संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्|

पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय २७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ जैमिनिरुवाच ॥
अथांतरिक्षान्निःश्रेणी रत्नकांचननिर्मिता ॥
संलग्ना पादसंपीठे पद्मयोनेर्विमानगा ॥१॥
सा क्षितिस्पृष्टमूला वै विधातुरवरोहणे ॥
चतुर्व्यायामतापीन सोपानश्रेणिसंयुता ॥२॥
रथप्रासादयोर्मध्ये शक्रचाप इवांशुमान् ॥
आविर्बभूव सहसा साद्भुतं वीक्षितो जनैः ॥३॥
ततो गंधर्वराजैस्तु रत्नवेत्रकरैर्द्विजाः ॥
एष पंथाः प्रभो ह्येहि इत्यादेशितमार्गकैः ॥४॥
दुर्वाससो नारदस्य करयोर्दत्तहस्तकः ॥
सोपानैरवतीर्णोऽथ पुनानश्चक्षुषा जगत् ॥५॥
स्मयमानो रथान्दृष्ट्वा प्रासादं समलंकृतम् ॥
दिगंतव्यापिनीं शालां रत्नस्तंभोपशोभिताम् ॥६॥
शक्रस्याप्यद्भुतकरी सर्वसंभारसंभृताम् ॥
अवातरद्विमानात्स देवब्रह्मर्षिराजभिः ॥७॥
किरीटदत्तांजलिभिः स्तूयमानः समंततः ॥
कटाक्षेणानुगृह्णाति यां दिशं स पितामहः ॥८॥
तत्रांजलीनां संमर्दाः कोटयः शिरसा धृताः ॥
पादाब्ज प्रणतं दृष्ट्वा इंद्रद्युम्नं प्रजापतिः ॥९॥
उवाच प्रश्रयगिरा स्मितभिन्नोष्ठसंपुटः ॥
अंगुल्या निर्दिशन्देवान्पितॄन्ब्रह्मर्षितापसान् ॥१०॥
सिद्धविद्याधरान्यक्षगंधर्वाप्सरसस्तथा ॥
एकत्र मिलितान्सर्वान्युगपन्मोदनिर्भरान् ॥११॥
पश्येंद्रद्युम्न भाग्यं ते सर्वलोकवशीकरम् ॥
त्वदर्थमेकदा सर्वे मां पुरस्कृत्य संगताः ॥१२॥
इत्युक्त्वा प्रययौ शीघ्रं नारायणरथं ततः ॥
प्रणिपत्य जगन्नाथं त्रिः परीत्य पितामहः ॥१३॥
आनंदसिंधुसंमग्नः सरोमांचवपुः स्वयम् ॥
स्वमात्मानं नुनावाथ प्रत्यक्षं स्वरगद्गदम् ॥१४॥
॥ ब्रह्मोवाच ॥
नमस्तुभ्यं नमो मह्यं तुभ्यं मह्यं नमोनमः ॥
अहं त्वं त्वमहं सर्वं जगदेतच्चराचरम् ॥१५॥
महदादि जगत्सर्वं मायाविलसितं तव ॥
अध्यस्तं त्वयि विश्वात्मंस्त्वयैव परिणामितम् ॥१६॥
यदेतदखिलाभासं तत्त्वदज्ञानसंभवम् ॥
ज्ञाते त्वयि विलीयेत रज्जुसर्पादिबोधवत् ॥१७॥
अनिर्वक्तव्यमेवेदं सत्त्वात्सत्त्वविवेकतः ॥
अद्वितीय जगद्भास स्वप्रकाश नमोऽस्तु ते ॥१८॥
विषयानंदमखिलं सहजानंदरूपिणः
अंशं तवोपजीवंति येन जीवंति जंतवः ॥१९॥
निष्प्रपंच निराकार निर्विकार निराश्रय ॥
स्थूलसूक्ष्माणुमहिमन्स्थौल्यसूक्ष्मविवर्जित ॥२०॥
गुणातीत गुणाधार त्रिगुणात्मन्नमोऽस्तु ते ॥२१॥
त्वन्मायया मोहितोऽहं सृष्टिमात्रपरायणः ॥
अद्यापि न लभे शर्म अंतर्य्यामिन्नमोस्तु ते ॥२२॥
त्वन्नाभिपंकजाज्जातो नित्यं तत्रैव संस्तुवन् ॥
नातिक्रमितुमीशोऽस्मि मायां ते कोऽन्य ईश्वरः ॥२३॥
अहं यथांडमध्येऽस्मिन्रचितः सृष्टिकर्मणि ॥
तथानुलोमकलिता ब्रह्मांडे ब्रह्मकोटयः ॥२४॥
सार्द्धत्रिकोटिसंख्यानां विरिंचीनामपि प्रभो ॥
नैकोऽपि तत्त्वतो वेत्ति यथाहं त्वत्पुरः स्थितः ॥२५॥
नमोचिंत्यमहिम्ने ते चिद्रूपाय नमोनमः ॥
नमो देवाधिदेवाय देवदेवाय ते नमः ॥२६॥
दिव्यादिव्यस्वरूपाय दिव्यरूपाय ते नमः ॥
जरामृत्युविहीनाय मृत्युरूपाय ते नमः ॥२७॥
ज्वलदग्निस्वरूपाय मृत्योरपि च मृत्यवे ॥
प्रपन्नमृत्युन(?)शाय सहजानंदरूपिणे ॥
भक्तिप्रियाय जगतां मात्रे पित्रे नमो नमः ॥२८॥
प्रणतार्तिविनाशाय नित्योद्योगिन्नमोऽस्तु ते ॥
नमोनमस्ते दीनानां कृपासहजसिंधवे ॥२९॥
पराय पररूपाय परंपाराय ते नमः ॥
अपारपारभूताय ब्रह्मरूपाय ते नमः ॥३०॥
परमार्थस्वरूपाय नमस्ते परहेतवे ॥
परंपरा परिव्याप्त परतत्त्वपराय ते ॥३१॥
प्रणतार्तिविनाशाय नमः स्वात्मैकभानवे ॥
पुरा यत्प्रार्थितं स्वास्मिन्सृष्टिभारावतारणे ॥३२॥
तत्कुरुष्व जगन्नाथ सहजाक्तदरूपभाक् ॥
त्वयि प्रसन्ने किं नाथ दुर्लभं मयि विद्यते ॥३३॥
त्वयैवाहं पृथग्लीलाभेदाद्भिन्नः कृपांबुधे ॥
अज्ञानतिमिरच्छन्ने जगत्कारागृहांतरे ॥३४॥
भ्राम्यन्न द्वारमाप्नोति त्वामृते मुक्तिहेतवे ॥३५॥
नमोनमस्ते जगदेकवन्द्य सुरासुराभ्यर्चितपादपद्म ॥
नमोनमस्तापहरैकचंद्र नमोनमः शर्मसुबोधसांद्र ॥३६॥
नमो नमः कल्पकदूरभूत दुष्प्राप्यकामप्रद कल्पवृक्ष ॥
दीनाशरण्यप्रणतैकदुःखसंघोद्धृतौ नित्यसुबद्धपक्ष ॥३७॥
प्रसीद जगतां नाथ मग्नानां दुःखसागरे ॥
कटाक्षलीलापातेन त्रायस्व करुणाकर ॥३८॥
स्तुत्वेत्थं श्रीजगन्नाथं वेदार्थः स पितामहः ॥
जगाम सीरिणं द्रष्टुमवतीर्णं धराधरम् ॥३९॥
प्रणम्य परया भक्त्या तुष्टाव बलिनं मुदा ॥
नभः शिरस्ते देवेश आपस्ते विग्रहः प्रभो ॥४०॥
पादौ क्षितिर्मुखं वह्निः श्वसितानि समीरणः ॥
मनस्ते ह्योषधीनाथश्चक्षुषी ते दिवाकरः ॥४१॥
बाहवः ककुभो नाथ नमस्ते ज्ञानदर्पण ॥
चतुर्दशानां लोकानां मूलस्तंभाय सीरिणे ॥४२॥
पदांभोजप्रपन्नानां नमः पापौघदारिणे ॥
अनन्तवक्त्रनयनश्रोत्रपादाक्षिबाहवे ॥४३॥
नमो नादिमहामूलतमःस्तोमौघभानवे ॥
त्रयीमय त्रिधादोषनाशाय त्र्यवतारिणे ॥४४॥
फणामणिफणाकार क्षितिमण्डलधारिणे ॥
नमः कालाग्निरुद्राय महारुद्राय ते नमः ॥४५॥
भोगतल्पफणाच्छत्रमध्यसुप्ताय ते नमः ॥
महार्णवजले वृद्ध एकीभूते जगत्त्रये ॥४६॥
त्वमेव शेषो भगवन्सहस्रफणमंडितः ॥
फणामणिगणव्याजसंभृताखिलभौतिकः ॥४७॥
त्वमेव नाथः सर्वेषां स्रष्टा पालयिता विभो ॥
अत्ता धारयिता नित्यं मदाद्यास्त्वन्निमित्तकाः ॥४८॥
एष नारायणो देवो वेदांतेषूपगीयते ॥
त्वत्तो न भिन्नो भगवन्कारणाद्भेदभागसि ॥४९॥
शय्या त्वं शयिता ह्येष छाद्यः संछादको भवान् ॥
यो वै विष्णुः स वै रामो यो रामः कृष्ण एव सः ॥५०॥
युवयोरंतरं नास्ति प्रसीद त्वं जगन्मय ॥
इति स्तवांते बलिनं प्रणम्य परमेश्वरम् ॥५१॥
ईश्वरीं जगतां द्रष्टुं सुभद्रास्यन्दनं ययौ ॥
जय देवि जगन्मातः प्रसीद परमेश्वरि ॥५२॥
कार्यकारणकर्त्री त्वं सर्वशक्त्यै नमोऽस्तु ते ॥
सर्वस्य हृदि संविष्टे ज्ञानमोहात्मिके सदा ॥५३॥
कैवल्यमुक्तिदे भद्रे त्वां नमामि सुरारणिम्॥
देवि त्वं विष्णुमायासि मोहयन्ती चराचरम्॥ ५४॥
हृत्पद्मासनसंस्थासि विष्णुभावानुसारिणी॥
त्वमेव लक्ष्मीर्गौरी च शची कात्यायनी तथा ॥५५॥
यच्च किंचित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ॥
तस्य सर्वस्य शक्तिस्त्वं स्तोतुं त्वां कस्तु शक्तिमान् ॥५६॥
जय भद्रे सुभद्रे त्वं सर्वेषां भद्रदायिनि ॥
भद्राभद्रस्वरूपे त्वं भद्रकालि नमोऽस्तु ते॥५७॥
त्वं माता जगतां देवि पिता नारायणो हि सः॥
स्त्रीरूपं त्वं सर्वमेव पुंरूपो जगदीश्वरः ॥५८॥
युवयोर्न हि भेदोऽस्ति नास्त्यन्यत्परमेव हि ॥
यथा वयं नियुक्ता हि त्वया वै विष्णुमायया ॥५९॥
निदेशकारिणो नित्यं भ्रमामः परमेश्वरि ॥
वृत्तिः प्रवृत्तिः परमा क्षुधा निद्रा त्वमेव च ॥६०॥
आशा त्वमाशापूर्णा च सर्वाशा परिपूरिका॥
मुक्तिहेतुस्त्वमेवेशि बंधहेतुस्त्वमेह हि॥ ६१॥
सर्वज्ञानप्रदे नित्ये भक्तानां कल्पवल्लरी॥
त्राहि पादाब्जनम्रं मां कृपापांगविलोकनैः॥ ६२॥
स्तुत्वेत्थं भद्ररूपां तां तत्समीपस्थितं रथे॥
चक्रं सुदर्शनं विष्णोश्चतुर्थं वपुरास्थितम्॥६३॥
प्रणम्य परया भक्त्या इमां स्तुतिमुदाहरत्॥
सुदर्शन महाज्वाल कोटिसूर्यसमप्रभ॥६४॥
अज्ञानतिमिरांधानां वैकुण्ठाध्वप्रदर्शकः॥
नमस्ते नित्यविलसद्वैष्णवस्वनिकेतन ॥६५॥
अवार्यवीर्यं यद्रूपं विष्णोस्तत्प्रणमाम्यहम् ॥
प्रणम्य स्तुत्वा देवान्स रथेभ्यः परिवृत्य च ॥६६॥
इन्द्रद्युम्ननारदाभ्यामादिष्टपदपद्धतिः ॥
नीलाचलमथारोहत्प्रासादं द्रष्टुमुत्सुकः ॥६७॥
ततः स गत्वा प्रासादसमीपं दैवतैः सह ॥
ददर्श शालां-रुचिरां स्वचित्ताभिमता द्विजाः ॥६८॥
तन्मध्ये स्थापयामास दैवतोरगभूपतीन् ॥
ब्रह्मर्षीन्योगिनो विप्रान्वैष्णवांश्च तपस्विनः ॥६९॥
दिव्यसिंहासनवरे नृपेण प्रतिपादिते ॥
स पादपीठे भगवानुपविष्टः स्वयं विभुः ॥७०॥
शांतिकं पौष्टिकं कर्तुं भारद्वाजं महामुनिम् ॥
पितामहाज्ञया भूपो वरयामास ऋद्धिमत् ॥७१॥
प्रतिष्ठायां तु ये देवा बलिपूजाविधौ मताः ॥
होमेषु च तथा ते वै ध्यानरूपमुपाश्रिताः॥७२॥
आज्ञया पद्मयोनेस्तु चतुर्दिग्भागमाश्रिताः ॥
सुपूजिता गंधपुष्पमालालंकारभूषणैः ॥७३॥
ततः कर्म प्रववृते भारद्वाजेन धीमता ॥
प्रत्यक्षं देवदेवस्य सर्वेषां च दिवौकसाम् ॥७४॥
त्रैलोक्यवासिनां पूजां चकार नृपतिर्मुदा ॥
सांगोपांगं समभ्यर्च्य जगत्स्रष्टारमग्रतः ॥७५॥
ततः संपूजिताः सर्वे तेन त्रैलोक्यवासिनः ॥
पश्यन्तोऽवस्थितं मध्ये साक्षाद्ब्रह्माणमव्ययम् ॥७६॥
वपुष्मंतं जगन्नाथं प्रत्यक्षं ब्रह्मरूपिणम् ॥
इन्द्रद्युम्नप्रसादेन जीवन्मुक्तत्वमाप्नुवन् ॥७७॥
कलेवरं भगवतः प्रासादं सुमनोहरम् ॥
प्रतिष्ठाय भरद्वाजः समुच्छ्रितमहाध्वजम् ॥७८॥
व्यज्ञापयतत्प्रतिष्ठायै जीवस्याथ पितामहम् ॥
समुत्तस्थौ ततो ब्रह्मा कृतस्वस्त्ययनः स्वयम् ॥७९॥
ऋषिभिर्नारदाद्यैश्च विद्वद्भिर्ब्राह्मणैस्तथा ॥
राजभिः क्षत्रियैर्नागैः सहितः परमर्षिभिः ॥८०॥
गन्धर्वैर्गायमानेषु दिव्यगानेषु सुस्वरम् ॥
मांगल्योचितरागेषु नृत्यन्तीष्वप्सरःसु च ॥८१॥
शाकुनेषु च सूक्तेषु पठ्यमानेषु च द्विजैः ॥
शंखकाहालमुरजभेरीवादित्रवैणवे ॥८२॥
शब्दे प्रमूर्च्छति ततः सर्वे ते स्यन्दनोपरि ॥
गत्वावतारयामासू रथात्सोपानवर्त्मनि ॥८३॥
सावधानाः समाधिस्था भक्त्या संयमितात्मकाः ॥
पार्श्वयोर्भुजयोर्मूर्ध्नि पादयोर्न्यस्तपाणयः ॥८४॥
शनैः शनैः सलीलं ते नारायणमनामयम् ॥
वासं वासं तूलिकासु निन्युः प्रासादसन्निधिम् ॥८५॥
उपर्युपरि संतानवृष्टिपूत्पतितासु च ॥
जय कृष्ण जगन्नाथ जय सर्वाऽघनाशन ॥८६॥
जय लीलादारुतनो जय वांछाफलप्रद ॥
जय संसारसंमग्नलीलोद्धार जयाव्यय ॥८७॥
जयानुकंपापाथोधे जय दीनपरायण ॥
जयाच्युत जयानन्त जयेशान नमोऽस्तु ते ॥८८॥
एभिः स्तवैः स्तूयमानो ब्रह्मणा च स्वयंभुवा ॥
तुष्टाव स मुदा युक्तो नारदश्चोपवीणयन् ॥८९॥
रत्नच्छत्रयुगे मूर्ध्नि धार्यमाणेऽथ पृष्ठतः ॥
शशिना भास्वता भक्त्या दिव्यधूपेन धूपिता ॥९०॥
श्रेणीकृता ह्युभयतः पार्श्वयोश्चामरग्रहाः ॥
सलीलांदोलनव्यग्रा यौवनालंकृतास्तथा ॥९१॥
एवं च सहिताः सर्वे कौतूहलसमन्विताः ॥
सुदर्शनं सुभद्रां च बलभद्रमनैषिषुः ॥९२॥
प्रासादद्वारि रचिते रत्नस्तंभेऽथ मण्डपे ॥
वासयित्वाभिषेकाय संमुखादर्शमण्डले ॥९३॥
अधिवासितै रत्नकुंभैस्तीर्थवार्युपसंभृतैः ॥
सूक्ताभ्यां श्रीपुरुषयोरभिषेकं पितामहः ॥
चकार भगवाँल्लोकसंग्रहार्थं द्विजोत्तमाः ॥९४॥
ततो ह्यलंकृतान्देवान्गंधमाल्योपशोभितान् ॥
नीराजयित्वा भगवान्स स्वयं लोकभावनः ॥
रत्नसिंहासने रम्ये स्थापयामास मन्त्रतः ॥९५॥
॥ ब्रह्मोवाच ॥
अशेषजगदाधार सर्वलोकप्रतिष्ठित ॥
सुप्रतिष्ठाखिलव्यापिन्प्रासादे सुस्थिरो भव ॥९६॥
त्वयि प्रतिष्ठिते नाथ वयं सर्वे प्रतिष्ठिताः ॥
त्वदाज्ञया प्रतिष्ठेयं पूर्णाऽऽस्तां त्वत्प्रसादतः ॥९७॥
स्थापयित्वा जगन्नाथं स्पृष्ट्वा तस्य हृदंबुजम् ॥
आनुष्टुभं मंत्रराजं सहस्रं स जजाप ह ॥९८॥
वैशाखस्यामले पक्षे अष्टम्यां पुष्ययोगतः ॥
कृता प्रतिष्ठा भो विप्राः शोभने गुरुवासरे ॥९९॥
तद्दिनं सुमहत्पुण्यं सर्वपापप्रणाशनम् ॥
स्नानं दानं तपो होमः सर्वमक्षय्यमश्नुते ॥१००॥
तस्मिन्दिने ये पश्यंति मानवा भक्तिभाविताः ॥
कृष्णं रामं सुभद्रां च मुक्तिभाजो न संशयः ॥१०१॥
शुक्लाष्टमी या वैशाखे गुरुपुष्ययुता यदा ॥
तस्यामभ्यर्चनं विष्णोः कोटिजन्माघनाशनम् ॥१०२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये सप्तविंशोऽध्यायः ॥२७॥

N/A

References : N/A
Last Updated : October 13, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP