संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्| अध्याय ७ पुरुषोत्तमजगन्नाथमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ विषयानुक्रमणिका पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ७ Translation - भाषांतर ॥ मुनय ऊचुः ॥कस्मिन्युगे स तु नृप इन्द्रद्युम्नोऽभवन्मुने ॥कस्मिन्देशेऽस्य नगरं कथं वा पुरुषोत्तमम् ॥१॥गत्वा च विष्णोः प्रतिमां कारयामास वा कथम् ॥एतत्सर्वं विस्तरतः कथयस्व महामुने ॥२॥याथातथ्येन सर्वज्ञ परं कौतृहलं हि नः ॥३॥॥ जैमिनिरुवाच ॥साधु साधु द्विजश्रेष्ठा यत्पृच्छध्वं पुरातनम् ॥सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं शुभम् ॥४॥चरितं तस्य वक्ष्यामि तथावृत्तं कृते युगे ॥शृणुध्वं मुनयः सर्वे सावधाना जितेन्द्रियाः ॥५॥आसीत्कृतयुगे विप्रा इन्द्रद्युम्नो महा नृपः ॥सूर्यवंशे स धर्मात्मा स्रष्टुः पंचमपूरुषः ॥६॥सत्यवादी सदाचारोऽवदातः सात्त्विकाग्रणीः ॥न्यायात्सदा पालयति प्रजाः स्वा इव स प्रजाः ॥७॥अध्यात्मविज्ज्ञानशौंडः शूरः संग्रामवर्द्धनः ॥सदोद्यतः सदा विप्रपूजकः पितृभक्तिमान् ॥८॥अष्टादशसु विद्यासु बृहस्पतिरिवापरः ॥ऐश्वर्येण सुराधीशः कुबेरः कोषसंचये ॥९॥रूपवान्सुभगः शीली दाता भोक्ता प्रियंवदः ॥यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसंगरः ॥१०॥वल्लभो नरनारीणां पौर्णमास्यां यथा शशी ॥आदित्य इव दुष्प्रेक्ष्यः शत्रुपक्षक्षयंकरः ॥११॥वैष्णवः सत्य संपन्नो जितक्रोधो जितेंद्रियः ॥राजसूयं क्रतुवरं वाजिमेधसहस्रकम् ॥१२॥इयाज परमः श्रीमान्मुमुक्षुर्धर्मतत्परः ॥एवं सर्वगुणोपेतः स पृथ्वीं पालयन्नृपः ॥१३॥अवंतींनाम नगरीं मालवे भुवि विश्रुताम् ॥उवास सर्वरत्नाढ्यां द्वितीयाममरावतीम् ॥१४॥तत्र स्थितो नरपतिर्विष्णौ भक्तिमनुत्तमाम् ॥चकार मनसा वाचा कर्मणा परमाद्भुताम् ॥१५॥एवं प्रवर्तमानोऽसौ कदाचिच्छ्रीपतेर्विभोः ॥पूजासमयमासाद्य देवार्चनगृहांतरे ॥१६॥विद्वद्भिः कविभिश्चैव तीर्थयात्राप्रसिद्धिभिः ॥दैवज्ञैः श्रोत्रियैः सार्द्धं पुरोहितमवस्थितम् ॥१७॥आदृतो व्याजहारेद ज्ञायतां क्षेत्रमुत्तमम् ॥यत्र साक्षाज्जगन्नाथं पश्यामोऽनेन चक्षुषा ॥१८॥एवमुक्तो नृपाग्र्येण वैष्णवेन पुरोहितः ॥तीर्थयातृव्रजं पश्यन्नुवाच प्रश्रितं वचः ॥१९॥भोभोस्तीर्थाटनव्यग्रा धार्मिकास्तीर्थकोविदाः ॥यदादिशति देवोऽयं युष्माभिस्तच्छ्रुतं किल ॥२०॥विज्ञाय तस्याभिप्रायं कश्चित्सुबहुतीर्थगः ॥उवाच वाग्ग्मी राजानं बद्धांजलिपुटं मुदा ॥२१॥राजन्ननेकतीर्थानि व्यचारिषमहं प्रभो ॥आशैशवात्क्षितितले श्रुतान्यन्यैस्तु यानि वै ॥२२॥ओढ्रदेश इति ख्यातो वर्षे भारतसंज्ञिते ॥दक्षिणस्योदधेस्तीरे क्षेत्रं श्रीपुरुषोत्तमम् ॥२३॥यत्र नीलगिरिर्नाम समंतात्काननावृतः॥तस्योत्संगे कल्पवृक्षः समंतात्क्रोशसंमितः ॥२४॥तस्य छायां समाक्रम्य ब्रह्महत्यां व्यपोहति ॥तस्य पश्चाद्दिशि ख्यातं कुंडं रौहिणसंज्ञितम् ॥२५॥तत्पूर्णं कारणांभोभिः स्पर्शनादेव मुक्तिदम् ॥तस्य प्राक्तटमास्थाय नीलेंद्रमणिनिर्मिता ॥२६॥तनुः श्रीवासुदेवस्य साक्षान्मुक्तिप्रदायिनी ॥तत्र कुंडे तु यः स्नात्वा दृष्ट्वा तु पुरुषोत्तमम् ॥२७॥अश्वमेधसहस्रस्य फलं प्राप्य विमुच्यते ॥तत्रास्त आश्रमश्रेष्ठः ख्यातः शबरदीपकः ॥२८॥पश्चिमस्यां दिशि विभोर्वेष्टितः शबरालयैः ॥यस्मादेकपदीमार्गो येन विष्ण्वालयं व्रजेत् ॥२९॥यत्र साक्षाज्जगन्नाथः शंखचक्रगदाधरः ॥जंतूनां दर्शनान्मुक्तिं यो ददाति कृपानिधिः ॥३०॥तत्रोषितं मया राजन्वर्षं श्रीपुरुषोत्तमे ॥तुष्ट्यर्थं देवदेवस्य व्रतिना वनवासिना ॥३१॥प्रतिरात्रं भगवतो दर्शनाय दिवौकसाम् ॥आगतानां महाराज दिव्यगंधो ह्यमानुषः ॥३२॥नानास्तुतिवचःकल्पपुष्पवृष्टिश्च लभ्यते॥महिमैष न कुत्रापि विष्णोः स्थाने प्रकाशते ॥३३॥पौराणिकी प्रवृत्तिश्च श्रुता तत्र महीपते ॥वायसो माधवं दृष्ट्वा तिर्यग्देहोऽपि मुच्यते ॥३४॥नाधिकारी पुण्यकृत्ये ज्ञानहीनोऽपि पार्थिव ॥तृषार्त्तो रौहिणे कुंडे जलं पातुं समागतः ॥३५॥त्यक्त्वा कालवशात्प्राणान्विष्णुसारूप्यमाप्तवान् ॥अहमासं पुरा मूर्खस्तत्प्रसादात्तु सांप्रतम् ॥३६॥अष्टादशसु विद्यासु शेषो वा स्यान्ममापरः ॥मतिश्च निर्मला जाता विष्णोः पश्यामि नापरम् ॥३७॥त्वं यस्माद्विष्णुभक्तोऽसि सततं च दृढव्रतः ॥अतस्तवोपदेशार्थमागतोऽहं तवांतिकम् ॥३८॥नो धनं न च भूमिं च त्वत्तः संप्रार्थ्यतेऽधुना ॥व्यलीकमेतन्मा बुद्ध्वा तत्रस्थं श्रीधरं भज ॥३९॥एवमुक्त्वा तु जटिलः सर्वेषां पश्यतां तदा ॥अंतर्द्धानं जगामाशु राजा परमविस्मयम् ॥४०॥अवाप्य व्याकुलमतिः कथं मे निर्वहेदिति ॥पुरोहितमुवाचेदं तस्यैवार्थस्य साधने ॥४१॥॥ इन्द्रद्युम्न उवाच ॥अमानुषमिदं वृत्तं श्रुत्वेदानीममानुषात् ॥बुद्धिस्त्वरयते तत्र यत्रास्तेऽसौ गदाधरः ॥४२॥मम धर्मार्थकामा हि त्वदायत्ता द्विजोत्तम ॥अविरुद्धास्त्वत्प्रसादात्त्रिवर्गः साधितो मया ॥४३॥इदानीं चेद्द्विजश्रेष्ठ त्वमत्रार्थे गमिष्यसि ॥चतुर्वर्गस्तु संपूर्णः प्राप्तः स्यात्सांप्रतं मया ॥४४॥॥ पुरोहित उवाच ॥बाढमेतत्करिष्यामि यथा द्रक्ष्यसि केशवम् ॥वर्माच्छादितचक्षुर्भ्यां साक्षान्मुक्तिप्रदं विभुम् ॥४५॥एवमत्र यतिष्यामि तत्र सर्वे यथा वयम् ॥वत्स्यामः ससहायाश्च क्षेत्रे श्रीपुरुषोत्तमे ॥४६॥साफल्यं किमतो राजञ्जन्मिनो जन्मनो भवेत् ॥पुरुषं तमसः पारं साक्षाद्द्रक्ष्यसि माधवम् ॥४७॥भ्राता विद्यापतिर्नाम कनीयान्मे व्रजिष्यति ॥देशभ्रमणशीलैश्च चारैः सह तवाधुना ॥४८॥तत्र गत्वा जगन्नाथं दृष्ट्वा स हि गिरौ यथा ॥कंटकावाससंस्थानं भूप्रदेशं प्रमीय च ॥४९॥तूर्णं प्रवृत्तिमानेता श्रेयोऽस्माकं भविष्यति ॥तस्य तद्वचनं श्रुत्वा राजा पुनरुवाच ह ॥५०॥॥ इन्द्रद्युम्न उवाच ॥साधु ब्रह्मन्समाधाय व्यवसायो विचारितः ॥अहं प्रथमतोप्येतच्छ्रुत्वैव कृतनिश्चयः ॥५१॥तत्र क्षेत्रे भगवतः सन्निधौ निवसाम्यहम् ॥तद्गच्छतु तव भ्राता यथेष्टं साधयिष्यति ॥५२॥इत्युक्त्वांतःपुरं राजा प्रविवेश मुदान्वितः ॥पुरोहितोऽपि तान्सर्वान्यथावदनुपूर्वशः ॥५३॥राजाज्ञया पूजयित्वा प्राहिणोत्स्वं स्वमाश्रमम् ॥भ्रातरं सुमुहूर्ते च दैवज्ञकृतनिश्चये ॥५४॥प्रस्थापयामास तदा कृतस्वस्त्ययनं द्विजैः ॥अपसर्पैः प्रत्ययिकैः पुष्पस्यन्दनमास्थितः ॥५५॥ततः संप्रस्थितो विप्राः स तु विद्यापतिर्द्विजः ॥मनसा चिन्तयामास मध्ये स्यन्दनमास्थितः ॥५६॥अहो मे सफलं जन्म सुकल्या शर्वरी च मे ॥द्रक्ष्यामि यद्भगवतो मुखपद्ममघापहम् ॥५७॥श्रवणाद्यैरुपायैर्यं यतमाना अहर्निशम् ॥पश्यंति यतयः चेतः पुंडरीके व्यवस्थितम् ॥५८॥तमद्य नीलशिखरिशृंगस्थं बिभ्रतं वपुः ॥वपुःसंबन्धहरणं साक्षाद्द्रक्ष्यामि चक्रिणम् ॥५९॥श्रुति स्मृतीहासपुराणवाक्यैर्यद्रूपमास्थापयितुं न शक्यम् ॥तच्छ्रीनिधे रूपमदृष्टपूर्वं दृष्ट्वा तरिष्यामि भवांबुराशिम् ॥६०॥यन्नामसंकीर्तनतस्त्रिवांहः संघः प्रणाशं स्मरतां प्रयाति ॥तमद्य विश्वेश्वरमप्रमेयं साक्षात्करिष्यामि गिरौ वसन्तम् ॥६१॥यत्पादपद्माननुसंहितस्य पदेपदे दुःखमुपार्जितस्य ॥तमः प्रकांडप्रभवं कदाचिन्नात्माश्रितं कर्मभिरेति नाशम् ॥६२॥आराध्य सूक्ष्मं स्वगुहानिवासं यं पञ्चकोषावृतमात्मसंस्थम् ॥वेदांतगीराह न चापि वेद वंदे स्वविद्यैकनिवेद्यमाद्यम् ॥६३॥ब्रह्मांडमालाकलितानुरोमं सहस्रमूर्द्धांघ्रिदृशं पुराणम् ॥निःश्वासवातोत्थित वेदराशिं सर्वप्रपंचेशमहं प्रपद्ये ॥६४॥यन्मायया निर्मितकूटमेतत्सृष्टिक्षयस्थानविलासि रूपम् ॥निरूपितारोपितहेयरूपस्वरूपहीनं प्रणवस्वरूपम् ॥६५॥तिर्यक्तृषाशांतिनिमित्ततोऽपि यदृच्छया यत्सविधं प्रयातः ॥देहेन तेनैव सरूपमुक्तिमवाप तं दृष्टिपथं करिष्ये ॥६६॥अहो अहो मे खलु भाग्यशंसी यत्कोटिजन्मार्जितपुण्य एकः ॥समुत्थितो मे खलु चर्मदृग्भ्यां विलोकयिष्ये जगदादिकंदम् ॥६७॥इत्थं संचिन्तयन्विप्रः प्रहृष्टेनांतरात्मना ॥अतीतं बहुमध्वानं नाबुध्यद्रथवेगतः ॥६८॥दिनमध्ये व्यतिक्रांते लंबिते बहुवासरे ॥वर्त्मन्यदृश्यताग्रे तु देशो भुवनमंडनः ॥६९॥ओढ्रसंज्ञस्तु भो विप्राः क्षितिमंडलपावनः ॥इत्थं पश्यन्वनांतानि गिरिदुर्गाश्च मार्गगान् ॥सूर्यास्तमनवेलायां महानद्यास्तटेऽभवत् ॥७०॥अवरुह्य रथाद्विप्रः कृत्वा चाह्निकमादृतः ॥उपास्य पश्चिमां सन्ध्यां दध्यौ स मधुसूदनम्॥ ७१॥रथपृष्ठे स्थितो रात्रिं गमयित्वा त्वरान्वितः ॥महानदीं समुत्तीर्य प्रातःकृत्यं समाप्य सः ॥७२॥चिंतयन्नेव गोविंदं प्रतस्थे रथमास्थितः ॥पश्यन्भगवतो मार्गं श्रोत्रियाणां हि यज्वनाम् ॥७३॥वह्निवर्चस्विनां विप्रा ग्रामान्पूगैरलंकृतान् ॥विलंघ्यैकाम्रकवनं यावदायाति स द्विजः ॥७४॥शंखचक्रगदापद्मधारिणो ददृशे जनान् ॥जन्मांतरितमात्मानं बुबुधे दिव्यरूपिणम् ॥७५॥अवरुह्य रथात्तूर्णं साष्टांगं प्रणिपत्य च ॥हर्षाश्रुपूर्णनयनो नान्यत्किंचिदपश्यत ॥७६॥केवलं मनसा विष्णुं पश्यन्बाह्ये च भो द्विजाः ॥एवं व्रजन्यदा विप्रो ध्यायन्पश्यन्स्तुवन्हरिम् ॥७७॥अपश्यत्काननाकीर्णं कल्पन्यग्रोधभूषितम् ॥नीलाचलं लिखंतं खं पश्यतां पापनाशनम् ॥७८॥अत्यद्भुतं निवसंति साक्षात्तनुभृतो हरेः॥उपत्यकायामारूढः समंतान्मार्गयन्द्विजः॥७९॥मार्गं न लेभे विप्रोऽसौ मुकुंदालोकनोत्सुकः॥असुप्यत ततो भूमौ कुशानास्तीर्य वाग्यतः॥८०॥दर्शने तस्य देवस्य तमेव शरणं ययौ॥ततः शुश्राव वचनं गिरेः पश्चादमानुषम्॥८१॥भगवद्भक्तिविषयं संलापं कुर्वतां मिथः॥ततो विद्यापतिर्हृष्टोऽनुसरंस्तं जगाम वै॥८२॥ददर्श शबरागारैर्वेष्टितं परितो द्विजाः॥क्षेत्रस्य दीपसंस्थानं ख्यातं शबरदीपकम्॥८३॥तत्र गत्वा शनैर्विप्रः प्रविश्य विनयान्वितः॥ददर्श विष्णुभक्तांस्ताञ्छंखचक्रगदाधरान्॥८४॥प्रणम्य शिरसा विप्रस्तस्थौ बद्धांजलिस्तदा ॥ततोविश्वावसुर्नाम शबरः पलितांगकः ॥८५॥अवसाय हरेः पूजां पूजाशेषोपशोभितः ॥संप्राप्तो गिरिमध्यात्तु तस्मिन्नेव क्षणे द्विजाः॥८६॥आलोक्य तं द्विजो हर्षमुपयातो व्यचिंतयत्॥एष प्राप्तो हरेः स्थानाच्छ्रांतो निर्माल्यभूषितः॥८७॥वैष्णवाग्र्य इतो वार्तां विष्णोः प्राप्स्यामि दुर्लभाम्॥चिंतयन्नेव विप्रोऽसौ शबरेणाभ्यभाषत॥८८॥॥शबर उवाच॥कुतः समागतो विप्र काननांतं सुदुस्तरम्॥क्षुत्तृड्भिरतिश्रांतश्च सुखमत्रास्यतां चिरम्॥८९॥पाद्यमासनमर्घं च दत्त्वा विश्वावसुर्द्विजम्॥उवाच प्रश्रयगिरा प्रस्तुतं प्रतिपादयन्॥९०॥फलैः पाकेन वा विप्र प्राणयात्रा भवेत्तव ॥यत्तुभ्यं रोचते तद्वै दीयतेऽत्र मया द्विज ॥९१॥भाग्यं ममाद्य भगवञ्जीवितं सफलं च मे ॥प्राप्तोऽसि मद्गृहं विप्र साक्षाद्विष्णुरिवापरः ॥९२॥इति ब्रुवाणं शबरं प्रोवाच द्विजपुंगवः ॥न मे फलैर्न पाकेन कार्यं वैष्णवपुंगव ॥९३॥यदर्थमागतं दूरात्साधो तत्सफलं कुरु ॥इन्द्रद्युम्नस्य नृपतेरवंतिपुरवासिनः ॥९४॥पुरोहितोऽहं संप्राप्तो विष्णोर्दर्शनलालसः ॥राज्ञाग्रे तैर्थिकानां हि समाजावसरे श्रुतम् ॥९५॥तीर्थक्षेत्रप्रसंगेन केनचित्प्रस्तुतं तदा ॥तथा निवेदितं क्षेत्रं राजाग्रे जटिलेन वै ॥९६॥आनुपूर्व्याच्च तत्सर्वं कथयामास स द्विजः ॥एतदर्थमहं साधो राज्ञा चोत्कण्ठितेन वै ॥९७॥प्रेषितोऽहं हरिं द्रष्टुमत्रस्थं नीलमाधवम् ॥दृष्ट्वा यावन्नरपतेर्वार्त्तां नेष्यामि सोऽप्यहम् ॥९८॥निराहारो ध्रुवं साधो तन्मां विष्णुं प्रदर्शय ॥९९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे सप्तमोऽध्यायः ॥७॥ N/A References : N/A Last Updated : September 30, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP