संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्|

पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ४८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ मुनय ऊचुः ॥
प्रासादस्य प्रतिष्ठांत इन्द्रद्युम्नाय यद्वरान् ॥
आज्ञापयामास हरिर्यात्रास्ता द्वादशापि च ॥१॥
त्वत्सकाशाच्छुतं सर्वं ततः स पृथिवीपतिः ॥
किं चकार महाबुद्धिर्विष्णुभक्तोऽप्यवस्थितः ॥२॥
॥ जैमिनिरुवाच ॥
वराँल्लब्ध्वा जगन्नाथात्साक्षाद्ब्रह्मस्वरूपिणः ॥
कृतकृत्यं स मेने वा आत्मानं नरपुंगवः ॥३॥
यथाज्ञं कारयित्वा वै यात्रास्ताः पुण्यमोक्षदाः ॥
बहूपचारैर्बहुधा समभ्यर्च्य जगद्गुरुम् ॥४॥
गालराजं समादिश्य देवस्याज्ञां यथाविधि ॥
इदं प्रोवाच मधुरं धर्मन्यायसमायुतम् ॥५॥
॥ इन्द्रद्युम्न उवाच ॥
राजन्बहुश्रुतोऽसि त्वं धर्मनिष्ठामुपागतः ॥
भगवत्यपि भक्तिस्ते कर्मणा मनसा गिरा ॥६॥
न ह्येकस्योपदशाय भगवाननुशास्ति वै ॥
चराचरगुरुर्ह्येष विश्वं तच्छिष्यतां गतम् ॥७॥
ममानुग्रहलक्ष्येण अवतीर्णो जगत्पतिः ॥
उद्धृत्यै दीनमनसामत्रापि स्थास्यते चिरात् ॥८॥
भक्त्या च श्रद्धया युक्त एतदाज्ञां प्रवर्त्तय ॥
प्रतिमाव्यवहारेण नैनं जानीहि भूमिप ॥९॥
प्रत्यक्षं ते यथा जातं त्रैलोक्यं भूमिमागतम् ॥
प्रासादांतः प्रवेशे हि यस्यास्य जगदीशितुः ॥१०॥
पितामहाद्यास्त्रिदशाः सर्वे युगपदागताः ॥
विश्वमूर्त्या वयं सर्वे जाता वै नष्टचेतनाः ॥११॥
चराचरमयो ह्येष साक्षाद्दारुस्वरूपधृक् ॥
कल्पवृक्षमिमं विद्धि भूगतं सर्वकामदम् ॥१२॥
उपास्यैनं हि लभते यो यथा कामनाफलम् ॥
यतंतो बहुधा यं हि यतयो न विदन्ति वै ॥
तमःपारे प्रतिष्ठतं किंस्विज्ज्योतिः स्वरूपिणम् ॥१३॥
यतीनां धर्मनिष्ठानां शुद्धानामूर्ध्वरेतसाम् ॥
अनन्यभक्तियुक्तानामेकः पंथास्तु योगिनाम् ॥१४॥
ग्रीष्मे शीत गभीरे वै निमज्ज्य सलिलाशये ॥
परां निर्वृतिमाप्नोति तथास्मिन्करुणांबुधौ ॥१५॥
त्रितापदुःखं त्यजति संप्राप्ते पुरुषोत्तमे ॥१६॥
न माता न पिता मित्रं न पत्नी न सुतस्तथा ॥
शरणागतदीनानां यथायमुपकारकः ॥१७॥
तदेनं परिसेवस्व भुक्तिमुक्तिफलप्रदम् ॥
पौरैः प्रजाभिर्यात्रास्ताः समृद्धं परिवर्त्तय ॥१८॥
साधारणो धर्मपंथा नृपाणां नृपसत्तम ॥
प्रवर्तितश्च पूर्वेण पाल्यतेऽनंतरेण सः ॥१९॥
नृसिंहं भज राजेंद्र उपचारैर्महर्द्धिभिः ॥
पूजयस्व त्रिसंध्यं तं परं निर्वाणमाप्नुहि ॥२०॥
स्वकृतादुत्तमं प्राहुः परकृत्योपरक्षणम्॥
पालयेत्परदत्तं यः स्वदत्तादुत्तमं हि तत् ॥२१॥
॥ जैमिनिरुवाच ॥
कृतांजलिपुटः सोऽथ श्वेतो नृपतिसत्तमः ॥
मूर्ध्नि जग्राह तद्वाक्यं मालामिव गुणान्विताम् ॥२२॥
इंद्रद्युम्नोऽपि राजर्षिः प्रसाद्य पुरुषोत्तमम् ॥
सह श्रीमान्ब्रह्मलोकं जगाम ह ॥२३॥
एतद्वः कथितं पुण्यं क्षेत्रमाहात्म्यमुत्तमम् ॥
तत्र नित्योषितस्यापि माहात्म्यं ब्रह्मदारुणः ॥२४॥
यश्चैतच्छृणुयाद्भक्त्या वाच्यमानं द्विजोत्तमाः ॥
अश्वमेधसहस्रस्य फलं सोऽविकलं लभेत् ॥२५॥
अर्द्धोदयस्तु यो योगः स्कंदेन परिकीर्तितः ॥
तत्कोटिगुणितं पुण्यं विष्णोर्माहात्म्यकीर्तनात् ॥२६॥
प्रातः प्रातर्यः शृणुयात्कपिलाशतदो भवेत् ॥
गांगैः पुष्करजैस्तोयैरभिषेकफलं लभेत् ॥२७॥
धन्यं यशस्यमायुष्यं पुण्यं संतानवर्द्धनम्॥
स्वर्गप्रतिष्ठागतिदं सर्वपापापनोदनम् ॥२८॥
एतद्रहस्यमाख्यातं पुराणेषु सुगोपितम् ॥
वैष्णवेभ्यो विनाऽन्येषु न तु वाच्यं कदाचन ॥२९॥
 कुतर्कोपहता ये च दुरधीतश्रुतागमाः ॥
नास्तिका दांभिका नित्यं परदोषोपदर्शिनः ॥
अवैष्णवा मोघजीवास्तेभ्यो गोप्यं सदैव हि ॥३०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्येऽष्टचत्वारिंशोऽध्यायः ॥४८॥

N/A

References : N/A
Last Updated : October 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP