संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्|

पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ४१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ जैमिनिरुवाच ॥
पुष्यस्नानोत्सवं वक्ष्ये यथोक्तं ब्रह्मणा पुरा ॥
पुष्यर्क्षेण च संयुक्ता पौर्णमासी यदा भवेत् ॥१॥
पौषे मासि तथा कुर्यात्पुष्यस्नानोत्सवं हरेः ॥
एकादश्यां प्रकुर्वीत ऐशान्यामंकुरार्पणम् ॥२॥
ततः प्रतिदिनं कुर्यात्प्रतिमायां हरेर्गृहे ॥
नृत्यगीतोपहारैश्च प्रतिरात्रं वलिं हरेत् ॥३॥
चतुर्दशीनिशायां तु कुंभानामधिवासनम् ॥
एकाशीतिप्रमाणानां तथा स्वर्णमयाञ्च्छुभान् ॥४॥
गव्यसर्पिःप्रपूर्णांश्च स्थापयेदेकविंशतिम् ॥
कारयेत्सर्वतोभद्रं मंडलं पुरतो हरेः ॥५॥
तन्मध्ये बृहदाधारं स्थापयेद्दर्पणं शुभम् ॥
रात्रौ जागरणं कुर्याद्गीतनृत्यादिविस्तरैः ॥६॥
प्रभाते वह्निकार्यं च कुर्यात्तद्दैवतं द्विजाः ॥
पालाशीभिः समिद्भिस्तु चरुणा सर्पिषा तथा ॥७॥
ब्रह्मविष्णुशिवेभ्यस्तु प्रत्येकं तु सहस्रकम् ॥
स्वलिंगमन्त्रैर्जुहुयात्तदंते पुरुषोत्तमम् ॥८॥
पूजयेदुपचारैस्तैरादर्शं प्रतिबिंबितम् ॥
ततः पुरुषसूक्तेन कुम्भांस्तानभिमन्त्रयेत् ॥९॥
तेनैवाच्छिद्रधारेण स्नापयेत्पुरुषोत्तमम्॥
पावमानीयकैर्देवाञ्छ्रीसूक्तेन ततः परम् ॥१०॥
सर्पिः कुंभैः स्नापयेच्च गायत्र्या च ततः परम् .॥
वैष्णव्या गन्धतोयेन श्रीसूक्तेन समर्चयेत् ॥११॥
सहस्रधारया देवं ततो निर्माल्यमुत्सृजेत् ॥
देवांगं लेपयेद्गन्धैश्चंदनेन च विग्रहे ॥१२॥
यथास्थानं यथाशोभमलंकारांश्च योजयेत् ॥
सुगन्धसुमनोमाल्यैर्भूषयेत्तदनंतरम् ॥१३॥
अष्टायुधानि देवस्य चक्रादीनि न्यसेत्पुरः ॥
रत्नच्छत्रं समुच्छ्रित्य पूजयेत्पुरुषोत्तमम् ॥१४॥
लक्ष्म्या युक्तं पुनर्विप्रा उपहारैः समृद्धिमत् ॥
शंखेषु पूर्यमाणेषु स्निग्धगंभीरनादिषु ॥१५॥
चामरांदोलव्यग्रासु वेश्यासु रुचिरासु च ॥
मांगल्यगीतनृत्याद्यैः स्तुतिपाठेषु बन्दिनाम् ॥१६॥
जयशब्दं प्रकुर्वत्सु द्विजातिषु मुहुर्मुहुः ॥
दूर्वाक्षतांजलिभिस्त्रिभिः संपूज्य केशवम् ॥१७॥
गोसर्पिर्दीपकैः स्वर्णपात्रकैरतिनिर्मलैः ॥
नीराजयेज्जगन्नाथं कर्पूरयुतवर्तिभिः ॥१८॥
स्वर्णपात्रस्थितं चारु तांबूलं सुपरिष्कृतम् ॥
शनैःशनैर्मुखाभ्याशे प्रत्येकं विनिवेदयेत् ॥१९॥
आचार्ये दक्षिणां दद्याद्ब्राह्मणांश्चैव पूजयेत् ॥२०॥
पुष्यस्नानोत्सवं पुण्यं ये पश्यंति मुदान्विताः ॥
संपूर्णसर्वकामास्ते व्रजेयुर्वैष्णवं पदम् ॥२१॥
राज्यभ्रष्टो लभेद्राज्यं सार्वभौमं च विंदति ॥
अपुत्रा मृतवत्सा वा पुत्रं दीर्घायुषं लभेत् ॥२२॥
दारिद्र्यनाशनं धन्यं ब्रह्मवर्चसकारणम् ॥
पुष्यस्नानं कीर्तितं वः शृणुध्वं चोत्तरायणम् ॥२३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये पुष्याभिषेकविधिवर्णनं नामैकचत्वारिंशोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : October 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP