो राजा प्रहृष्टेनांतरात्मना ॥
प्रदक्षिणीकृत्य हरिं जगाम शिरसा महीम् ॥३४॥
श्रद्धासंपत्तियोग्येन संभारेण नृपाज्ञया ॥
प्रस्थापयामास मुनिः प्रासादं शुभलक्षणम् ॥३५॥
प्रतिमां देवदेवस्य सुमुहूर्ते द्विजोत्तमाः ॥
धरारमाभ्यां सहितां रत्नवेद्यां प्रतिष्ठिताम्॥
योगारूढतनुं राजा इन्द्रद्युम्नोऽथ तुष्टुवे ॥३६॥
वैष्णवैर्ब्राह्मणैर्भूपैर्नारदेन च धीमता॥
गुह्योपनिषदैः स्मार्तैः स्तोत्रैः शास्त्रैर्मुदान्वितैः ॥३७॥
॥ इन्द्रद्युम्न उवाच ॥
एकानेकस्थूलसूक्ष्माणुमूर्ते व्योमातीत व्योमरूपैकरूप ॥
व्योमाकार व्यापक व्योमसंस्थ व्योमारूढ व्योमकेशाब्जयोने ॥३८॥
दुःखांभोधेस्त्राहि मां दिव्यसिंह प्रादुर्भूतानेककोट्यर्कधामन् ॥
नित्यासन्नो दूरसंस्थो न दूरो नासन्नो वा बोध्यबोधात्मभाव ॥३९॥
ज्ञेयज्ञेयो ज्ञानगम्योऽप्यगम्यो मायातीतो मानमेयोऽनुमानात् ॥
कृत्स्नस्यादिः कृत्स्नकर्त्तानुमंता पाता हर्त्ता विश्वसाक्षिन्नमस्ते ॥४०॥
दुःखध्वंसस्यैकहेतुं न हेतुं भेत्तुं छेत्तुं संशयानग्रजातम् ॥
ज्योतीरूप ज्ञानरूप प्रकाश स्तोमव्यूहाकार निर्माणहेतो ॥४१॥
त्वत्पादब्जे भक्तिमग्र्यां सदा मे देहि स्वामिन्मूलभूतां चतुर्णाम् ॥
श्रौतैः स्मार्तैर्नित्ययुक्ता जनास्ते दीनास्तिष्ठन्त्यत्र बद्धा भवाब्धौ ॥४२॥
अनन्तपादं बहुहस्तनेत्रमनंतकर्णं ककुभौघवस्त्रम् ॥
दिवानिशानाथसुकुण्डलाढ्यं नक्षत्रमाला कृतचारुहारम् ॥४३॥
त्वामद्भुतं दिव्यनृसिंहमूर्तिं भक्तेष्टपूर्तिं शरणं प्रपद्ये ॥
यत्पादपद्म हि पितामहस्य किरीटरत्नैर्विकचत्वमेति॥४४॥
यदीयपादाब्जयुगांतभूमौ लुठेच्छिरो यस्य हि पांचभौतम् ॥
तद्दिव्यपादं शिरसा वहंति सुरेन्द्रनार्यः खलु तं नमामि ॥४५॥
तद्दिव्यसिंहं हतपापसंघं पादाश्रितानां करुणाब्धिसिंहम् ॥
पादाऽब्जसंघट्टविघट्टमानब्रह्मांडभांडं प्रणमामि चण्डम् ॥४६॥
सटाच्छटाकंपनशीर्यमाणघनौघविद्रावितपापसंघम् ॥
चंडाट्टहासांतरिताब्दशब्दं त्रिलोकगर्भं नृहरिं नमामि ॥४७॥
नमस्ते नमस्ते नमस्तेऽद्य विष्णो परित्राहि दीनानुकंपिन्ननाथम् ॥
भवंतं समासाद्य मे देहबन्धो मुरारे न संसारकारागृहेऽस्तु ॥४८॥
हयमेधसहस्रांते यथा त्वां चर्मचक्षुषा ॥
दिव्यरूपं प्रपश्यामि तथानुक्रोशय प्रभो ॥४९॥
यथा चेज्यासहस्रं मे निर्विघ्नं तत्समाप्यते ॥
यज्ञेश त्वत्प्रसादान्मे तथा सान्निध्यमस्तु ते ॥५०॥
कोटयः पापराशीनां क्षयं यांति यथा प्रभो ॥
धर्मार्थकामा हस्तस्था नैषां चित्रं स्तुवंति ये ॥
मोक्षस्य भाजनं विष्णो ते नरा ये तवाश्रयाः ॥५१॥
स्तुत्वेत्थं दिव्य सिंहं तं भूपतिर्हष्टमानसः ॥
दण्डपातप्रणामेन जगाम धरणीं मुहुः ॥५२॥
॥ जैमिनिरुवाच ॥
क्षेत्रं तन्नरसिंहस्य ब्रह्मणा निर्मितं पुरा ॥
इन्द्रद्युम्नानुग्रहाय सर्वलोकहिताय च ॥५३॥
पश्यंति ये नृसिंहं तं शंभुना सह संस्थितम् ॥
न देहबन्धं ते विप्राः प्राप्नुवंति न संशयः ॥५४॥
मनसा वांछितं यद्यत्प्राप्नुवंति ततोऽधिकम् ॥
स्तोत्रेणानेन ये दिव्यसिंहरूपं स्तुवंति वै ॥५५॥
सर्वकामप्रदो देवस्तस्य मुक्तिं प्रयच्छति ॥
ज्येष्ठशुक्लद्वादशी या स्वातीनक्षत्रसंयुता ॥५६॥
तस्यां प्रतिष्ठितः क्षेत्रे दिव्यसिंहो महर्षिणा ॥
सुतेन ब्रह्मणः साक्षात्तत्र पश्यंति तं च ये ॥५७॥
वाजिमेधसहस्रस्य फलं साग्रं लभंति ते ॥
पञ्चामृतैर्वा क्षीरेण नारिकेलरसेन वा ॥५८॥
स्नापयंति नरा ये वै अथवा गन्धवारिणा ॥
पूजयित्वा महासिंहमुपचारैः सपायसैः ॥५९॥
जपाकुसुममाल्यैश्च गन्धमाल्यैः सुशोभनैः ॥
धूपदीपैः सकर्पूरैस्तांबूलैरतिशोभनैः ॥६०॥
सुगीर्भिः स्तुतिपाठैश्च जयशब्दैस्तथोच्चकै ॥
प्रदक्षिणप्रणामैश्च दानैर्ब्राह्मणतर्पणैः ॥
सन्तोष्य नरसिंहं तं ब्रह्मलोकमवाप्नुयात् ॥६१॥
वैशाखस्य चतुर्दश्यां सौरिवारेऽनिलर्क्षके ॥
आद्यावतारः सिंहस्य प्रदोषसमये द्विजाः ॥६२॥
तस्यां संपूज्य विधिवन्नरसिंहं समाहितः ॥
जन्मकोटिसहस्रैस्तु पापराशिः सुसंचितः ॥
दह्यते तत्क्षणादेव तूलराशिरिवाग्निना ॥६३॥
दृष्ट्वा स्पृष्ट्वा नमस्कृत्वा प्रणिपत्य च भक्तितः ॥
स्तुत्वा विमुच्यते पापैर्निर्मोकेन भुजंगवत् ॥६४॥
न तस्य व्याधयः संति न शोका नाधयस्तथा ॥
सर्वान्कामानवाप्नोति हयमेधफलं तथा ॥६५॥
समीपे तस्य भो विप्रा यजनं दानमेव च ॥
अन्यानि पुण्यकर्माणि कृतानि च सकृन्नरैः ॥
कोटिकोटिगुणानि स्युर्नरसिंहप्रसादतः ॥६६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : October 06, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP