पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ जैमिनिरुवाच ॥
प्रत्यागते ततो विप्रे सायाह्ने सुरसंकुले ॥
माधवार्चनवेलायां वातश्चंडगतिर्ववौ ॥१॥
सुवर्णवालुकाश्चासौ विचकार च सर्वशः ॥
तेनाकुलदृशो देवा न शेकुरवलोकने ॥२॥
श्रीकांतस्य तदा विप्रा दध्युस्ते पुरुषोत्तमम् ॥
यावद्ध्यानस्थिरदृशो मुहूर्तं ते दिवौकसः ॥३॥
ध्यानांते वालुकाराशिं ददृशुस्ते न माधवम् ॥
रौहिणं च तथा कुंडं बभूवुर्व्याकुलेन्द्रियाः ॥४॥
चिंतामवापुर्महतीं हाहेति रुरुदुर्भृशम् ॥
किमेतन्नो हि दुर्दैवमेकदा समुपस्थितम् ॥५॥
दृशां सेचनकः श्रीशः क्षणाद्यन्नोपलभ्यते ॥
अपराधं किमस्माकं लक्षितं पुरुषोत्तम ॥६॥
युगपत्सेवकान्सर्वानपहाय न दृश्यसे ॥
येषामर्थे जगन्नाथ स्वीचकर्थ कलेवरम् ॥७॥
ताननाथान्परित्यज्य कानने किमुपेक्षसे ॥
स्वशरीरविभूतीर्नो विहाय कमलेक्षण ॥८॥
किमकांडं रचयसि कथाशेषान्दिवौकसः ॥
तवांशभूतान्नः सर्वान्यज्वानः प्रयजंति वै ॥९॥
त्वत्प्रीत्यै यज्ञपुरुष त्वदादिष्टफलप्रदान्॥
त्वदहंकारवर्ष्माणस्त्वदनुग्रहजीवनाः ॥१०॥
कांदिशीका कुत्र यामः सांप्रतं त्वदुपेक्षिताः॥
दिवि स्थानैश्च किं कार्यं त्वामनालोक्य माधव ॥११॥
अकृतार्थास्त्वया हीना भविष्यामो वनेचराः ॥
निष्कलंकसुधाभानुं सुषमापरिभावुकम् ॥१२॥
त्वदास्यं चेन्न पश्यामो न यास्यामः सुरालयम् ॥
तप आस्थाय परममत्रैव संशितव्रताः ॥१३॥
वर्तामहे वन्यवृत्त्या जटावल्कलधारिणः ॥
यावत्त्वां पुंडरीकाक्ष विलोकिष्यामहे वयम् ॥१४॥
निसर्गकरुणांभोधे दीनान्नस्त्रातुमर्हसि ॥
अनाथान्दीनहदयांस्त्वामेव शरणं गतान् ॥१५॥
त्वदनालोकशोकैकपारावारे निमज्जतः ॥
शुभदृष्टितरण्या नः समुद्धर जगत्पते ॥१६॥
एवं प्रलपतां तत्र सर्वेषां त्रिदिवौकसाम् ॥
अशरीरा तदा वाणी पुनः प्रादुर्बभूव ह ॥१७॥
अत्रार्थे भोः सुरा यत्नं कर्तुमर्हथ नो वृथा ॥
अद्यप्रभृति देवस्य दर्शनं दुर्लभं भुवि ॥१८॥
अत्र स्थानेऽपि तं नत्वा तद्दर्शनफलं लभेत् ॥
स्वयंभुवोंऽतिकं गत्वा हेतुं ज्ञास्यथ निश्चितम् ॥१९॥
तच्छ्रुत्वा त्रिदशाः सर्वे ब्रह्मणोंऽतिकमागताः ॥
यमानुग्रहवृत्तांतमवतारं च दारुणः ॥२०॥
श्रुत्वा संतुष्टमनसः सर्वे ते त्रिदिवं गताः ॥
स तु विद्यापतिर्विप्रो रथारूढोऽभ्यचिंतयत् ॥२१॥
मम कार्यं तु निष्पन्नं यद्दृष्टो नीलमाधवः ॥
आसमंतात्क्षेत्रमिदं परिभ्रम्यावलोकये ॥२२॥
अदृष्टपूर्वं परमं सुपुण्यं संकीर्तनं यस्य मलापहारि ॥
क्षेत्रोत्तमं श्रीपुरुषोत्तमाख्यं प्रदक्षिणीकृत्य व्रजामि तूर्णम् ॥२३॥
पृथ्वीप्रदक्षिणफलं शतधा भजंते पर्यंति ये सकलकल्मषदार्यरण्यम् ॥
नीलाद्रिमण्डिमिदं पुरुपोत्तमाख्यं मित्रं ममोपदिशति स्म समुद्रतीरे ॥२४॥
विचिंत्येत्थं द्विजश्रेष्ठः परिबभ्राम वै तदा ॥
क्षेत्रं पश्यन्वनं चैव नानाद्रुमगणान्वितम् ॥२५॥
नानापक्षिगणाघुष्टं कूजद्भ्रमरगुंफितम् ॥
अप्रविष्टार्ककिरणं छायातरुगणावृतम् ॥२६॥
सर्वर्तुकुसुमोपेतं लतागुल्मोपशोभितम्॥
नानाजलाशयाधारकूजत्सारससंकुलम् ॥२७॥
पद्मकह्लारकुमुदविकचोत्पलराजितम् ॥
न जलं तत्र कुसुमपरिहीनं लतादिकम् ॥२८॥
परीत्य वेगात्तत्क्षेत्रं जगामाथ द्विजोत्तमः ॥
ध्यायन्निरशनः प्राज्ञः प्राप्यावन्तीं दिनात्यये ॥२९॥
दूतैरावेदितं पूर्वं दूरस्थस्यागतं द्विजाः ॥
श्रुत्वेंद्रद्युम्नो नृपतिः प्रहर्षं परमं ययौ॥३०॥
तदागमनमाकांक्षन्पूजयित्वा जनार्द्दनम्॥
विद्वद्भिर्ब्राह्मणैः सार्द्धं तस्थौ संहृष्टमानसः ॥३१॥
एतस्मिन्नंतरे विप्राः स तु विद्यापतिर्द्विजः॥
प्रावेशिकैर्वेत्रहस्तैर्दौवारिकपुरःसरैः॥३२॥
निर्दिष्टमार्गः पौरैश्चाऽनुमतः कौतुकान्वितैः॥
निर्माल्यमालां नीलाख्य माधवस्य सुशोभनाम्॥३३॥
निधाय पाणौ राजाग्रे प्रविवेश त्वरान्वितः॥
तं दृष्ट्वा नृपतिः सोऽथ समुत्थाय वरासनात् ॥
प्रसीद जगदीशेति वदन्नंतिकमभ्यगात् ॥३४॥
अद्य मे जीवितं जातं सफलं जन्मकर्मणा ॥
निर्माल्यमालावपुषं यत्पश्यामीहमाधवम् ॥३५॥
मालां मुकुन्दशिरसोऽनुपमप्रमोदलाभाधरीकृतसुरद्रुमकांतगन्धाम् ॥
अन्धीकृतालिनिचयां पवनप्रसारिगन्धप्रणाशितजगत्कलुषां नमामि ॥३६॥
यत्पादपंकजगलद्रजसोनुषंगा ब्रह्मादयः परमसंपदमापुरस्य ॥
विष्णोः कलेवरसमुज्ज्वलितांगरागसंसक्तपुष्पनिलयां प्रणतोस्मि मालाम् ॥३७॥
पद्मां हृत्पद्मवसतिं सपत्नीं या हसत्यसौ ॥
विकस्वरैः सुकुसुमैर्विष्ण्वंकस्थितिर्गर्विताम् ॥३८॥
कुत्र स्थितेयमाहार्षीन्महिमानं स्रगुज्वला ॥
या श्रीनिधेः शरीरेऽऽभूत्सर्वांगव्यापिनी चिरम् ॥३९॥
जय नीलाद्रिशिखरभूषणाघप्रद्षण ॥
प्रणतार्त्तिहर श्रीमंस्त्राहि मां शरणागतम् ॥४०॥
इति ब्रुवाणः क्षितिपो बाष्पगद्गदया गिरा ॥
जगाम शिरसा भूमिं स्फुरद्रोमांचकंचुकः ॥४१॥
सोऽपि विद्यापतिर्विप्रः क्षपिताशेषकल्मषः ॥
दिव्यदेहो नृपस्याग्रे ध्यायन्माधवमास्थितः ॥४२॥
तेजसा सर्वलोकानां पापानि क्षालयन्सुधीः ॥
अनुगृह्णातु देवस्त्वां नीलाद्रिशिखरालयः ॥४३॥
श्रीपतेरियमाज्ञा ते मालारूपा प्रकाशिता ॥
द्रष्टुं क्षेत्रोत्तमगतं स्वं साक्षान्मुक्तिदायकम् ॥४४॥
 इत्युच्चरन्नरपतेरामुमोच गले स्रजम् ॥
सोऽप्युत्थाय क्षितिपतिर्मालां हृदयलंबिनीम् ॥४५॥
दृष्ट्वा मेने श्रियः कांतं साक्षाद्धृदयगामिनम् ॥
निधाय पाणी शिरसि दरमीलितलोचनः ॥४६॥
आनंदाश्रुजलक्लिन्नवदनस्तुष्टुवे हरिम् ॥४७॥
॥ इन्द्रद्युम्न उवाच ॥
जयाखिलजगत्सृष्टिस्थितिसंहारशिल्पकृत् ॥
लीलाविश्ववपुर्लोमसंख्यब्रह्मांडभारभृत् ॥४८॥
अंतर्यामिन्नशेषाणां प्रणतार्तिहर प्रभो ॥
ब्रह्मेंद्र रुद्रमुकुटकिर्मीरितपदांबुज ॥४९॥
दीनानाथविपन्नैकसततत्राणतत्पर ॥
निर्व्याजकरुणावारिपारावार परात्पर ॥५०॥
त्वदेकशरणं दीनमनादिभ्रमनिर्भरम् ॥
परित्राहि जगन्नाथ भक्ताविरतवत्सल ॥५१॥
इति स्तुवन्नरपतिः स्वासने समुपाविशत् ॥
गृहमेधिब्रह्मचारियतिवैखानसैर्वृतः ॥५२॥
अष्टादशसु विद्यासु कुशलैर्यज्वभिर्द्विजैः ॥
मीनैः स्थविरभृत्यैश्च सार्द्धं मंत्रिपुरःसरैः ॥५३॥
विद्यापति पूजयित्वा बहुमानपुरःसरम् ॥
उपवेश्याग्रतः पीठे पृष्ट्वा कुशलमादितः ॥५४॥
पुरुषोत्तमक्षेत्रस्य विष्णोर्नीलाश्मवर्ष्मणः ॥
महिमानं स्वरूपं च पप्रच्छावहितो मुदा ॥५५॥
ब्राह्मणः क्षत्रियेणासौ पृष्टोनुभवमात्मनः ॥
भिल्लद्वीपप्रवेशादिमज्जनांतं सरित्पतेः ॥५६॥
क्षेत्रोत्तमस्य वृत्तांतं कथयामास विस्तरात् ॥
नीलाद्रिरोहणं नीलमाधवस्य च दर्शनम् ॥५७॥
स्नानं च रौहिणे कुण्डे महिमानं वटस्य च ॥
नृसिंहाद्यष्टशंभून शक्तीनामष्टसंस्थितिम् ॥५८॥
रथेनाक्रमणाद्दृष्टौ क्षेत्रस्यायामविस्तरौ ॥
तत्सर्वं वर्णयामास यथावदनुपूर्वशः ॥५९॥
तच्छ्रुत्वा चित्रमतुलं तैर्थिकावेदितं पुरा ॥
संप्रतीतो हृष्टमनाः पुनस्तं क्षितिपोऽब्रवीत् ॥६०॥
॥ इन्द्रद्युम्न उवाच ॥
श्रुतपूर्वं तु भगवंस्त्वत्तोऽश्रौषं सुदुर्लभम्  
क्षेत्रोत्तमं द्विजश्रेष्ठ सांप्रतं वर्णयस्व मे ॥६१॥
नीलेन्द्रमणिमूर्तेस्तु विष्णो रूपं यथातथम् ॥
॥ विद्यापतिरुवाच ॥
हंत ते कथयिष्यामि दिव्यां मूर्तिं जगत्पतेः ॥६२॥
यां चर्मचक्षुषा दृष्ट्वा जायते मुक्तिभाजनम् ॥
नीलेन्द्रमणिपाषाणमयी मूर्तिः पुरातनी ॥६३॥
यान्वहं ब्रह्मरुद्रेंद्रपुरोगैरर्चिता सुरैः ॥
आरोपितेयं दिव्या स्रक्पूजायां हि सुपर्वभिः ॥६४॥
सेयं न म्लायति नृप न च गन्धेन रिच्यते ॥
दिने बहुतिथे यातेऽपीदृशी स्रग्धरोद्भवा ॥६५॥
दिव्योपहारः निर्माल्यभक्षणात्क्षीणकल्मषम् ॥
मां न पश्यसि किं राजन्नतिमानुषवर्चसम् ॥६६॥
 सकृदप्यशनाद्यस्य क्षुत्पिपासाबलक्षयाः ॥
न बाधन्ते नृपश्रेष्ठ दृष्टेनादृष्टकल्पनम् ॥६७॥
भुक्तिर्मुक्तिश्च वै राजन्न् तत्र युगपत्स्थिते ॥
न जरारोगशोकादिदुःखं तत्र हि विद्यते ॥६८॥
यत्र साक्षाज्जगन्नाथः प्रसन्नवदनो विभुः ॥
फुल्लेंदीवरपत्राक्षः प्रपन्नामृतमुक्तिदः ॥६९॥
इति श्रीस्कांदे महापुराण एकशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीपुरुषोत्तममाहात्म्ये जैमिनिऋषिसंवादे नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : October 02, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP