पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय १७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ मुनय ऊचुः ॥
प्रतिष्ठिते नारसिंहे क्षेत्रे तस्मिन्नराधिपः ॥
किं चकार मुने ब्रूहि परं कौतूहलं तु तत् ॥१॥
॥ जैमिनिरुवाच ॥
इन्द्रादींस्त्रिदशान्सर्वान्न्यमन्त्रयत पूर्वतः ॥
ततः स मन्त्रयामास ऋषीन्विप्रान्सहस्रशः ॥२॥
अध्येतॄंश्चतुरो वेदान्सषडंगपदक्रमैः ॥
यज्ञविद्यासु कुशलान्मीमांसापरिनिष्ठितान् ॥३॥
सभाष्यकल्पसूत्रैस्तु परिनिष्ठितकर्मिणः ॥
अष्टादशसु विद्यासु कुशलान्धर्मकोविदान् ॥४॥
सदाचारावदातांश्च कुलीनान्सत्यवादिनः ॥
वैष्णवांश्च विशेषेण मंत्रयामास सादरम् ॥५॥
त्रैलोक्ये ये च राजानः सिद्धाः सप्तर्षयो द्विजाः ॥
सच्छूद्रा वणिजो द्वीपपतयश्च निमंत्रिताः ॥६॥
क्रोशद्वयमिता विप्राः सभासीत्तस्य भूपतेः ॥
पाषाणघटिता सोच्चा सुधया सानुलेपिता ॥७॥
क्वचिद्रत्नमयी भूमिः क्वचित्कांचननिर्मिता ॥
स्फाटिकी राजती चैव यथायोग्यं कृतस्थली॥ ८॥
स्तंभै रत्नमयैः प्रोच्चैर्दुकूलपरिवेष्टितैः ॥
चारुचंद्रातपाढ्या तु गन्धमाल्यैः सचामरैः ॥९॥
मुक्तादामांतरस्थैश्च चारुवातायना शुभा ॥
कृष्णागुरुस्नेहसिक्ता श्रीखण्डसलिलोक्षिता ॥१०॥
सर्वर्त्तुकुसुमाकीर्णा प्रांतोपवनसंवृता ॥
वाप्यः स्फटिकसोपानाः पद्मकद्वारमंडिताः ॥११॥
चक्रवाकैः प्लवैर्हंसैः सारसैर्मधुरस्वनैः ॥
व्याप्तांतराः स्वच्छशीतसुगंधमधुरांभसः ॥१२॥
परितः शतशस्तस्याः सुखावतरणा द्विजाः ॥
उपच्छायाविरचनाः शोभमानाः समंततः ॥१३॥
यज्ञशाला मरुत्तस्य यथासीद्भो द्विजोत्तमाः ॥
तथेंद्रद्युम्नभूपस्य रचिता विश्वकर्मणा ॥१४॥
शुभेऽह्नि शुभनक्षत्रे वासयित्वा सभासदः ॥
राज्ञः सिंहासनासीनान्दृष्ट्वासीनानृषीनपि ॥१५॥
ससिद्धान्ब्रह्मर्षिगणान्बहुमूल्यकुथस्थितान् ॥
देवान्कांचनपीठस्थान्यथायोग्यमथ द्विजान् ॥१६॥
वरासनस्थानन्यांश्च यथादेशं सुखस्थितान् ॥
मध्ये नृपाणां देवानामृषीणां च शचीपतिम् ॥१७॥
साम्राज्यलक्षणे स्वस्य रत्नसिंहासने स्थितम् ॥
दिव्यैर्माल्यैस्तथा गंधैर्वासोभिर्विष्टरादिभिः ॥१८॥
पुरोधसा समं पूर्वमर्चयामास ऋद्धिमत् ॥
विनीतो दीनवत्तस्य चक्रे पूजां तथा नृपः ॥१९॥
आश्चर्यं मन्यतेऽस्यासौ त्रैलोक्येशोऽपि तद्यथा ॥
ततः सिद्धान्देवमुनीनचर्यन्निंद्रवत्तदा ॥२०॥
विस्मयं जनयामास कुवेरस्याप्यधिश्रियः ॥
ततो देवान्समानर्च प्रभूतस्वस्वसंपदः ॥२१॥
उपचारैर्महीनाथः सम्यगव्यग्रमानसः ॥
राज्ञः संपूजयामास राजयोग्यैः परिच्छदैः ॥२२॥
यथा ते मेनिरे भूपा भवामः सांप्रतं वयम् ॥
सत्यं राज्यं क्रमात्प्राप्तं नेदृशश्च परिच्छदः ॥२३॥
आनर्च वैष्णवान्भूय उपचारैः समानयन्॥
शांता अपि यथा चित्रं मेनिरे विषयागमम् ॥२४॥
ततो विप्रान्बाहुजातान्वैश्यान्मुनिपुरःसरम् ॥
सम्यक्प्रपूजयामास सत्त्वोद्रिक्तो महीपतिः ॥२५॥
अन्यांश्च सचिवद्वारा पूजयित्वा ससंभ्रमः ॥
दृष्टः स विनयान्नम्रः कृतांजलिपुटस्तथा ॥२६॥
महेंद्रमुच्चैराहेदं नारदेन पुरोधसा ॥२७॥
॥ इन्द्रद्युम्न उवाच ॥
तव प्रसादाद्देवेश इच्छामीदं प्रसीद मे ॥
क्रतुना हयमेधेन प्रयक्ष्ये यज्ञपूरुषम् ॥२८॥
अनुजानीहि मां देव क्रतूनामीश्वरो भवान् ॥
त्वदाज्ञापालकाः सर्वे त्रैलोक्ये निवसंति ये ॥२९॥
यावत्क्रतुसहस्रस्य संस्था च भवति प्रभो ॥
तावत्त्वं त्रिदशैः सार्द्धं सदोमध्यगतो वस ॥३०॥
यष्टुमिच्छामि देवेश नाहं त्वत्पदलिप्सया ॥
सर्वेषां वेत्सि देवेश मनोवृत्तिं सदा प्रभो ॥३१॥
युष्माकं पूर्वदृष्टोऽत्र वपुष्मान्माधवः प्रभुः ॥
उपासनायां सोऽयं यो वालुकाभिस्तिरोदधे ॥३२॥
तस्य भूयः प्रकाशार्थं वाजिमेधसहस्रकम्॥
करिष्ये वचनादिंद्र चतुरास्यस्य शासनात् ॥
पुनः प्रकाशिते तस्मिञ्छ्रेयो वोऽपि भविष्यति ॥३३॥
इति विज्ञापिते राज्ञा महेंद्रप्रमुखाः सुराः ॥
अन्तर्द्धानोतरं या च श्रुता पूर्वं सरस्वती ॥३४॥
अशरीरां स्मरंतस्तामिदं प्रोचुः प्रहर्षिताः ॥
इन्द्रद्युम्न महात्मासि सत्यं सत्यवतो भुवि ॥३५॥
तच्चेष्टितं पुरास्माभिरन्वभावि भविष्यकम् ॥
सहायास्ते भविष्यामः कार्ये त्रैलोक्यपावने ॥३६॥
स्रष्टा स जगतां यत्र उद्युक्तः स्वयमेव हि ॥
अत्रैवोवाच भगवानस्माकमपि भूतले ॥३७॥
प्रविशंस्तदनुक्रोशवशाद्भूयः प्रकाशनम् ॥
करिष्ये दारवं देहमित्येतत्परिनिष्ठितम् ॥३८॥
नात्रास्माकं व्यलीकं तु नेंद्रस्य च महीपते ॥
अस्मद्दिष्टसमुद्योगस्तव नः प्रीतिकारकः ॥३९॥
सुखं यजस्व राजेंद्र वैकुंठं भक्तवत्सलम् ॥
क्रतुना हयमेधेन सहस्रपरिवर्तिना ॥४०॥
दुराराध्यो हि भगवानस्माकं भक्तवत्सलः ॥
वयमप्यत्र देवत्वं त्यक्त्वा भक्ति परायणाः ॥४१॥
आराधयामः क्षेत्रेस्मिन्विनीता नररूपिणः ॥
प्रियं हि मानुषे लोके कर्म सिद्ध्यति वै कृतम् ॥४२॥
॥ जैमिनिरुवाच ॥
इत्युक्ते त्रिदशैः सेंद्रैः परितुष्टांतरात्मना ॥
आरंभार्थं क्रतो राजा भगवंतमपूजयत् ॥४३॥
उपचारसहस्रैस्तु यथावत्प्रतिपादितैः ॥
ततः पितृगणान्राजा निरूप्य श्रद्धयान्वितः ॥४४॥
सदोगृहगतान्विप्रान्याज्ञिकान्समलंकृतान् ॥
कृत्वेष्टदेवं पुरतो वैकुंठं साग्निहोत्रकम् ॥४५॥
आकांक्षन्कल्पितं लग्नं संवृत्ते स्वस्तिवाचने ॥
उपस्थितः सपत्नीकः शुद्धमांगल्यवेषधृक् ॥४६॥
स्वस्ति वाच्य द्विजाञ्छुद्धान्पुण्याहं वृद्धिकर्म च ॥
ततः संभृतसंभारो वरयामास ऋत्विजः ॥४७॥
वृतास्ते तु सपत्नीकं दीक्षयंतो नृपोत्तमम् ॥
विहृत्य दीक्षणायेष्टान्न्ययजन्सभ्यचोदिताः ॥४८॥
प्रणीय तं प्रज्वलंतं वेद्यामाहवनीयकम् ॥
त्रैलोक्यमंगलकरं किं साक्षाद्वैष्णवं महः ॥४९॥
सुप्रोक्षितं चाभिमंत्र्य अनुज्ञाप्य दिगीश्वरान् ॥
मुमुचुस्ते हयं मुख्यमंगेषु शुभलक्षणम् ॥५०॥
ततः स दीक्षितो राजा वाग्यतो रौरवीं त्वचम् ॥
अधिष्ठाय सदोमध्ये मृत्युंजय इव स्थितः ॥५१॥
निमंत्रितानां मुक्त्यर्थं चक्षुषा संदिदेश वै ॥
सुराणां रत्नपात्राणि महार्घाणि नृपाज्ञया ॥५२॥
सचिवः कारयामास भोजनाय समृद्धिमत् ॥
शुद्धसौवर्णपात्राणि मुनीनां च महीक्षिताम् ॥५३॥
द्विजानां भोजनार्थाय नवानि प्रत्यहं द्विजाः ॥
क्षत्रियाणां विशां विप्रा राजतानि शुभानि च ॥५४॥
कांस्यनिर्मलपात्राणि शूद्राणां भोजनाय वै ॥
अहन्यहनि पात्राणि भोजनांते द्विजोत्तमाः ॥५५॥
आकरेषु प्रपात्यंते प्रोच्छिष्टदलवज्जनैः ॥
तत्र यज्ञोत्सवे ये वै भोजनाय निमंत्रिताः ॥५६॥
तेषां पुत्राश्च पौत्राश्च प्रपौत्राश्चैव संततिः ॥
नित्यं पंचरसान्नानि बहुमानपुरःसरम् ॥५७॥
आदृतैर्भोजिता राज्ञ इंद्रद्युम्नस्य शासनात् ॥
कुटुंबवत्स्थितास्तत्र संस्था यावन्महाक्रतोः ॥५८॥
यद्देशीया जनास्तेषामधिष्ठाता च तान्नृपः ॥
नृपाणामनुसंधाता इंद्रद्युम्नप्रयाचितः ॥५९॥
नारदः समदर्शी तु परोपकृतिलोलुपः ॥
इंद्रादीनां सुरेंद्राणां देवर्षीणां नृपोत्तमः ॥६०॥
स्वयं नरपतिश्चर्यां चकार क्रतुपूर्त्तये ॥
षड्विधान्यन्नपानानि संस्कृतानि द्विधा नरैः ॥६१॥
देवानां भोजने तत्र मंत्रतंत्रविशारदैः ॥
मर्त्यानां नल विद्यायां कुशलैः संस्कृतानि वै ॥६२॥
क्षुत्पिपासानभिज्ञा हि सुधाहारा दिवौकसः ॥
तेषामपि अपूर्वत्वादाश्चर्यं तद्धि भोजनम् ॥६३॥
नराणां दुर्लभं मर्त्य इंद्रद्युम्नगृहेऽशनम्॥
इन्द्रद्युम्नस्य चेंद्रस्य विशेषो मर्त्यवासिता ॥६४॥
अत्यद्भुतकरं ह्येतत्प्रत्यहं च नवं नवम् ॥
संमाननादरावृद्धिर्भोज्यस्य द्विजसत्तमाः ॥६५॥
अन्योन्यस्पर्द्धयैवात्र प्रवर्द्धते परस्परम् ॥
सुगंधसुमनोमाल्यकस्तूर्यादिप्रलेपनम् ॥६६॥
चित्रसूक्ष्मदुकूलानि सोपधानासनानि च ॥
रत्नपल्यंकिका शय्या रत्नदंडप्रकीर्णकम् ॥६७॥
जातीलवंगकर्पूरैर्नागवल्लीदलानि च ॥
मनोहराणि गीतानि नृत्यानि विविधानि च ॥६८॥
भरतस्य मुनेः शिक्षापंडितै रचितानि च ॥
स्वस्ववंशयशोऽभिज्ञाः शतशः सूतमागधाः ॥६९॥
एतान्यन्यानि वस्तूनि दुर्लभान्यपि यानि वै ॥
त्रिदशाश्चापि मर्त्याश्चान्वभुज्यंत सुसादरम् ॥७०॥
एकतोऽन्यत्र चित्राणि न च हीनानि कुत्रचित् ॥
पातालवासिनां चापि भोजनं वै सुधाधिकम् ॥७१॥
यद्भुक्त्वा नानुवाञ्छन्ति पातालगमनं हि ते ॥
पुराणि यानि पाताले रत्नौघालोकितानि च ॥७२॥
विना सूर्यप्रकाशेन तादृशान्येव भूपतिः ॥
ददौ तेषां निवासाय येषु पातालबुद्धयः ॥७३॥
सुखासीनाश्च क्रीडंतो भुंजाना शेरते मुदा ॥
देवानामपि नान्यत्र भूमिस्पर्शनमस्ति वै ॥७४॥
इन्द्रद्युम्नपुरे तत्र स्वर्गादपि मनोहरे ॥
यदृच्छया सुखक्रीडासक्ता नो तत्यजुर्भुवम् ॥७५॥
अभिलाषोपजातं तु सुखं स्वर्गे वदंति हि ॥
अनिच्छयापि भो विप्राः सुखं सर्वत्र तत्र वै ॥७६॥
आदृत्य यत्नान्मन्यंते भोज्यं ते सादरं नराः ॥
न याचितः कोपि जनः कुतो वा स्यात्पराङ्मुखः ॥७७॥
राजाधिराजवेश्मानि जनानां स्वगृहैः समम् ॥
तदासीत्स्वगृहे तेषां न सदा सर्वसंभवः ॥७८॥
तत्र यत्कामनातीतं तद्वस्तु सुलभं बहु ॥
इत्थं प्रवर्तिते यज्ञे यज्ञेशप्रीतये मुदा ॥७९॥
पृथिवी हृतसर्वस्वा वाजिमेधेस्य भूपतेः ॥
या पूर्वं साभवद्भूयः स्वर्णवृष्टिसुभूषिता ॥८०॥
इत्थं प्रवृत्ते लोकानां तत्र त्रैलोक्यवासिनाम् ॥
दानसंमानभोज्यानां विधौ विधिवतोऽन्वहम् ॥८१॥
अश्वमेधं प्रति जना जगुर्गाथाः परस्परम् ॥
नेदृग्यागस्य संभारो विधेः शास्त्रप्रचोदितः ॥८२॥
इंद्रद्युम्नस्य राजर्षेर्न भूतो न भविष्यति ॥
न याचितारोऽदातारो मिथो यत्र निमंत्रिताः ॥८३॥
न कामभंगो यत्रासीद्देवानामपि भो द्विजाः ॥
ईदृक्समृद्धिः क्रतुराट् प्रवृत्तो भूपतेस्तदा ॥८४॥
अधिश्रद्धः सुसंपन्नः पूर्वस्मादपरोऽभवत् ॥
स्मृतिकाराः कल्पकारास्तथा शास्त्रप्रणेतृकाः ॥८५॥
यज्ञानुष्ठानकुशलाः सदाचारावतंसकाः ॥
अग्न्याधानाद्यवभृथप्रचारमनुपूर्वशः ॥८६॥
क्रतुः सदस्यानुमते नृपतेः प्रीतये द्विजाः ॥
न मंत्राः स्वरतो हीना वर्णतो वापि कर्हिचित् ॥८७॥
ये वै विधिविधातारस्ते वै कर्मप्रचारकाः ॥
प्रायश्चित्तनिमित्तेन प्रायश्चित्तनिबंधनात् ॥८८॥
कर्मोपघातो नो तत्र योगिनः कर्मयोगिनः ॥
यत्र सप्तर्षयो दिव्याः सदस्याः क्रतुसाक्षिणः ॥६९॥
प्रचारयंति कर्माणि गुणदोषविभागिनः ॥
याज्ञवल्क्यादयस्तेऽत्र मुनयस्त्वृत्विजो वृताः ॥९०॥
सदोगतास्ते मुनयः परस्परकथांतरे ॥
वाकोवाक्यानि सूक्तानि गुह्योपनिषदानि च ॥९१॥
गाथाः पौराणिकीर्विप्रा विष्णुभक्तिपुरःसराः ॥
चरितानि हरेः सर्वकल्मषौघहराणि च ॥९२॥
तत्र संवर्तयामासुस्ते सभायां महीक्षितः ॥
तस्य यज्ञे हविः प्राशुः प्रत्यक्षं वह्निमध्यगाः ॥९३॥
मुदितास्त्रिदशा विप्रा महेंद्रप्रमुखामखे ॥
चिरप्रवासिनो देवा नास्मरंतामरावतीम् ॥९४॥
अमृतं हि हविस्तेषां कल्पितं ब्रह्मणा पुरा ॥
तत्प्राश्य मुदिता देवा वीर्यवन्तश्चिरायुषः ॥९५॥
यागानुष्ठानविषयादन्यत्र विषयान्बहून् ॥
इन्द्रद्युम्नेन रचितान्समस्तानुपभुंजते ॥९६॥
तत्र ये नागराजानः पातालतलवासिनः ॥
ततोऽधिकान्मर्त्यलोके विषयानुपभुंजते ॥९७॥
पातालगमनं ते वै नेहंते मनसा धुवम् ॥
इत्थं प्रवर्तितो यज्ञस्त्रैलोक्यप्रीतिकारकः ॥९८॥
इन्द्रद्युम्नस्य नृपतेः क्षेत्रेऽस्मिन्पुरुषोत्तमे ॥
जगदीशप्रसादाय पितामहनिदेशतः ॥९९॥
एकोनं क्रमतः संस्थामवाप पृथिवीपतिः ॥
सहस्रं हयमेधस्य यथावद्विधिचोदितम् ॥१००॥
ततः साहस्रिके यज्ञे वाजिमेधे महीपतिः ॥
दिनेदिने दिव्यगतिर्बभूव नृपतिस्तदा ॥१॥
सुत्यायाः सप्त दिवसाद्या रात्रिरभवत्पुरा ॥
तस्यास्तुरीयप्रहरे दध्यौ स विष्णुमव्ययम् ॥२॥
ध्याने तस्मिन्ददर्शासौ महाभाग्यवशान्नृपः ॥
प्रत्यक्षमिव स श्वेतद्वीपं स्फटिकनिर्मितम् ॥३॥
समंतात्परिवार्यैनं तिष्ठंतं क्षीरसागरम् ॥
महाकल्पद्रुमैः पुष्पगंधामोदिदिगंतरैः ॥४॥
फलपल्लववल्केषु बहिरंतश्च सर्वशः ॥
शंखचक्रांकितैः शुभ्रैः सर्वालंकारभूषितः ॥५॥
महामंजिष्ठवर्णैश्च मूर्तिभिस्तैर्मुरद्विषः ॥
तन्मध्ये घटितं दिव्यमणिभिर्मंडपोत्तमम् ॥६॥
मध्यस्थसूर्यवद्भासिरत्नसिंहासनोज्ज्वलम् ॥
क्षीराब्धिशीतकल्लोलमंदवातमनोहरम् ॥७॥
तन्मध्ये ददृशे देवं शंखचक्रगदाधरम् ॥
नीलजीमूतसंकाशं वनमालाविभूषितम् ॥८॥
सर्वलावण्यभवनं सौंदर्यश्रीनिकेतनम् ॥
निर्भर्त्सयंतं वपुषा पिनद्धं दिव्यभूषणम् ॥९॥
दक्षपार्श्वे स्थितं तत्र अनंतं धरणीधरम् ॥
कोटिचन्द्रप्रतीकाशं हिमाद्रिसदृशप्रभम् ॥११०॥
फणामुकुटविस्तारच्छत्रीभूतं मनोहरम् ॥
मणिकुंडलयुग्मांकं चारुनीलनिचोलकम् ॥११॥
हललांगलशंखारिस्फुरद्बाहुचतुष्टयम्॥
हारकेयूरवलय मुद्रिकाभिरलंकृतम् ॥१२॥
मेखलाकटिसूत्राढ्यं दिव्यरत्नप्रसाधनम् ॥
दिव्यहालाक्षीबमूर्तिं चारुहासं सुनेत्रकम् ॥१३॥
दक्षपार्श्वस्थितां चास्य लक्ष्मीं तां शुभलक्षणाम् ॥
वराभयाब्जहस्तां वै कुंकुमाभां सुलोचनाम् ॥१४॥
त्रैलोक्ययुवतीवृन्ददृष्टांताद्भुतविग्रहाम् ॥
ददर्श पद्मासनगां लावण्यांबुधिपुत्रिकाम् ॥१५॥
पितामहं च ददृशे पुरतोऽस्य कृतांजलिम् ॥
वामपार्श्वस्थितं चक्रं नानामणिमयं विभोः ॥१६॥
सनकाद्यैर्मुनींद्रैस्तं स्तूयमानं जगद्गुरुम् ॥
दृष्ट्वा स्वप्ने स राजा वै प्रहृष्टो द्विजसत्तमाः ॥१७॥
अदृष्टपूर्वरूपं तं ज्योतिर्मयमनंतकम् ॥
तुष्टाव तत्र ध्यानस्थो हर्षगद्गदया गिरा ॥१८॥
॥ इन्द्रद्युम्न उवाच ॥
नमस्ते जगदाधार जगदात्मन्नमोऽस्तु ते ॥
कैवल्यत्रिगुणातीत गुणांजन नमोऽस्तु ते ॥१९॥
सुशुद्धनिर्मलज्ञानस्वरूपाय नमोऽस्तु ते ॥
शब्दब्रह्माभिधानाय जगद्रूपाय ते नमः ॥१२०॥
संसारपतितश्रांत दुःखध्वंस नमोऽस्तु ते ॥
दुर्भेद्यहृदयग्रंथिभेदकाय नमोऽस्तु ते ॥२१॥
द्विसप्तभुवनागारमूलस्तंभाय ते नमः ॥
ब्रह्मांडकोटिघटनाशिल्पिने चक्रिणे नमः ॥२२॥
करुणामृतपाथोधिसुधाधाम्ने नमो नमः ॥
दीनोद्धारैकगुह्याय कृपापाथोधये नमः ॥२३॥
प्रकाशकानां सूर्यादिज्योतिषां ज्योतिषे नमः ॥
प्रतिस्वस्वनदीप्ताय अन्तःपापाग्नये नमः ॥२४॥
पावकाय पवित्राय पवित्राणां नमो नमः ॥
गरिष्ठाय वरिष्ठाय द्राघिष्ठाय नमो नमः ॥२५॥
नेदिष्ठाय दविष्ठाय क्षोदिष्ठाय नमो नमः ॥
वरेण्याय सुपुण्याय नारायण नमोऽस्तु ते ॥२६॥
परित्राहि जगन्नाथ दीनबन्धो नमोऽस्तु ते ॥
निस्तीर्णोऽहं भवांभोधिं प्राप्य त्वां तरणिं सुखाम् ॥२७॥
त्वयि दृष्टे रमानाथ क्लेशा व्यपगता मम ॥
चिदानंदस्वरूपं त्वां प्राप्तानां दुःखसंक्षयः ॥२८॥
ध्रुवं नाथ समुत्पन्नपरमानंदहेतुकम् ॥
त्राहि त्राहि भवांभोधिमग्नं मां दीनचेतसम् ॥२९॥
मध्याह्नार्कोदिते व्योम्नि कुतः संतमसोदयः ॥
ध्यानस्थितः स्तुवन्नेवं प्रणम्य जगदीश्वरम् ॥१३०॥
ध्यानावसाने स पुनः स्वयं जाग्रदबुध्यत ॥
स्वप्नांत इन्द्रद्युम्नोऽपि सस्मारात्मानमात्मना ॥३१॥
अत्यद्भुतमिदं स्वप्नं दृष्ट्वा च नृपकुंजरः ॥
मेने कृतार्थमात्मानं हयमेधक्रतोस्तथा ॥३२॥
सहस्रं सफलं चैव स्वभाग्यं समुपस्थितम् ॥
न हि देवर्षिवचनं वृथा भवति कर्हिचित् ॥३३॥
प्रत्यक्षं मे कथं नाथः स्वयमत्र भविष्यति ॥
इति चिंताकुलो रात्रिशेषं नीत्वा विशांपतिः ॥३४॥
शशंस नारदस्याग्रे यथा स्वप्नोऽन्वभूयत ॥
स चापि नारदः प्राह शोकस्ते विगतो नृप ॥३५॥
अरुणोदयकाले हि भगवंतं ददर्श यत् ॥
दशाहात्फलदः स्वप्नस्तस्मिन्काले नृपोत्तम ॥३६॥
क्रत्वंते भगवानत्र प्रत्यक्षस्ते भविष्यति ॥
यदाह मद्गिरा त्वां हि चराचरगुरुर्विधिः ॥३७॥
सोऽपि त्वया जगत्स्रष्टा स्वप्नेऽस्मिन्नवलोकितः ॥
तदनुष्ठीयतां यज्ञः पराग्रे न प्रकाशय ॥३८॥
स्वप्नोऽयं नृपशार्दूल दुर्बोधाचरितो हरेः ॥
किंतु भाग्यवतस्त्वेव स्वप्नस्तादृक्प्रजायते ॥१३९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे सप्तदशोऽध्यायः ॥१७॥
N/A
References : N/A
Last Updated : October 06, 2024
TOP