संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्|

पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ४५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ मुनय ऊचुः ॥
मुने व्रतमिदं पुण्यं श्रुतं वै मूर्तिपंजरम् ॥
अन्तःप्रमोदजननं महिम्ना च महत्तरम् ॥१॥
यात्रा द्वादश पुण्या या उद्दिष्टा भगवत्प्रियाः ॥
तासां द्वे अवशिष्टे नः कथयस्व महामुने ॥२॥
॥ जैमिनिरुवाच ॥
वासंतिकां समाख्यास्ये यात्रां दमनभंजिकाम्॥
यस्यां कृतायां दृष्टायां प्रीणाति पुरुषोत्तमः ॥३॥
पुरा यत्कथितं विप्रास्तृणं दमनकाह्वयम् ॥
चैत्रशुक्लत्रयोदश्यामाहरेत्तत्समूलकम् ॥४॥
तन्मध्ये मंडलं कुर्यात्सुशुभं पद्मसंज्ञितम् ॥
तदंतर्वासयेद्देवप्रत्यर्चां प्रतिपूजिताम् ॥५॥
युक्तां श्रीसत्यभामाभ्यां पूजयेद्विधिवच्च ताः ॥
अर्द्धरात्रे तु कर्मेदं देवदेवस्य कारयेत् ॥६॥
पुरा निशीथेऽपि विभुर्बभंज दमनासुरम् ॥
भंक्त्वा लेभे परां प्रीतिं तदंगोत्थं च तत्तृणम् ॥७॥
तस्यामेव त्रयोदश्यां तृणं दैत्यं विभावयेत् ॥
कृतांजलिपुटो भूत्वा वाक्यं चेदमुदाहरेत् ॥८॥
अवधीर्दमनं दैत्यं पुरा त्रैलोक्यकंटकम् ॥
स एवेत्थं परिणतः पुरतस्तव तिष्ठति ॥९॥
अस्योत्पत्तौ तदा प्रीतिरासीद्या तव माधव ॥
अधुनापि तथैवास्तां प्रीतिर्दमनभंजने ॥१०॥
इत्युक्त्वा तृणमेके तु करे देवस्य दापयेत् ॥
ततोऽवशिष्टां रात्रिं च नृत्यगीतादिभिर्नयेत् ॥११॥
ततश्चाभ्युदिते सूर्ये देवं तृणपुरःसरम् ॥
नयेच्च जगदीशस्य समीपं द्विजसत्तमाः ॥१२॥
उपचारैर्जगन्नाथं पूजयेत्पूर्ववत्ततः ॥
हिरण्यकशिपुं हत्वा ह्यन्त्रमालां तदंगजाम् ॥१३॥
कृत्वा कण्ठे यथाऽप्रीणास्तथेदं दमनं तृणम् ॥
तव प्रीत्यै तु भगवन्मया दत्तं तवांगके ॥१४॥
इत्युच्चार्य हरेर्मूर्ध्नि दद्याद्गंधतृणं शुभम् ॥
तदा दृष्ट्वा हरेर्वक्त्रपद्मं प्रीतिकरं मुदा ॥
भवदुःखपरिक्षीणः सुखमाप्नोत्यनुत्तमम् ॥१५॥
गृहीत्वा मूर्ध्नि तच्छाखां विष्णुमूर्ध्नोऽपकाषताम् ॥
सर्वपापविनिर्मुक्तो वसेद्विष्णुपुरे ध्रुवम् ॥१६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये दमनकभंजनविधिवर्णनंनाम पञ्चचत्वारिंशोऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : October 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP