संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्|

पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय १९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ जैमिनिरुवाच ॥
ततः स पृथिवीपालस्तथा कृत्वांऽतरिक्षगा ॥
यदुवाच गिरां देवी तद्वत्परिचचार ह ॥१॥
एवं दिनेदिने याते दिव्यगंधोऽनुभूयते ॥
पारिजातप्रसूनानां वृष्टिर्मर्त्येषु दुर्लभा ॥२॥
दिव्यसंगीतनादश्च गीतानि रुचिराणि च ॥
स्वर्गंगाजलवृष्टिश्च सूक्ष्मबिंदुसुशोभना ॥३॥
ऐरावतादिनागानां मदगंधो वनद्विपैः ॥
दुःसहः सर्वभूतानां सुखकार्यनुभूयते ॥४॥
यज्ञार्थमागता देवास्ते सर्वे विगतज्वराः ॥
आविर्भूतं हरिं दृष्ट्वा उपासांचक्रिरे द्विजाः ॥५॥
यथा हि माधवं पूर्वं तथा तं विष्णुशाखिनम् ॥
उपासनासु देवानां दिव्यचिह्नानि जज्ञिरे ॥६॥
निर्ववाह स्वयं देवः क्रमात्पंचदशे दिने ॥
चतुर्मूर्तिः स भगवान्यथा पूर्वं मयोदितः ॥७॥
तादृगाविर्बभूवासौ युष्माकं वर्णितः पुरा ॥
दिव्यसिंहासनगतो बलभद्रासुदर्शनैः ॥८॥
शंखचक्रगदापद्मलसद्बाहुर्जनार्दनः ॥
गदामुसलचक्राब्जं धारयन्पन्नगाकृतिः ॥९॥
छत्राकृतिफणासप्तमुकुटोज्ज्वलकुंडलः ॥
सुभद्रा चारुवदना वराब्जाभयधारिणी ॥१०॥
लक्ष्मीः प्रादुर्बभूवेयं सर्वचैतन्यरूपिणी ॥
इयं कृष्णावतारे हि रोहिणीगर्भसंभवा ॥११॥
बलभद्राकृतिर्जाता बलरूपस्य चिंतनात् ॥
क्षणं न सहते सा हि मोक्तुं लीलावतारिणम् ॥१२॥
न भेदोऽस्तीह को विप्राः कृष्णस्य च बलस्य च ॥
एकगर्भप्रसूतत्वाद्व्यवहारोऽथ लौकिकः ॥१३॥
भगिनी बलदेवस्येत्येषा पौराणिकी कथा ॥
पुंरूपे स्त्रीस्वरूपेण लक्ष्मीः सर्वत्र तिष्ठति ॥१४॥
पुंनाम्ना भगवान्विष्णुः स्त्रीनाम्ना कमलालया ॥
देवतिर्यङ्मनुष्यादौ विद्यते न तयोः परम् ॥१५॥
को ह्यन्यः पुंडरीकाक्षाद्भुवनानि चतुर्दश ॥
धारयेत्तु फणाग्रेण सोऽनंतो बलसंज्ञितः ॥१६॥
तस्य शक्तिस्वरूपेयं भगिनी श्रीः प्रकीर्तिता ॥
सुदर्शनं तु यच्चक्रं सदा विष्णोः करे स्थितम् ॥१७॥
शाखाग्रस्तंभमध्यस्थं तद्रूपं तत्तुरीयकम् ॥
एवं तु मूर्त्तयस्तेन चतस्रो वै प्रकाशिताः ॥१८॥
निर्वृत्ते भगवद्रूपे चतुर्द्धा दिव्यरूपिणि ॥
लोकानामुपकाराय पुनराहांतरिक्षगा ॥१९॥
पटैराच्छाद्य सुदृढं नृपते प्रतिमास्त्विमाः ॥
स्वं स्वं वर्णं प्रापयाशु वर्णकैश्चित्रकर्मणा ॥२०॥
नीलाभ्रश्यामलं विष्णुं शंखेंदुधवलं बलम् ॥
रक्तं सुदर्शनं चक्रं सुभद्रां कुंकुमारुणाम् ॥२१॥
नानालंकाररुचिरां नानाभंगिविभागशः ॥
अमी दारुस्वरूपेण दृष्टाः पापाय हेतवे ॥२२॥
गोपनीया प्रयत्नेन पटनिर्यासवल्कलैः ॥
तस्मात्प्रथममेवैतांस्तरोरेवास्य वल्कलैः ॥२३॥
शिल्पिभिः कर्मकुशलैर्दृढमाच्छादयाग्रतः ॥
वर्षे वर्षे च संस्कार्याः पूर्वसंस्कार मोचनात् ॥२४॥
ऋते वल्कललेपं तु स तु दिव्यश्चिरंतनः ॥
प्रमादाद्य इमं लेपमपनीयेत कश्चन ॥२५॥
दुर्भिक्षं मरकं राष्ट्रे संततिश्चास्य हीयते ॥
नेक्षितव्यास्त्वया राजन्कदाचिदपवारणाः ॥२६॥
मनुष्यैश्चापि राजेंद्र दृष्टाः स्युर्भयहेतवः ॥
तस्मात्सचित्रा द्रष्टव्या बहुलेपविलेपिताः ॥२७॥
सुचित्रं पुण्डरीकाक्षं सविलासं सविभ्रमम् ॥
दृष्ट्वा विमुच्यते पापैः कल्पकोटिसमुद्भवैः ॥२८॥
सुचित्रान्कुरु राजेंद्र चित्रान्कामानवाप्स्यति ॥
आविर्बभूव भगवांस्तवानुग्रहकाम्यया ॥२९॥
तव प्रसादाज्जंतूनां चतुर्वर्गं प्रदास्यति ॥
नीलाद्रौ कल्पवृक्षस्य वायव्यां शतहस्ततः ॥३०॥
प्रदेशे सुमहत्स्थाने प्रासादं सुदृढायतम् ॥
उत्तरे नरसिंहस्य सहस्रकरमुच्छ्रितम् ॥३१॥
कारयित्वा प्रतिष्ठाप्य तत्रैनं विनिवेशय ॥
पुरा स्थितं पर्वतेऽस्मिन्योऽभ्यर्चयति माधवम् ॥३२॥
नाम्ना विश्वावसुर्नाम शबरो वैष्णवोत्तमः ॥
पुरोधसः सख्यमासीत्तेन सार्द्धं पुरा च ते ॥३३॥
तयोः संततिरेवास्य लेपसंस्कारकर्मणि ॥
नियुज्यतां महाराज भविष्यत्सूत्सवेषु च ॥३४॥
विररामैतदाभाष्य सा तु दिव्या सरस्वती ॥
तयोपदिष्टमाकर्ण्य प्रहृष्टेनांतरात्मना ॥३९॥
वेष्टनं मोचयामास महावेद्या नृपोत्तमः ॥
ददृशुस्ते तदा सर्वे रत्नसिंहासने स्थितम् ॥३६॥
रामं कृष्णं सुभद्रां च वासुदेवं सुदर्शनम् ॥
यथोपदिष्टलेप्यादिसंस्कारे रुचिराकृतिम् ॥३७॥
कृपया स्मेरवदनमुन्नतायतवक्षसम् ॥
दीनानामुद्धृतौ नाथं प्रलंबभुजपंजरम् ॥३८॥
प्रबुद्धपुण्डरीकाक्षं हासशोणायताधरम् ॥
पश्यतां दृष्टिमात्रेण हर्तारं पापसंचयम् ॥३९॥
पद्मासनस्थितं कृष्णं दिव्यालंकारभूषितम्॥
स्वतेजसा परिवृतं दारुदेहेऽपि निर्मलम् ॥४०॥
नीलजीमूतसंकाशं सर्वसंतापनाशनम् ॥
ददर्श बलदेवं च साट्टहासमुखांबुजम् ॥४१॥
फणामण्डलविस्तीर्णं वारुणीघूर्णितेक्षणम् ॥
प्रोत्थितं नागराजानं पीनोन्नतसुवक्षसम् ॥४२॥
किंचिन्नतं पृष्ठदेशे कुण्डलीकृतविग्रहम् ॥
अग्रसंफुल्लककुभं कैलासशिखरं यथा ॥४३॥
हलचक्राब्जमुसलधारिणं वनमालिनम् ॥
हारकुण्डलकेयूरकिरीटमुकुटोज्ज्वलम् ॥४४॥
तयोर्मध्ये स्थितां लक्ष्मीं सुभद्रां भद्ररूपिणीम् ॥४५॥
सर्वदेवारणीं पापसागरोत्तारकारिणीम् ॥
विकचांभोजवदनां वराब्जाभयधारिणीम् ॥४६॥
रूपलावण्यवसतिं शोभमानां प्रसाधनैः ॥
कुंकुमारुणदेहां तां साक्षाल्लक्ष्मीमिवापराम् ॥४७॥
ददर्श विष्णोर्वामस्थां चक्रशाखाग्रनिर्मिताम् ॥
बालार्कसदृशीं तीक्ष्णधारां तेजोमयीं द्विजाः ॥४८॥
तां दृष्ट्वानन्दपाथोधि निमग्नः पृथिवीपतिः ॥
कर्तव्यमूढः स्वतनौ स्वयं न प्रबभूव ह ॥४९॥
दरमीलितनेत्रः सन्सृजन्बाष्पांबु केवलम् ॥
कृतांजलिपुटस्तस्थौ स्थूणाकारो नृपोत्तमः ॥५०॥
उवाच तं मुनिवरः स्मितवक्त्रः क्षितीश्वरम् ॥
यदर्थं श्रममापन्नस्तत्सांप्रतमभूत्तव ॥५१॥
प्रत्यक्षं नृपशार्दूल एकस्त्वं भाग्यवान्भुवि ॥
अमुं पश्य जगन्नाथं पुण्डरीकायतेक्षणम् ॥५२॥
भक्तानुग्रहपाथोधिं सर्वज्ञाननिधिं हरिम् ॥
यं द्रष्टुं योगिनो नित्यं यतंति यतमानसाः ॥५३॥
अवधानेन महता क्षणं पश्यन्ति मानवाः ॥
सोऽयं दारुमयं देहं समास्थाय जनार्दनः ॥५४॥
अनुग्रहीतुं त्वां भूप प्रत्यक्षत्वमुपागतः ॥
भजैनं धरणीनाथं स्तुहि कारुण्यसागरम् ॥५५॥
ददाति संस्तुतः कामान्सर्वान्नृप मनोगतान् ॥५६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवाद एकोनविशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : October 06, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP