पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ३८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ जैमिनिरुवाच ॥
इति दत्त्वा वरं तस्मै श्वेतराजाय वै पुरा ॥
जगामांतर्हितो विप्राः प्रासादांतः स्थितो हरिः॥१॥
समस्तजगतां या श्रीः सृष्टिस्थितिविनाशकृत् ॥
वैष्णवीशक्तिरतुला परिवेषणकारिणी ॥२॥
सुधोपमं सुपक्वान्नं भुंक्ते नारायणः प्रभुः ॥
तदुच्छिष्टोपभोगो हि सर्वाघक्षयकारकः ॥३॥
न तादृशसमं पुण्यं वस्त्वस्ति पृथिवीतले ॥
पापसंस्कारकर्तॄणां संपर्कात्तु न दुष्यति ॥४॥
पद्मायाः सन्निधानेन सर्वे ते शुचयः स्मृताः ॥
विष्ण्वालयगतं तद्धि निर्माल्यं पतितादयः ॥५॥
स्पृशंति चेन्न दुष्टं तद्यथा विष्णुस्तथैव तत् ॥
व्रतस्था विधवाश्चैव सर्वे वर्णाश्रमास्तथा ॥६॥
तत्प्राशनेन पूयन्ते दीक्षिताश्चाग्निहोत्रिणः ॥
दरिद्रः कृपणो वापि गृहस्थः प्रभुरेव वा ॥७॥
स्वदेश्याः परदेश्या वा सर्वे तत्र समागताः ॥
नाभिमानं प्रकुर्वीरन्विष्णोर्निर्माल्यभक्षणे ॥८॥
भक्त्या लोभात्कौतुकाद्वा क्षुधासंशमनेन वा ॥
आकंठभक्षितं तद्धि पुनाति सकलांहसः ॥९॥
सर्वरोगोपशमनं पुत्रपौत्रप्रवर्द्धनम् ॥
दारिद्र्यहरणं श्रेष्ठं विद्यायुःश्रीप्रदं शुभम् ॥१०॥
पक्षपातो महांस्तत्र विष्णोरमिततेजसः ॥
निन्दन्ति ये तदमृतं मूढाः पंडितमानिनः ॥११॥
स्वयं दंडधरस्तेषु सहते नापराधिनः ॥
येषामत्र स दण्डश्चेद्ध्रुवा तेषां हि दुर्गतिः ॥१२॥
कुम्भीपाके महाघोरे पच्यन्ते तेऽतिदारुणे
तं न विक्रयः क्रयो वापि प्रशस्तस्तस्य भो द्विजाः ॥१३॥
निर्माल्यं जगदीशस्य नाशित्वाश्नामि किञ्चन ॥
इति सत्यप्रतिज्ञो यः प्रत्यहं तच्च भक्षयेत् ॥१४॥
सर्वपापविनिर्मुक्तः शुद्धांतःकरणो नरः ॥
स शुद्धं वैष्णव स्थानं क्रमाद्याति न संशयः ॥१५॥
चिरस्थमपि संशुष्कं नीतं वा दूरदेशतः ॥
यथातथोपयुक्तं तत्सर्वं पापापनोदनम् ॥१६॥
कुक्कुरस्य मुखाद्भ्रष्टं तदन्नं पतितं यदि ॥
ब्राह्मणेनापि भोक्तव्यमितरेषां तु का कथा ॥१७॥
उपोष्य तिष्ठता वापि नोपवासं च कुर्वता ॥
अशुचिर्वाप्यनाचारो मनसा पापमाचरन् ॥
प्राप्तमात्रेण भोक्तव्यं नात्र कार्या विचारणा ॥१८॥
नैवेद्यान्नं जगद्भर्त्तुर्गांगं वारि समं द्वयम् ॥
दृष्टेः स्वर्गादि संप्राप्तिर्भक्षणाच्चाघनाशनम् ॥१९॥
जगद्धात्र्या हि यत्पक्वं वैष्णवेऽग्नौ सुसंस्कृते ॥
भुक्तेऽन्वहं चक्रपाणिर्युगमन्वंतरादिषु ॥२०॥
सप्तद्वीप धरामध्ये सान्निध्यं नेदृशं हरेः ॥
यादृशं नीलगोत्रेऽस्मिन्व्याजमानुषचेष्टितम् ॥२१॥
दारुरूपं परं ब्रह्म सर्वचाक्षुषगोचरम् ॥
प्रकाशते भो मुनयो न दृष्टं न श्रुतं क्वचित् ॥२२॥
तस्मै प्रवृत्तिरूपाय ब्रह्मणे परमात्मने ॥
प्रवृत्तिरूपा शक्तिः श्रीः प्रवर्तयति यद्धविः ॥२३॥
तदश्नाति जगन्नाथस्तच्छेषं दुरितापहम् ॥
किमत्र चित्रं भो विप्रा यदुक्तं मुक्तिकारणम् ॥२४॥
नाल्पपुण्यवतां तत्र विश्वासश्च प्रजायते ॥
वेदाचारप्रधानेषु युगे ह्येतत्प्रकीर्तितम् ॥२५॥
महिमानं न वेदास्य विशेषाच्छ्रूयतां कलौ ॥
घोरे कलियुगे तस्मिंस्त्रिपादो धर्मविप्लवः ॥२६॥
धर्मः स्यादेकपादस्तु क्वचित्तस्य भयाच्चरेत् ॥
सर्वेनृतप्रधाना हि दांभिकाः शब्दवृत्तयः ॥२७॥
प्रायश्च धर्मविमुखा जिह्वोपस्थपरायणाः ॥
न ध्यायंति तपस्यन्ति व्रतयंति कदाचन ॥२८॥
अधर्मबहुलाः सर्वे हिंसका लोलुपाः परम् ॥
परेषां परिवादेन तुष्यन्ति स्वकृतं विना ॥२९॥
प्रसंगात्कौतुकाद्वापि निघ्नंति परकर्म वै ॥
क्षुद्रकार्याशयात्स्वस्य परकार्यप्रबाधकाः ॥३०॥
धर्मलब्धां स्त्रियं रम्यामवज्ञाय स्ववेश्मनि ॥
परयोषिति निंद्यायां प्रसक्ताः पशुचेष्टिताः ॥३१॥
अग्निहोत्रादिकं वापि व्रतं नान्यत्क्वचित्क्वचित् ॥
जीविका तद्द्विजातीनां येषां वा पारलौकिकम्॥३२॥
अव्रताधीतवेदेन अन्यायाप्तधनेन च ॥
वित्तशाठ्येन च कृतं न तथा फलदायि तत् ॥३३॥
प्रायः कलियुगे भूपाः प्रजावनपराङ्मुखाः ॥
करादानपरा नित्यं पापिष्ठाश्चौर्यवृत्तयः ॥३४॥
वर्णसंकरिणः सर्वे शूद्रप्रायाः कलौ युगे ॥
हर्तारः पार्थिवा एव शूद्राश्च नृपसेवकाः ॥३५॥
श्रौतस्मार्तादिकं कर्म न तथा सदनुष्ठितम् ॥
युगे चतुर्थे भो विप्राः परलोकाय कल्पिते ॥३६॥
दानधर्मः परो ह्येष नान्यो धर्मः प्रशस्यते ॥
कर्मणा मनसा वाचा हितमिच्छेद्द्विजन्मनाम् ॥३७॥
इति होवाच भगवान्ब्राह्मणो मामकी तनुः ॥
ब्राह्मणा यस्य संतुष्टाः सन्तुष्टस्तस्य चाप्यहम् ॥३८॥
उभयत्र समो भूयाद्ब्राह्मणे च जनार्दने ॥
यद्वदंति द्विजा वाक्यं तत्स्वयं भगवान्वदेत् ॥३९॥
यथातथा वर्तमानो वर्णानां ब्राह्मणो गुरुः ॥
भगवानपि देवेशः स साक्षाद्ब्राह्मणप्रियः ॥४०॥
सदावतारं कुरुते ब्राह्मणार्थं जनार्दनः ॥
तत्पालनार्थं दुष्टान्वै निगृह्णाति युगे युगे ॥४१॥
ससर्ज ब्राह्मणानग्रे सृष्ट्यादौ स चतुर्मुखः ॥
सर्वे वर्णाः पृथक्पश्चात्तेषां वंशेषु जज्ञिरे ॥४२॥
तस्मात्कलियुगे तस्मिन्ब्राह्मणो विष्णुरेव च ॥
उभौ गतिश्च सर्वेषां ब्राह्मणानां हरिर्गतिः ॥४३॥
हरिरेवात्र सर्वेषां गतिः प्राप्ते कलौ युगे ॥
शालग्रामादिके क्षेत्रे स्मर्यते कीर्त्यतेऽपि च ॥४४॥
तस्मिन्नीलाचले पुण्ये क्षेत्रे क्षेत्रज्ञवर्ष्मणि ॥
जीवभूतः स सर्वेषां दारुव्याजशरीरभृत् ॥४५॥
कलिकल्मषनाशाय प्रायो दुष्कृतकर्मणाम् ॥
दर्शनस्तवनोच्छिष्टभोजनैर्मुक्तिदायकः ॥४६॥
उच्छिष्टेन सुरेशस्य व्याप्तं यस्य कलेवरम् ॥
तदाहारस्तदात्मा हि लिप्यते न स पातकैः ॥४७॥
निवेदनीयमन्यासु मूर्तिष्वीशस्य वर्तते ॥
पावनं तदपि प्रोक्तमुच्छिष्टं तु विमोचकम् ॥४८॥
भुंक्ते त्वत्रैव भगवान्पश्यत्यन्यत्र चक्षुषा ॥
पुरायं प्रार्थितो देवो योगिभिः परिवेष्टितैः ॥४९॥
निर्माल्योच्छिष्टभोगेन तव मायां जयेमहि ॥
अत्यंतस्तिमिताक्षाणामनायासेन मुक्तिदः ॥५०॥
शयनासनभोगाद्यै रमते च श्रिया सह ॥
अत्र चेष्टा भगवतो वेदार्थ इति धार्यताम् ॥५१॥
समतिक्रांतवेदो हि न कदाचित्प्रवर्तते ॥
वेदरक्षार्थमेवास्य संभवो हि युगे युगे ॥५२॥
प्रमाणभूतो भगवान्विरुद्धं कथमाचरेत् ॥
तस्मिन्विरुद्धं चरति जगदेव तथा भवेत् ॥५३॥
आचारेण हि वेदार्थो नियतो धामतां गतः ॥
मध्यदेशभवः पूर्वमत्रागच्छद्द्विजोत्तमः ॥५४॥
शिष्टाचारैः सुविमलः शास्त्रार्थपरिनिष्ठितः ॥
सदा शांतः सदा दांतः कायवाङ्मनसैर्गृही ॥५५॥
स तीर्थविधिना देवं समभ्यर्च्य च साग्निकः ॥
त्रिरात्रमत्रोषितवान्विष्ण्वर्चनपरः शुचिः ॥५६॥
यज्ञशेषं गृहस्थानां भोक्तव्यमिति शास्त्रतः ॥
देवोच्छिष्टं न जग्राह अन्यपाकाभिशंकया ॥५७॥
दैवतैरत्र संस्कार्यो देवयोग्यः कथं भवेत् ॥
अयोग्यत्वाच्च नैवेद्यमग्राह्यं च भवेद्ध्रुवम् ॥५८॥
अगृहीते च नैवेद्ये श्रोत्रियेण तदा द्विजाः ॥
सर्वे च तस्यानुचरा नाभुंजंत निवेदितम् ॥५९॥
ततः स व्याधिसंमग्नो विह्वलीभूतविग्रहः ॥
सकुटुंबोऽभवन्मूको भगवद्द्रोहसंयुतः ॥६०॥
मनसा चिन्तयत्येवं निर्निमित्तं कथं नु मे ॥
कुटुम्बसहितस्याभूत्पीडा सर्वांगभंजिनी ॥६१॥
एवं चिन्तयमानस्य त्रिरात्रांतेऽभवन्मतिः ॥
नेदृशी व्याधिपीडा च सर्वेषामेकदा भवेत् ॥६२॥
को वा द्रोहः कृतोऽस्माभिरेतस्मिन्पुरुषोत्तमे ॥
न बुद्धिपूर्वकः किं स्यात्ततो मे व्याधिकारणम् ॥६३॥
मुहुरित्थं चिन्तयित्वा दध्यौ नारायणं प्रभुम् ॥
ध्यानावसाने तुष्टाव शास्त्रतत्त्वार्थदर्शकः ॥६४॥
॥ शांडिल्य उवाच ॥
चतुर्दशापि या विद्या धर्मनिर्णयहेतवः ॥
ताः सर्वास्तव वाक्यानि मुखपद्मविनिर्गताः ॥६५॥
ताभिरेवाचरेद्धर्ममिति शास्त्रार्थनिश्चयः ॥
तस्य धर्मस्य रक्षार्थमवतारो युगे युगे ॥६६॥
तमुल्लंघ्य वर्त्तमानो भवद्द्रोहकरो ध्रुवम् ॥
अहं ते देवदेवेश कर्मणा मनसा गिरा ॥६७॥
धर्मशास्त्रमतिक्रम्य न वर्त्तेऽप्यर्थकामयोः ॥
अनेक जन्मसाहस्रैः संचितं पापसंचयम् ॥६८॥
दग्धुमत्रागतो देव त्वद्दर्शनदवाग्निना ॥
कोऽपराधः कृतो देव त्वच्छास्त्रपथि वर्तिना ॥
सर्वांगं वाधते यस्मादुग्रो व्याधिरहेतुकः ॥६९॥
ज्ञानतोऽज्ञानतो वापि त्वत्पादसरसीरुहे ॥
कृतोऽपराधो यो देव तं क्षमस्व कृपांबुधे ॥
भूमौ स्खलितपादानां भूमिरेवावलंबनम् ॥७०॥
त्वयि जातापराधानां त्वमेव शरणं प्रभो ॥
तवापराधजं पापं त्वमेव च क्षमस्व मे ॥७१॥
वह्निसंतापतो नश्येद्वह्निसंतापजो व्रण ॥
तदिमां दुर्दशां देव प्रारब्धां पापबीजजाम् ॥७२॥
लीलापांगेन शमय अपवर्गैकहेतुना ॥
मामुद्धर जगन्नाथ पतितं शोकसागरे ॥७३॥
त्वद्दर्शनपथं यातः किं नु शोच्यो भवेन्नरः ॥
निसर्गकरुणांभोधे यस्त्वद्दृष्टिपथं गतः ॥७४॥
सदानन्दाब्धिसंमग्नो न शोचति न कांक्षति ॥
नाल्पभाग्यो ह्यहं देव त्वामद्राक्षं स्वचक्षुषा ॥७५॥
अपवर्गांतरायो मे ध्रुवमेषा विभीषिका ॥
तत्प्रसीद जगन्नाथ सेवकं द्रोहिणं सदा ॥७६॥
सेव्यसेवकसंबंधादपराधं क्षमस्व मे ॥
इति स्तवांते तस्याशु देहपीडागमत्तदा ॥७७॥
ददर्श सोथ गोविन्दं नृसिंहं भक्तवत्सलम् ॥
दिव्यसिंहासनारूढं दिव्यालंकारभूषितम् ॥७८॥
आददानं श्रिया दत्तं परमान्नं करांबुजे ॥
ग्रासावशेषं पात्रेषु क्षिपंतं च मुहुर्मुहुः ॥७९॥
यावद्दत्तं वस्तुजातं तावदश्नंतमत्वरम् ॥
विलाससस्मितापांगं हस्ते लक्ष्म्यापवर्जितम् ॥८०॥
तं दृष्ट्वा विस्मयाविष्टः शांडिल्यः स द्विजोत्तमः ॥
सस्मारात्मकृतं द्रोहं नैवेद्याग्रहणे स्थितम् ॥८१॥
क्वाहं प्रादेशिकः प्राज्ञः सर्वज्ञाननिधिर्भवान् ॥
क्व त्वं महदहंकारभूततत्त्व विसर्जकः ॥८२॥
त्वन्मायामूढमनसो जानीयुः कथमीश ते ॥
निरंकुशामनिर्वाच्यामिच्छां सृष्टिलयात्मिकाम् ॥८३॥
इति स्तुवंतं नृहरिस्तेनैवोच्छिष्टपाणिना ॥
सिषेच ग्रासशिष्टांश्च सर्वांगे द्विजसत्तमम् ॥८४॥
तैः सिक्तैर्ब्राह्मणः सद्यः सुधासेकोपमैर्मुदा ॥
बभौ दिव्यवपुः श्रीमांञ्जीवन्मुक्तो यथा मुनिः ॥८५॥
महिमानं हि भक्तेस्तु भक्ता एव विजानते ॥
महतीं सूतिपीडां तु वन्ध्या नानुभवेत्क्वचित्॥ ८६॥
इत्युदीर्य स्वयं गात्रादुच्छिष्टं परमात्मनः ॥
भुक्त्वा कृतार्थमात्मानं मेने श्रोत्रियपुंगवः ॥८७॥
साधारणं धर्मशास्त्रं क्षेत्रेऽस्मिन्न विचार्यते ॥
अयं तु परमो धर्मो यो देवेन प्रकीर्तितः ॥८८॥
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥
इत्थं संचितयन्विप्रः कुटुम्बार्थेऽवशेषितम् ॥८९॥
आजहार स्वयं मुष्ट्या ध्यानभङ्गमवाप च ॥
प्रबुद्धश्चिंतयामास स्वप्नं तं विस्मिताशयः ॥९०॥
अयमेव मम द्रोहो ह्यवज्ञासिषमीश्वरम् ॥
नैवेद्याशन माहात्म्यमजानन्परमाद्भुतम् ॥९१॥
अष्टादश चतुर्दश ब्रह्मांडं यत्पदांबुजम् ॥
धर्मद्रवेण प्रक्षाल्य अपुनात्स्वं तदंबुना ॥९२॥
यमर्चयंति शक्राद्या दिव्यभोगैरनुत्तमैः ॥
स मानुष्यकृतं भुंक्ते क्षेत्रेस्मिन्महदद्भुतम् ॥९३॥
इत्याश्चर्यपरस्तेन स्वप्नलब्धेन वै द्विजाः ॥
नैवेद्येन कुटुम्बं स्वं मार्जयामास सादरम् ॥९४॥
ततः सर्वे नीरुजास्ते सुवाक्याहृष्टमानसाः ॥
पुनर्जन्म मन्यमानाः शशंसुः क्षेत्रमुत्तमम् ॥९५॥
नास्त्यस्य सदृशं क्षेत्रं सप्तद्वीपावनीतले ॥
यत्र स्वोच्छिष्टदानेन पापान्मोचयते नरान् ॥९६॥
पुरुषोत्तममाहात्म्यं क्षेत्रं परमदुर्लभम् ॥
यतः स्वर्गश्च भोगश्च मुक्तिश्चैव करे स्थिता ॥९७॥
आर्तानां भवकांतारे भाग्यादत्र समीयुषाम् ॥
नानाभोगोपतृप्तानां मुक्तिमार्गः सुखं भवेत् ॥९८॥
इत्थं ते हर्षमापन्नाः प्रलपंतः परस्परम् ॥
यथेष्टं भोजयामासुरन्योन्यं च निवेदितम् ॥९९॥
ततस्ते निर्मला विप्रास्तरुणादित्यवर्चसः॥
देवा इव बभुः सर्वे निष्पापा निर्गतज्वराः ॥१००॥
नैवेद्याशनमाहात्म्यं कथितं वो द्विजोत्तमाः ॥
श्रुत्वापि महतः पापान्मुच्यते पापकृत्तमः॥१॥
निर्माल्यग्रहणस्यास्य फलं वक्तुं न शक्नुमः॥
साक्षाद्ब्रह्मस्वरूपेण ध्रियते वपुषा हि तत् ॥२॥
पुष्पचंदनमाल्यादि यदंगैरुपधार्यते॥
अपनीतं यथाकाले निर्माल्यं तत्प्रकीर्तितम् ॥३॥
धारणं शिरसा तस्य तेनांगे चापि मार्जनम् ॥
सार्द्धानां कोटितीर्थानामभिषेकफलप्रदम् ॥
भक्षणं गुरुतल्पादि पातकौघविनाशनम् ॥४॥
लेप्या मूर्त्तिरियं विष्णोरन्येभ्यो लेप उत्तमः ॥
श्रीखंडागुरुकर्पूरकस्तूरीकुंकुमादिभिः ॥५॥
प्रपिष्टलेपस्नेहेन चंदनागुरुदारुणा ॥
शरीरे वासुदेवस्य इंद्रद्युम्नेन कारितः ॥६॥
प्रत्यहं भो द्विजश्रेष्ठा वर्षांते चापनीयते ॥
लेप्यानां लेपनिर्मोके दर्शनं न प्रशस्यते ॥७॥
अंतरा चेत्पतेल्लेपः पिष्टं लिंपेत्पुनश्च तम् ॥
नान्यलेपः प्रशस्यो हि स विष्णोरंगसंमतः ॥८॥
चंदनार्द्रशरीरं च दृष्ट्वा विष्णुं पुरा किल ॥
सौगंध्याल्लोभयामास नृपपुत्रः स मूढधीः ॥९॥
तस्य प्रीत्यै नियुक्तस्तु आकृष्यांगात्प्रलेपनम् ॥
ददौ नृपकुमाराय स लिलिंपे हृदि स्वके ॥११०॥
तावत्प्रदेशं कुष्ठं वै श्वेतं तस्याभवत्क्षणात् ॥
स आसीत्कुष्ठपाणिस्तु तस्मै यो दत्तवान्किल ॥११॥
ततो वर्षावधिष्ठायी लेपः पुण्यतमः स्मृतः ॥
निर्माल्यानां प्रधानं तद्घ्राणादंहोविनाशनम् ॥१२॥
पुरा दमनकं दैत्यं समुद्रोदकचारिणम् ॥
बाधितारं जनानां वै मायाबलपराक्रमम्॥१३॥
भगवानपि मायावी पितामहनिदेशतः ॥
मत्स्यावतारेण विभुः प्रविश्य वरुणालयम् ॥१४॥
अन्विष्याकृष्य वेलायां निष्पिपेष महीतले ॥
मधोः शुक्लचतुर्दश्यां पतितो दानवोत्तमः ॥१५॥
भगवत्करसंपर्कात्सुगंधिरभवत्तृणम् ॥
तस्यैव नाम्ना त सम्यग्जग्राहाश्चर्यमानसः ॥१६॥
मालां कृत्वा हृत्प्रदेश मिलितं वनमालया ॥
अचिंतयत्तस्य गंधं यावद्वस्तु चिरस्थितम् ॥१७॥
तस्यापि गंधः सर्वेषां पुष्पाणां सौरभापहः ॥
वर्णस्तु भगवन्मूर्तेस्तुल्योऽभूत्स सुशोभनः ॥१८॥
तस्य माला भगवतः परमप्रीतिकारिणी ॥
शुष्का पर्युषिता वापि न दुष्टा भवति क्वचित् ॥१९॥
तस्य सुग्रथितां मालां दत्त्वा दमनकारये ॥
उत्पादयेन्महाप्रीतिं विष्णोर्या मुक्तिदायिनी ॥१२०॥
अंगापकर्षितां मालां भक्त्या यो धारयेन्नरः ॥
हयमेधसहस्रस्य फलं प्राप्नोत्यसंशयम् ॥२१॥
तुलसीकल्पितां मालां विष्णोरंगापकर्षिताम् ॥
धारयेन्मूर्ध्नि कंठे च भक्तो यो विन्यसेद्धदि ॥
तावत्संख्यं वाजिमेधफलमव्यग्रमश्नुते ॥२२॥
निर्माल्यतुलसीपत्रं यावद्भक्षयते हरेः ॥
तावज्जन्मसहस्रं तु विष्णुलोके महीयते ॥२३॥
हरेर्नैवेद्यमन्नं च तुलसीदलमिश्रितम् ॥
प्रतिग्रासं सोमपानं फलं तत्सममश्नुते ॥२४॥
यावज्जीवं तु भुंजानो ध्रुवं मोक्षमवाप्नुयात् ॥२५॥
अर्घ्यशेषादिकं विष्णोस्तथा चाचमनोदकम् ॥
पादोदकं स्नानवारि प्रत्येकं पापनाशनम् ॥२६॥
सर्वतीर्थाभिषेकाणां फलदं ग्रहनाशनम् ॥
अलक्ष्मीपापरक्षोघ्नं भूतवेतालनाशनम् ॥२७॥
शवाद्यमेध्यसंस्पर्शदोषनाशनमुत्तमम् ॥
सर्वदीक्षाव्रतफलप्रदमैश्वर्यवर्द्धनम् ॥२८॥
अकालमृत्युहरणं व्याधिव्यूहनिबर्हणम् ॥
सुरोपमांसभक्ष्यादि पापसंघविनाशनम् ॥२९॥
एतैराप्लुतदेहस्तु शृणुयाद्यदि सूतकम् ॥
नाशौचं विद्यते तस्य सर्वकर्माधिकारिणः ॥१३०॥
यावज्जीवं प्रतिज्ञाय यस्त्वेतान्येकमेव वा ॥
गृह्णीयाद्भूरि वा स्वल्पं मुच्येद्विष्णोः प्रसादतः ॥३१॥
एवं तत्र वसन्देवो लोकानुग्रहकांक्षया ॥
रममाणः श्रिया सार्द्धमनायासविमोचकः ॥३२॥
निर्माल्यपादांबुनि वेदनीयदानैस्तदालोकनतत्प्रणामैः ॥
पूजोपहारैश्च विमुक्तिदाता क्षेत्रोत्तमेस्मिन्पुरुषोत्तमाख्ये ॥१३३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे दमनकचरितंनामाष्टत्रिंशोऽध्यायः ॥३८॥
N/A
References : N/A
Last Updated : October 25, 2024
TOP