पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ३२
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ जैमिनिरुवाच ॥
अतः परं प्रवक्ष्यामि दक्षिणामूर्तिदर्शनम् ॥
पदेपदेश्वमेधस्य फलं यत्रोपलभ्यते ॥१॥
ततो नानाविधैर्दिव्यैर्भक्ष्यभोज्यादिकैस्तथा ॥
यथाशक्त्युपचारैस्तु गंधैर्माल्यैश्च पूजयेत् ॥२॥
रामं कृष्णं सुभद्रां च गीतनृत्यादिकैस्तथा ॥
प्रेक्षणीयैश्च विविधैः श्रद्धया चोपपादितैः ॥३॥
वस्त्रचंदनमाल्याद्यैः पूजयित्वा द्विजोत्तमान् ॥
भगवद्ब्राह्मणांश्चैतान्महाभागवतांस्तथा ॥४॥
ततो नयेद्दक्षिणाभिमुखांस्तांस्त्रिदशेश्वरान् ॥
उत्सवं च महत्कृत्वा पूर्वानयनवद्धरेः ॥५॥
तस्मिन्काले हरिं पश्येद्व्रजंतं दक्षिणामुखम् ॥
समं सुभद्रां यो मर्त्यो न स प्राकृतमानुषः ॥६॥
स्नानार्थमागता देवाः स्नापयित्वा जगद्गुरुम् ॥
आकाशेऽपि ससंबाधास्तावत्कालं स्थिता हरिम् ॥
द्रष्टुं व्रजंतं याम्याशावदनं भवनाशनम् ॥७॥
धर्मशास्त्रेषु यावंति धर्मकर्माणि संति वै ॥
तानि सर्वाणि संद्रष्टुं व्रजंतं दक्षिणामुखम् ॥८॥
स्नानदर्शनजं पुण्यं समग्रं लभते तु सः ॥
स्नातं मुरारिं यः पश्येद्व्रजंतं दक्षिणामुखम्॥ ९॥
नीराजयित्वा देवेशं रामेण सह भद्रया ॥
प्रासादांतः प्रवेश्याथ न पश्येद्वै कथंचन ॥१०॥
एतत्तु विस्तरेणोक्तं पूर्वमेव मया द्विजाः ॥११॥
॥ मुनय ऊचुः ॥
भगवन्यत्त्वया प्रोक्तं ज्येष्ठास्नानप्रदर्शनात् ॥
फलं प्राप्नोति नियतं तन्नो बूहि विदांवर॥१२॥
॥ जैमिनिरुवाच ॥
हंत वः कथयिष्यामि तद्व्रतं ज्येष्ठपंचकम् ॥
नातः परतरं प्रोक्तमृषिभिः शास्त्रपारगैः ॥१३॥
श्रौतस्मार्तपुराणोक्त व्रतानामिदमुत्तमम्॥
इदं प्रथमतः प्रोक्तं ब्रह्मणा परमेष्ठिना ॥१४॥
ज्येष्ठत्वाद्व्रतमुख्यानां ख्यातं तज्जयेष्ठपंचकम् ॥
समुद्रो ज्येष्ठफलदः प्रभुर्ज्येष्ठफलप्रदः ॥१५॥
वर्षसंदर्शनात्पुण्यं मञ्चकेनैव लभ्यते ॥
मंचकेन तु यल्लभ्यं महाज्यैष्ठ्यां तु तल्लभेत् ॥१६॥
यन्मयोक्तं पुरा विप्राः स्नानदर्शनजं फलम् ॥
समग्रं तदवाप्नोति महाज्यैष्ठ्यां न संशयः ॥१७॥
॥ मुनय ऊचुः ॥
महाज्यैष्ठीं समाचक्ष्व यत्र स्नानं महाफलम् ॥
तत्र नः कौतुकं ब्रह्मन्महद्वै संप्रवर्त्तते ॥१८॥
॥ जैमिनिरुवाच ॥
ज्येष्ठस्य विमले पक्षे या वै पंचदशी भवेत् ॥
शक्रर्क्षैकांशगौ चन्द्रगुरू च गुरुवासरे ॥१९॥
शुभे योगे महाज्यैष्ठी सर्वपापप्रणाशिनी ॥
सर्वक्षेत्रं सर्वतीर्थं सप्त वै सागरास्तथा ॥२०॥
क्रतवश्च महादानसमूहश्च तपांसि च ॥
विद्याश्चाष्टादशविधा व्रतानि विविधानि च ॥२१॥
शांतिपौष्टिककर्माणि सांख्ययोगस्तथैव च ॥
सर्वे संभूय गच्छंति क्षेत्रं श्रीपुरुषोत्तमम् ॥२२॥
वृन्दशः प्रविभक्तास्त एकैकं क्षेत्रगं प्रति ॥
कस्मै वयं भाग्यवते ज्येष्ठस्नानावलोकने ॥२३॥
महाज्यैष्ठ्यां प्रवेक्ष्यामः परस्परमहंमया ॥
तत्र यांति महायोगे भगवत्क्षेत्रमुत्तमम् ॥२४॥
महाज्यैष्ठी महापुण्या भगवत्प्रीतिवर्द्धनी ॥
तस्यां संपूज्य देवेशं जगन्नाथं कृपार्णवम् ॥
दृष्ट्वा च स्नाप्यमानं तं पापकोशाद्विमुच्यते ॥२५॥
अत ऊर्ध्वं प्रवक्ष्यामि व्रतं तज्ज्येष्ठपञ्चकम् ॥
व्रतेनानेन लभ्यं यत्तत्तदेव ब्रवीमि वः ॥२६॥
दशम्यां नियमं कुर्यात्प्रातः स्नात्वा यथाविधि ॥
आचार्यं वृणुयात्तत्र वैष्णवं द्विजपुंगवम् ॥२७॥
इत्थं संकल्पममलं गृह्णीयाद्व्रतमुत्तमम् ॥२८॥
देवदेवजगन्नाथ संसारार्णवतारक ॥
अद्यारभ्य व्रतं देव यावज्ज्यैष्ठी च सा तिथिः ॥
तावद्व्रतं करिष्यामि प्रीतये तव केशव ॥२९॥
सर्वतीर्थाभिषेकं च प्रत्यहं व्रतभोजनम् ॥
मूर्तीनां तव पंचानामेकस्यापि प्रपूजनम् ॥३०॥
एकस्मिन्दिवसे देव त्रिसंध्यं त्वत्प्रसादतः ॥
समाप्यतां व्रतमिदं सफलं चास्तु ते प्रभो ॥३१॥
ततः पंचसु तीर्थेषु स्नात्वा च गृहमेत्य च ॥
स्थंडिले विलिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥३२॥
तन्मध्ये स्थापयेत्कुंभं तीर्थांभोभिः प्रपूरितम् ॥
सचंदनफलैर्युक्तं तन्मुखे ताम्रभाजनम् ॥३३॥
वाससा वेष्टितं कण्ठे पात्रं चाक्षतपूरितम् ॥
तन्मध्ये स्थापयेद्देवं सौवर्णं मधुसूदनम् ॥३४॥
शुभांगावयवं शांतं वामे श्रीयुतमीश्वरम् ॥३५॥
दक्षिणे च गरुत्मंतं स्पृशंतं पृष्ठदेशतः ॥
शंखचक्रधरं चोर्ध्वे पद्मासनगतं विभुम् ॥३६॥
पूजयेदुपचारैस्तमाचार्यो वापि भो द्विजाः ॥
नीलोत्पलानां मालां तु भक्त्या देवाय दापयेत् ॥३७॥
दशम्यां पूजयित्वैवं दशकोट्यघनाशनम् ॥
प्रार्थयेत्प्रांजलिर्भूत्वा मन्त्रमेतं समुच्चरन् ॥३८॥
मधुसूदन देवेश नमस्ते माधवीप्रिय ॥
कृपावारांनिधे पाहि पतितं मां भवार्णवे ॥३९॥
एकादश्यां चतुर्बाहुं शंखचक्रगदाधरम् ॥
नारायणं पद्मसंस्थं पंचनिष्कविनिर्मितम् ॥
तदर्द्धं निर्मितं वापि पूजयेत्पद्ममालया ॥४०॥
नैवेद्यं पायसं दद्यात्सितां रंभाफलानि च ॥
नानाविधं च नैवेद्यं दत्त्वा संप्रार्थयेन्मुदा ॥४१॥
नारायण नमस्तेऽस्तु भवसागरतारण ॥
त्राहि मां पुंडरीकाक्ष शरणागतवत्सल ॥४२॥
एकादशेंद्रियकृतं पापराशिमनुत्तमम् ॥
अनादिभवनिर्व्यूढं नाशयेत्पूजितः प्रभुः ॥४३॥
द्वादश्यां यज्ञवाराहं पूजयेत्स्वर्णनिर्मितम् ॥
चंदनागुरुकर्पूरलेपनैश्चंपकस्रजा ॥४४॥
नानाविधापूपसारा भक्ष्यभोज्यफलान्विताः ॥
निवेद्य प्रार्थयेद्देवं स्तुतिमेतां समुच्चरन् ॥४५॥
प्रलयार्णवसंमग्नां धरणीं धृतवानसि ॥
किन्न शक्तो ममोद्धारे पतितस्यांघ्रिपंकजे ॥
तन्मामुद्धर गोविंद निमग्नं शोकसागरे ॥४६॥
अब्दो द्वादशमासो वै यावदब्दकृतानि तु ॥
पापानि महदल्पानि इतः पूर्वेषु जन्मसु ॥
तद्विनाशयते देवो द्वादश्यामर्चितो नृणाम् ॥४७॥
त्रयोदश्यां तु प्रद्युम्नं शंखचक्रवराभयान् ॥
धारयन्तं पद्मगतं चतुर्निष्कविनिर्मितम् ॥४८॥
उपचारैर्यथाप्रोक्तैः पूजयेद्भक्तितो नरः ॥
अशोकपाटलीमालां चंद्रपूर्णां समुज्ज्वलाम् ॥४९॥
नैवेद्यं चैव पक्वान्नं फलं पक्वं मनोहरम् ॥
दत्त्वा नमस्कृतिं कुर्वन्प्रार्थयेत्प्रांजलिः शुचिः ॥५०॥
देव प्रद्युम्न कामानां पूरक कामरूपधृक् ॥
कामाश्च सफलाः संतु कामपाल नमोऽस्तु ते ॥५१॥
चतुर्दश्यां नरहरिं पूजयेत्कनकाकृतिम् ॥
वक्षःस्थलस्थया लक्ष्म्या प्रीयमाणं सटोज्ज्वलम् ॥५२॥
व्यात्ताननं साट्टहासं योगपट्टाब्जसंस्थितम् ॥
सुतीक्ष्णनखरं देवं सर्वापद्विनिवारणम् ॥५३॥
चतुर्भिर्हेमनिष्कैश्च घटितं शुभलक्षणम् ॥
पूजयेत्पूर्ववद्देवं सोपहारं सुभक्तितः ॥५४॥
जपाकुसुममालां च जातीपुष्पस्रजं तथा ॥
दत्त्वा पुष्पांजलीन्पादे प्रणम्य सप्रदक्षिणम् ॥५५॥
यथा हिरण्यकशिपुं लोकानां हितकाम्यया ॥
व्यदारयस्तथा पापसंघं नाशय पूजितः ॥५६॥
एवं संप्रार्थ्य नृहरिं प्रणम्य दण्डवत्क्षितौ ॥
निर्वर्त्य व्रतमेवं तद्व्रती पंचदिनात्मकम् ॥
पंच पंच प्रदीपांस्तु दिवारात्रौ प्रदापयेत् ॥५७॥
वस्त्रयुग्मान्पंच पञ्च च्छत्रोपानद्युगं तथा ॥
सयज्ञसूत्रान्कलशान्पञ्च पञ्च फलान्वितान् ॥५८॥
भोजनांते द्विजेभ्यश्च प्रदद्याच्छ्रद्धयान्वितः ॥५९॥
रात्रौ जागरगीताद्यैस्तथा नानोपहारकैः ॥
तोषयेद्वासुदेवं तु पुराणपठनेन तु ॥६०॥
पौर्णमास्युषसि स्नात्वा श्रीकृष्णस्यांतिकं व्रजेत् ॥६१॥
रामं कृष्णं सुभद्रां च पूजयित्वा यथाविधि ॥
स्नपनं कारयित्वाथ दृष्ट्वा वा शास्त्रचोदितम् ॥६२॥
स्नानं कृत्वा पुनः सिंधौ गृहमागत्य तत्र वै ॥
यत्र विष्णोर्मूर्त्तयस्ताः कुम्भस्था मन्त्रपूजिताः ॥६३॥
तासां पश्चिमतो वह्निं समाधाय यथाविधि ॥
अग्निकार्यं प्रकुर्वीत स्वैः स्वैर्मंत्रैः पुरोहितः ॥६४॥
प्रणवादिचतुर्थ्यंतं नमोंतं नाम ईरयेत् ॥
देवानां मूलमंत्रस्तु स्वाहांतो होमकर्मणि ॥६५॥
चरोराज्यस्य समिधां पलाशानां पृथक्पृथक् ॥
एकैकं देवमुद्दिश्य जुहुयाच्च शतं शतम् ॥६६॥
तस्य पुष्पशतं चैव जुहुयात्तदनंतरम् ॥
पूर्णाहुतिं ततो हुत्वा ब्रह्मणे दक्षिणां ददेत् ॥६७॥
आचार्ये दक्षिणां दद्यात्सुवर्णं धेनुमेव च ॥
स्वर्णशृंगीं रौप्यखुरां नानोपकरणैर्युताम् ॥६८॥
महार्घ्यवस्त्रदानानि येन तुष्यति वा गुरुः ॥
सर्वोपकरणैर्युक्ताः प्रतिमाश्च निवेदयेत् ॥६९॥
ब्राह्मणान्भोजयेत्सर्पिः खण्डयुक्तैश्च पायसैः ॥
एतद्व्रतं समाख्यातं ज्येष्ठपंचकमुत्तमम् ॥७०॥
अनुष्ठाय नरो भक्त्या स्नानदर्शनजं फलम् ॥
समग्रं लभते विप्रास्तदा नैवात्र संशयः ॥७१॥
एकादशी या तु मध्ये निर्जला सा प्रकीर्तिता ॥
एकां तां भक्तियुक्ता ये यथाविधि उपासते ॥७२॥
यावज्जीवकृताः सर्वा एकादश्यो न संशयः ॥
व्रतराजमिमं कृत्वा सर्वव्रतफलं लभेत् ॥७३॥
यान्यान्समीहते कामांस्तांस्तानाप्नोत्यसंशयः ॥७४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये ज्येष्ठपंचकव्रतवर्णनंनाम द्वात्रिंशोऽध्यायः ॥३२॥
N/A
References : N/A
Last Updated : October 25, 2024
TOP