संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्|

पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ४९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥मुनय ऊचुः ॥
भगवञ्जैमिने सर्वं वेदवेदांगपारग ॥
त्वदनुग्रहतोऽस्माभिर्माहात्म्यं जगदीशितुः ॥१॥
क्षेत्रराजस्य तस्यैव यात्राणां चैव सर्वशः ॥
भगवद्भोजनोच्छिष्टप्राशनादिफलं तथा ॥२॥
इंद्रद्युम्नस्य राज्ञो वै वृत्तांतमतिदुर्लभम् ॥
नीलमाधवरूपं तु दारुब्रह्मप्रकाशनम् ॥३॥
श्रुतं त्वद्वदनांभोजाद्गलितं तद्यथाविधि ॥
इदानीं श्रोतुमिच्छामस्त्वत्तो हि वदतां वर ॥४॥
सर्वं विस्तरतो ब्रह्मन्वयं सर्वे मुदान्विताः ॥
पुराणश्रवणस्यैव यदुक्तं फलमेव तत् ॥५॥
को वा तस्य विधिश्चैव केन वा स्यात्तु सांगकम्॥
अस्मासु चेदनुक्रोशो यथावद्वक्तुमर्हसि ॥६॥
॥जैमिनिरुवाच ॥
साधु साधु मुनिश्रेष्ठा यत्पृष्टं परया मुदा ॥
तत्र मे प्रीतिरतुला जाता रोमांचकारिणी ॥७॥
तद्वः सर्वं प्रवक्ष्यामि शृणुध्वं सावधानतः ॥
पुराणश्रवणारंभे यथाविभवमात्मनः ॥८॥
आदौ संकल्प्य विधिवद्ब्राह्मणं शुद्धवंशजम् ॥
अव्यंगावयवं शांतं स्वशाखं स्वपुरोधसम् ॥९॥
सर्वशास्त्रार्थतत्त्वज्ञं भूषणैरतिशोभनैः ॥
वस्त्रचंदनमाल्याद्यैर्वृणुयात्पाठसंश्रुतौ ॥१०॥
कृतांजलिपुटो भूत्वा ततः संप्रार्थयेद्द्विजम् ॥
त्वं विष्णुर्विष्णुरेव त्वं न तु भेदः कदाचन ॥११॥
निर्विघ्नं मे भवत्वेव त्वत्प्रसादात्प्रसीद च ॥
ततो वृतं ब्राह्मणं च बहुमूल्यासने शुभे ॥१२॥
वासयित्वा च तस्यैव गले मालां विनिक्षिपेत् ॥
मस्तके पुष्पगर्भं च चंदनैरनुलेपयेत् ॥१३॥
यस्मात्तस्मिंश्च समये विप्रो व्याससमो मतः ॥
तेनैव ब्राह्मणेनैव पुस्तके विष्णुरूपके ॥१४॥
कारयेद्व्यासपूजां च श्रीखण्डागुरुपुष्पकैः ॥
नानोपचारै रुचिरैर्भक्ष्यभोज्यादिकैरपि ॥१५॥
भक्त्या चासनदानादिविधिः कार्यो दिने दिने ॥
सांप्रतं कथयाम्येवं श्रूयतां श्रोतृलक्षणम् ॥१६॥
गतानुगतिकानां च निवासार्थं तथा द्विजाः ॥
आसनानि यथायोग्यं रचयित्वा स्वयं तथा ॥१७॥
शुभासनांतरस्थो हि भवेदुत्कण्ठमानसः ॥
अथवा संस्कृते देशे सर्वैः सह वसेद्भुवि ॥१८॥
व्यासस्याग्रे निवसतिरासने नोच्च एव च ॥
कृतस्नानो मुदा युक्तो धारयंञ्छुक्लवाससी ॥१९॥
आचांतः शंखचक्रादितिलकान्वितविग्रहः ॥
मनसा भावयेद्विष्णुं विश्वासं कारयेद्भृशम् ॥२०॥
पुराणे ब्राह्मणे चैव देवे च मंत्रकर्मणि ॥
तीर्थे वृद्धस्य वचने विश्वासः फलदायकः ॥२१॥
अतो मुनिवराः सर्वं पुण्यं विश्वासकारणम् ॥
पाषंडादिकसंभाषं वृथालापं प्रयत्नतः ॥२२॥
पुराणश्रवणे काले सर्वचिंतां च वर्जयेत् ॥
अनेन विधिना विप्राः प्रत्यहं शृणुयान्मुदा ॥२३॥
ततः पाठे समाप्ते च करतालादिकैर्मुहुः ॥
जय कृष्ण जगन्नाथ हर इत्यादिनामभिः ॥२४॥
विस्तारयेद्यथाकाशे श्रूयते शब्द एव सः ॥
एवं च प्रत्यहं कुर्यात्प्रीतये मुरवैरिणः ॥२५॥
ततो ग्रंथसमाप्तौ च विष्णुप्रीणनतत्परः ॥
विशेषाद्वस्त्रमाल्यादिचंदनैर्भूषणैस्तथा ॥
भूषयेत्परया भक्त्या विप्रं व्याससमं द्विजाः ॥२६॥
आत्मशक्त्या प्रदद्याच्च दक्षिणां वै यथाविधि ॥
ये ये प्रदद्युर्यद्यच्च मत्तस्तच्छृणुताधुना ॥२७॥
राजानः करिणो दद्युः सालंकारान्सुलक्षणान् ॥
क्षत्रिया एवमेवं च ते वै राजसमा मताः ॥२८॥
ब्राह्मणाः पुस्तकांश्चैव विष्णोरर्चाकरंडिकाः ॥
कनकं रजतं चैव धान्यं वस्त्रं स्वभक्तितः ॥२९॥
विशश्च रत्नभूषाढ्यान्सिन्धुदेशोद्भवानपि ॥
गाश्च लक्षणसंयुक्ताः सवत्साश्च पयस्विनीः ॥३०॥
अन्यच्च कनकाद्यं च त्यजेयुर्धर्मतत्पराः ॥
शूद्राः प्रदद्युः परया मुदा संयुक्तमानसाः ॥३१॥
वासांसि च सुवर्णं च धान्यं रत्नानि गास्तथा ॥
नानालंकारयुक्ताश्च घटोघ्नीर्बालगर्भिणीः ॥३२॥
एवं वै दक्षिणां दद्याद्येन संतुष्यते गुरुः ॥
आत्मनः शक्तितो विप्रा वित्तशाठ्यं न कारयेत् ॥३३॥
शांतिकं पौष्टिकं चैव व्रतोद्वाहादि कर्म च ॥
मोक्षस्य साधकं कर्म पुराणश्रवणं तथा ॥३४॥
यज्ञादिकं च दानं च व्रतं नानाविधं तथा ॥
यदि चेद्दक्षिणाहीनं तदा भवति निष्फलम्॥३५॥
असुराः कर्मणस्तस्य हरंति फलमेव तत् ॥
यथा स्त्रीणां च लावण्यं भर्तृस्नेहविवर्जितम् ॥३६॥
युद्धात्पलायितानां च पृष्ठं कृत्वा धनुष्मताम् ॥
विना धावनमश्वानां दुष्टत्वं हि यथा द्विजाः ॥३७॥
मूकत्वेनेव पांडित्यं सर्वशास्त्रविपश्चिताम् ॥
हीनं दक्षिणया यद्यत्कर्म तद्वच्च निष्फलम् ॥३८॥
दानेन क्षीयते यस्मादुरितानां कदंबकम् ॥
दक्षिणेति तथा विप्रा गीयते शास्त्रवेदिभिः ॥३९॥
ततो विप्रान्भोजयेद्वै यथाशक्तिप्रकल्पितैः ॥
कर्पूरेण च खंडेन सर्पिषा पायसैर्युतैः ॥४०॥
षड्विधैरन्नपानाद्यैः सुस्वादैरमृतोपमैः ॥
तेभ्योपि स्वर्णवस्त्रादि यथाशक्त्या प्रदापयेत् ॥४१॥
एतद्वः कथितं सर्वं पुराणश्रवणस्य च ॥
सांगोपांगविधानं च येन स्यात्सफलं त्विदम् ॥
इदानीं भो मुनिश्रेष्ठाः किमन्यज्ज्ञातुमिच्छथ ॥४२॥
॥ मुनय ऊचुः ॥
अहोऽस्माकं महाभाग्यं यत्पापौघविनाशनम् ॥
पुराणश्रवणस्यैव फलमस्माभिरेव च ॥४३॥
सांगोपांगविधानं च श्रुतं त्वन्मुखपंकजात् ॥
धन्याः स्म कृतपुण्याः स्म संसारे विगतज्वराः ॥४४॥
इदानीमात्मशक्त्या वै दीयते भवते मुने ॥
दक्षिणा फलसंप्राप्त्यै प्रसन्नस्त्वं गृहाण च ॥४५॥
इत्युक्तवंतो मुनयो ह्यकिंचनाः समित्कुशं पुष्पफलाक्षतादिकम् ॥
क्लृप्त्वा च तस्मै मुनयः सुमुक्ताः क्षेत्रोत्तमं जग्मुरतिप्रहर्षिताः ॥४६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्र माहात्म्ये जैमिनिऋषिसंवाद एकोनपंचाशत्तमोऽध्यायः ॥४९॥
इति वैष्णवखण्डे द्वितीयं श्रीपुरुषोत्तम (जगन्नाथ) क्षेत्रमाहात्म्यं समाप्तम् ॥

N/A

References : N/A
Last Updated : October 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP