संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्| अध्याय ८ पुरुषोत्तमजगन्नाथमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ विषयानुक्रमणिका पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ८ Translation - भाषांतर ॥ जैमिनिरुवाच ॥इत्युक्तस्तेन विप्रेण शबरश्चिंतयाकुलः ॥अस्माकमुपजीव्योऽसौ रहस्यस्थो जनार्दनः ॥१॥उपस्थितं नो दुर्दैवं येन स्यात्सार्वलौकिकः ॥न दर्शयामि चेद्विप्रं शापं मेऽसौ प्रदास्यति ॥२॥सर्वेषां ब्राह्मणो मान्यो विशेषादतिथिस्त्वयम् ॥यस्मिन्विफलकामे तु द्वौ लोकौ विफलौ मम ॥३॥एवं विचारयन्विश्वावसुः शबरपुंगवः ॥जनप्रवादं सस्मार पुराणं शबरालये ॥४॥अस्मिन्नंतर्हिते देवे भूम्यंतर्लीनमाधवे ॥इन्द्रद्युम्नो नरपतिः शक्रतुल्यपराक्रमः ॥५॥मनुष्यवपुषा यो वै ब्रह्मलोकं व्रजेदपि ॥सोऽस्मिन्प्रजाभिरागत्य वाजिमेधशतेन च ॥६॥इष्ट्वा दारुमयं विष्णुं चतुर्द्धा स्थापयिष्यति ॥अस्य चेद्भाग्यमुत्पन्नं ब्राह्मणस्यातिथेर्भृशम् ॥७॥अंतर्द्धानं भगवतः सन्निधानमथो भवेत् ॥तदेनं दर्शयिष्यामि नीलेंद्रमणिमच्युतम् ॥८॥न पौरुषेयं कस्यापि कर्तव्ये देवनिर्मिते ॥इत्थं विचार्य मनसा शबरश्च पुनःपुनः ॥९॥उवाच विप्रं पुरतो ध्यायंतं विष्णुमव्ययम् ॥१०॥॥ शबर उवाच ॥अस्माभिः पूर्वतोऽप्येष उदंतः श्रुत एव हि ॥इंद्रद्युम्नो नरपतिरत्र वासं करिष्यति ॥११॥ततोऽपि भाग्यवांस्त्वं हि यदग्रे नीलमाधवम् ॥चक्षुषा पश्यसे ब्रह्मन्नेहि यामो ह्यधित्यकाम् ॥१२॥इत्युक्त्वा तं करे धृत्वा वर्त्मना गहनं ययौ ॥उपर्युपर्युपारुह्य शिलाविषमवर्त्मनि ॥१३॥एकैकनरगम्ये च कंटकाचितदुर्गमे ॥तमःप्राये पथि गतं बोधयन्वचसा द्विजम् ॥१४॥मुहूर्ताभ्यां रौहिणस्य कुंडस्याविशतां तटे ॥तं दृष्ट्वा सोऽब्रवीद्विप्रं कुंडमेतद्द्विजोत्तम ॥१५॥रौहिणाख्यं महत्तीर्थं कारणं सर्वपाथसाम् ॥अत्र स्नात्वा नरो याति वैकुंठभवनं द्विज ॥१६॥एतस्य पूर्वभागेऽसो कल्पच्छायावटो महान् ॥छायां यस्य समाक्रम्य ब्रह्महत्यां व्यपोहति ॥१७॥एतयोरंतरे ब्रह्मन्निकुंजाभ्यंतरे स्थितम् ॥पश्य साक्षाजगन्नाथं वेदांतप्रतिपादितम् ॥१८॥दृष्ट्वा जहीहि सकलं विविधं पापसंचयम् ॥इत ऊर्ध्वं न शोचस्व पतितो भवसागरे ॥१९॥॥ जैमिनिरुवाच ॥स तु कुंडे द्विजः स्नात्वा संप्रदृष्टमनाः सुधी ॥दूरात्प्रणम्य शिरसा मनसा वचसा हरिम् ॥२०॥तुष्टाव चैकाग्रमना हर्षगद्गदया गिरा ॥२१॥॥ विद्यापतिरुवाच ॥प्रधानपुरुषातीत सर्वव्यापिन्परात्पर ॥चराचरपरीणाम परमार्थ नमोऽस्तु ते ॥२२॥श्रुतिस्मृतिपुराणेतिहास संप्रतिपादितैः ॥कर्मभिस्त्वं समाराध्य एक एव जगत्पते ॥२३॥त्वत्त एतज्जगत्सर्वं सृष्टौ संपद्यते विभो ॥त्वदाधारमिदं देव त्वयैव परिपाल्यते ॥२४॥कल्पांते संहृतं सर्वं त्वत्कुक्षौ सावकाशकम् ॥सुखं वसति सर्वात्मन्नंतर्यामिन्नमोऽस्तु ते ॥२५॥नमस्ते देवदेवाय त्रयीरूपाय ते नमः ॥चंद्रसूर्यादिरुपेण जगद्भासयते सदा ॥२६॥सर्वतीर्थमयी गंगा यस्य पादाब्जसंगमात् ॥पुनाति सकलाँल्लोकांस्तस्मै पावयते नमः ॥२७॥हवींषि मंत्रपूतानि सम्यग्दत्तानि वह्निषु ॥परिणामकृते तुभ्यं .जगज्जीवयते नमः ॥२८॥यदंशमुपजीवंति जगंत्यानंदरूपिणः ॥सर्वकल्मषहीनाय तस्मै ब्रह्मात्मने नमः ॥२९॥निर्मलाय स्वरूपाय शुभरूपाय मायिने ॥सर्वसंगविहीनाय नमस्ते विश्वसाक्षिणे ॥३०॥बहुपादाक्षिशीर्षास्यबाहवे सर्वजिष्णवे ॥सर्वजीवस्वरूपाय नमस्ते सर्वरूपिणे ॥३१॥नमस्ते कमलाकांत नमस्ते कमलासन ॥नमः कमलपत्राक्ष त्राहि मां पुरुषोत्तम ॥३२॥असारसंसारपरिभ्रमेण निपीड्यमानं खलु रोगशोकैः ॥मामुद्धरास्माद्भवदुःखजातात्पादाब्जयोस्ते शरणं प्रपन्नम् ॥३३॥॥ जैमिनिरुवाच ॥इति स्तुत्वा सुरेशानं देवं प्रणवरूपिणम् ॥प्रणतः प्रणवं मंत्रं जजाप पुरतो हरेः ॥३४॥जपांते शांतमनसं कृतांजलिमुपस्थितम् ॥मन्यमानं कृतार्थं स्वं प्रोवाच शबरो द्विजम् ॥३५॥॥ विश्वावसुरुवाच ॥कृतार्थस्त्वं प्रभुं दृष्ट्वा सांप्रतं द्विजपुंगव ॥दिनांतोऽभूद्गृहं यावः क्षुधितोऽसि श्रमान्वितः ॥३६॥वासोऽप्यरण्ये हिंस्राणां नास्माकमुचिता स्थितिः ॥यावद्भानोर्भाति भासस्तावद्यामो निजालयम् ॥३७॥इत्युक्त्वा ब्राह्मणं पाणौ गृहीत्वा शबरः पुनः ॥आजगाम द्विजश्रेष्ठाः स्वाश्रमं त्वरयान्वितः ॥३८॥ब्राह्मणोऽपि जगन्नाथं ध्यायन्नानंदसागरम् ॥क्षुत्तृषाश्रमजातानि दुःखानि बुबुधे न हि ॥३९॥शिलाविषममार्गेऽपि कंटकोत्करदुर्गमे ॥व्रजन्न दुःखं लेभेऽसौ शरीरानास्थया मुदा ॥४०॥एवं व्रजंतौ तौ विप्र शबरौ शबरालयम् ॥सायाह्ने तमनुप्राप्तौ वैष्णवाग्र्यौ तु भो द्विजाः ॥४१॥तत्रातिथिमनुप्राप्तं ब्राह्मणं शबरोत्तमः ॥भक्ष्यभोज्य विधानैश्च विविधैः समपूजयत् ॥४२॥ततोऽभितृप्तस्तद्दत्तैरुपचारैर्नृपोचितैः ॥विस्मयं परमं लेभे शबरस्य सुदुर्लभैः ॥४३॥शबरोऽयं निवसति विषमे काननांतरे ॥आरण्यकैर्वर्त्तमानः कथमस्य गृहांतरे ॥४४॥राजार्हभक्ष्यभोज्यानि सुलभान्यद्भुतं महत् ॥इति विस्मयमापन्नं ब्राह्मणं शबरस्तदा ॥४५॥प्रोवाच स्निग्धवचसा विनयावनतो भृशम् ॥४६॥॥ शबर उवाच ॥भो विप्र श्रमहीनोऽसि कच्चित्क्षुत्तृड्विवर्जितः ॥आरण्यकानां भवने नागराणां कुतः सुखम् ॥४७॥अज्ञाता नागरी वृत्तिः शबरैस्तु विशेषतः ॥राजोपजीविनां श्रेष्ठौ राजामात्यपुरोहितौ ॥४८॥तयो राजसमः पूज्यः पुरोधाः शास्त्रसंमतः ॥इन्द्रद्युम्नो नरपतिः सार्वभौमः प्रतापवान् ॥४९॥त्वयि तुष्टे स संतुष्टो ध्रुवं विप्र भविष्यति ॥इत्युक्तवत्यरण्यस्थे स तु प्रीततरो द्विजः ॥उवाच शबरं प्रीत्या विनयाद्भुतवादिनम् ॥५०॥॥ विद्यापतिरुवाच ॥साधो मदुपचाराय हृतान्येतानि यानि ते ॥वस्तुन्यमानुषाणीह यान्यदृष्टानि राजभिः ॥५१॥चित्रमेतद्दिव्यवस्तुसंचयः शबरालये ॥एतत्ख्यातुं कौतुकं मे साधो संवर्द्धते महत् ॥५२॥॥ शबर उवाच ॥एतत्प्रकाशितुं विप्र मतिर्नोत्सहते मम ॥तथापि ते द्विजश्रेष्ठाऽतिथिभक्त्या वदाम्यहम् ॥५३॥शक्रादयो देवगणाः समायान्त्यन्वहं द्विज ॥दिव्योपचारानादाय पूजनाय जगत्पतेः ॥५४॥पूजयित्वा जगन्नाथं स्तुत्वा नत्वा च भक्तितः ॥गीतशवादित्रनृत्यैश्च संतोष्य पुरुषोत्तमम् ॥५५॥पुनः प्रयांति सततं त्रिदिवं सुरसत्तमाः ॥दिव्यान्येतानि वस्तूनि निर्माल्यानि जगत्पतेः ॥५६॥दत्तानि तुभ्यं विदुषे कथं विस्मयते भवान् ॥विष्णोर्निर्माल्यभोगेन क्षीणरोगजरा वयम् ॥५७॥सपुत्रबांधवाः सर्वे निवसामोऽयुतायुषः ॥विष्णुनिर्माल्यभोगेन क्षीयते पापसंहतिः ॥५८॥न तच्चित्रं द्विजश्रेष्ठ येन स्यान्मुक्तिभाजनम् ॥श्रुत्वैतद्दुर्लभं कर्म ब्राह्मणो रोमहर्षणः ॥५९॥आनंदाश्रुविलुप्ताक्षः स्वं कृतार्थममन्यत ॥अहो शबरजन्मासौ पश्यत्यव्ययमीश्वरम् ॥६०॥तदुच्छिष्टं दिव्यभोगमुपभुंक्ते दिवानिशम् ॥नान्योऽस्य सदृशो लोके पृथिव्यां सचराचरे ॥६१॥यादृशो विष्णुभक्तोऽयं शबरो नीलपर्वते ॥किं गत्वा स्वगृहे मेऽद्य कुटुंबेनाऽसुखात्मना ॥६२॥अनेन सख्यं निष्पाद्य स्थास्याम्यत्र वनांतरे ॥चिन्तयित्वा चिरं विप्रः श्रीकृष्णासक्तमानसः ॥६३॥पुनः प्रोवाच शबरं मयि ते चेदनुग्रहः ॥साधो सख्यं त्वया कार्यमिति मे निश्चयो महान् ॥६४॥किं गत्वा सेवया राज्ञः परत्रासुखहेतुना ॥अत्र स्थित्वा त्वया सार्धमुपास्य मधुसूदनम् ॥६५॥यथा पुनर्देहबंधो यतिष्ये न भवेन्मम ॥साधु मित्र त्वया सार्द्धं भाग्यान्मे संगमोऽभवत् ॥६६॥दुस्तारं भवसंसारं तरिष्ये त्वत्प्रसादतः ॥सारमेतत्प्रशंसंति संसारे भवसागरे ॥६७॥यद्वैष्णवेन मित्रत्वं दुःखसंसारपारदम् ॥मित्रस्य सहवासेन पुनः प्रत्यक्षमेष्यति ॥६८॥भगवान्पुण्डरीकाक्षः शंखचक्रगदाधरः ॥इंद्रद्युम्नो नरपतिर्मयि प्रत्यागते सखे ॥६९॥भगवंतं समाराद्धुमिहैव स निवत्स्यति ॥प्रासादं विपुलं चात्र चिकीर्षुर्भगवत्प्रियम् ॥७०॥सहस्रमुपचाराणां पूजनाय जगत्पतेः ॥रचयिष्यामीति महत्प्रतिज्ञासीन्महीपतेः ॥७१॥प्रतिश्रुतं तत्पुरतः प्रीतस्तन्मेऽनुमन्यताम् ॥७२॥॥ शबर उवाच ॥सखे पुरातनी वार्त्ता प्रसिद्धैवात्र तादृशी ॥७३॥त्वया यथैव कथितं इन्द्रद्युम्नसमागमः ॥केवलं माधवं तत्र न द्रक्ष्यति महीपतिः ॥७४॥अचिरादेव भगवान्स्वर्णवालुकयावृतः ॥प्रतिजज्ञे यमायैतदन्तर्द्धानं गमिष्यति ॥७५॥महाभाग्यपरीपाकात्प्रत्यक्षोऽयं त्वया कृतः ॥इन्द्रद्युम्नागमाभ्यासे ध्रुवं स व्यवधास्यति ॥७६॥एषोऽर्थस्तु त्वया मित्र न वक्तव्यो नृपाग्रतः ॥आगत्य सोऽत्र नृपतिरदृष्ट्वा परमेश्वरम् ॥७७॥प्रायोपवेशव्रतवान्स्वप्ने दृष्ट्वा गदाधरम् ॥तदादेशाद्दारुमयं प्रभोर्लिंगचतुष्टयम् ॥७८॥पूजयिष्यति भक्त्या च प्रतिष्ठाय स्वयंभुवा ॥स्थितिरत्र हरेर्यावदावयोर्वंशसंस्थितिः ॥७९॥अनुग्रहाद्भगवतो नात्र कार्या विचारणा ॥तदत्रार्थे सखे खेदं मा व्रज क्षिप्रमेव हि ॥८०॥निर्वर्त्स्यतेऽचिरादेव मित्रेदानीं सुखं स्वप ॥प्रातर्दृष्ट्वा पुनर्देवं नीलेन्द्राश्ममयं विभुम् ॥८१॥सिंधौ स्नात्वा तस्य तटे निवासाय महीपतेः ॥द्रक्ष्यामः साधु संस्थानं यथाभिलषितं सखे ॥८२॥इत्यन्याश्च कथाः पुण्याः कृत्वा तौ च परस्परम् ॥शुभस्थाने चास्वपतां शयने पल्लवास्तृते ॥८३॥प्रभातायां तु शर्वर्यां तीर्थराजोदकेन तौ ॥स्नानं निर्वर्त्य विधिवन्माधवं प्रणिपत्य च ॥८४॥राजार्हस्थानं निर्णीय निवासाय गतौ पुनः ॥तत्र मित्रेणाभिमन्त्र्य राज्ञो निर्देशकारणात् ॥८५॥रथमारुह्य विप्रः स त्ववंतीपुरमाययौ ॥८६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादेऽष्टमोऽध्यायः ॥८॥ N/A References : N/A Last Updated : October 02, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP