संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्| अध्याय २१ पुरुषोत्तमजगन्नाथमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ विषयानुक्रमणिका पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय २१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय २१ Translation - भाषांतर ॥ जैमिनिरुवाच ॥इति ब्रुवाणं राजर्षिं कश्चिदृग्वेदपारगः ॥वेदांतविज्ज्ञानशीलो द्विजो वाक्यं मुदा जगौ ॥१॥अहो तवायं खलु भाग्यराशिर्येनाविरासीद्भुवि दारुमूर्तिः ॥यस्यात्युपास्तिं श्रुतिराह मुक्तिप्रदामनात्मज्ञविमोहितानाम् ॥२॥य एष प्लवते दारुः सिंधोः पारे ह्यपौरुषम् ॥तमुपास्य दुराराध्यं मुक्तिं यांति सुदुर्लभाम् ॥३॥ब्रह्मज्ञाननिधिः साक्षान्नारदः प्रत्युवाच यत् ॥न हि वेदांतवचसोऽपरस्माज्ज्ञानमस्य वै ॥४॥न हि प्रवृत्तिर्विष्णोस्तु विना वेदं प्रवर्तते ॥परेषां स्वस्य वा सृष्टौ श्रुतिप्रामाण्यवान्प्रभुः ॥५॥विना श्रुतिं प्रवर्तेच्चेत्कस्तत्प्रामाण्यमृच्छति ॥तस्माच्छ्रुतिप्रसिद्धोऽयमवतारोऽत्र भूपते ॥६॥वेदांतवेद्यं पुरुषं गीतं तं सामगीतिषु ॥प्रतिमां न तु जानीहि निःश्रेयसकरं नृणाम् ॥७॥दर्शनादेव नः शांतं सुदृढं तम उत्तमम् ॥संत्येव श्रुतयः पूर्वमेतदर्चाप्रकाशिकाः ॥८॥एतदर्चा प्रशस्ता वै सदर्थे विनियोजिता ॥अहो भारतवर्षस्था मनुष्याः क्षीणकल्मषाः ॥९॥अपवर्गप्रदो येषामाविरासीज्जनार्दनः ॥तत्राप्ययं चोढ्रदेशः सर्वेषामुत्तमोत्तमः ॥१०॥यत्रस्थाश्चर्मनेत्रेण पश्यंति ब्रह्मरूपिणम् ॥श्रुतिस्मृतीनां गहनः पंथा कर्मभिराकुलः ॥११॥येन याता भ्रमंतीह घटीयंत्रवदाकुलाः ॥निर्व्यलीकपदप्राप्तिहेतुरेष स चिन्मयः ॥१२॥श्रुत्यादिभिर्विनोपायैः परमानंदमुक्तिदः ॥निरंतरगतायातदुःस्थितानां दुरात्मनाम् ॥१३॥एष दारुवपुर्विष्णुः सुखदाता सुबांधवः ॥श्रुतिस्मृत्युक्तनियमा वर्तंते नेह पार्थिव ॥१४॥यथा तथा दृष्टिपथमाचांडालाद्विमुक्तिदः ॥अभक्तश्चेदमुं पश्येद्गतानुगतिको नरः ॥१५॥अश्वमेधसहस्राणां फलं ह्यविकलं लभेत् ॥भजेच्चेन्नियमस्थो हि भक्तिमान्दृढमानसः ॥१६॥असंशयं स सायुज्यं ब्रह्मणा लभते नरः ॥क्व दुःखायासबहुलमनायासविनश्वरम् ॥१७॥अचिरस्थं क्षुद्रफलं पुनरावृत्तिलक्षणम् ॥क्वेदं दारुमयं ब्रह्म पापराशिदवानलम् ॥१८॥सच्चिदानंदकैवल्यमुक्तिदं दर्शनादपि ॥वेदानुवचनादीनि दुष्कराणि दुरात्मनाम् ॥१९॥महात्मभिस्तैर्यत्प्राप्यं तदव्यग्रमयं ददेत् ॥अन्यक्षेत्रेषु भगवान्सुदूरो मर्त्यवासिनाम् ॥२०॥स्वक्षेत्रेऽस्मिन्निवसति नित्यं मुक्तिप्रदो विभुः ॥अस्मादत्र महाभाग तिष्ठ स्वबलपौरुषः ॥२१॥विद्वत्तमोऽसि भक्तश्च सांगोपांगममुं भज ॥२२॥॥ जैमिनिरुवाच ॥द्विजस्य तद्वचः श्रुत्वा नारदो हृष्टमानसः ॥साधूक्तं द्विजवर्येण श्रौतमार्गानुसारिणा ॥२३॥सृष्ट्यादौ ब्रह्मनिश्वासैरभवद्वेदसंहतिः ॥तत्रोपनिषदर्थोऽयं सांप्रतं व्यक्तिमागतः ॥२४॥वेत्त्येतदर्थं भगवान्पद्मयोनिः प्रजापतिः ॥अज्ञासिषं च भूपाल सांप्रतं तन्मुखादहम् ॥२५॥तस्याज्ञया कृतं सर्वं यथाभिलषितं तव ॥एनमाराध्य तिष्ठात्र याम्यहं ब्रह्मणोंऽतिकम् ॥२६॥कृतं निवेदयिष्यामि प्रकाशं च मुरद्विषः ॥प्रासादं कुरु भूपाल धनेन महता तथा ॥२७॥प्रासादे नरसिंहं तु प्रतिष्ठाप्य विमुच्यसे ॥२८॥॥ जैमिनिरुवाच ॥तच्छ्रुत्वा स तु भूमींद्रः प्रत्युवाच मुनिं तदा ॥महर्षेऽहं त्वया सार्द्धं यियासुर्ब्रह्मणोंऽतिकम् ॥२९॥यत्प्रसादाज्जगन्नाथश्चकेऽयं लोचनातिथिः ॥निवेद्य तं च प्रासादं प्रतिष्ठार्थं मुरद्विषः ॥३०॥विज्ञापयिष्ये सान्निध्ये प्रासादस्थापनोत्सवम् ॥यथा स्वयं समागम्य ब्रह्मलोकात्पितामहः ॥३१॥महोत्सवं भगवतः प्रासादेऽत्र करिष्यति ॥तन्मुने मामपि विधेः संनिधिं प्रापयस्व च ॥३२॥गर्भप्रतिष्ठां प्रासादे समाप्येह स्थितो मुने ॥पश्चादावां गमिष्यावः कंचित्कालं प्रतीक्ष मे ॥३३॥ततः स नृपतिः सर्वाञ्छिल्पशास्त्रविशारदान् ॥पाषाणखंडघटनाकर्मण्येकैकयोगतः ॥३४॥सत्कारैर्दानमानैश्च योजयामास सादरम् ॥दिने दिने सुघटितः प्रासादो ववृधे द्विजाः ॥३५॥परितः पूर्यमाणस्तु शुक्लपक्षे यथा शशी ॥एवं संवर्ध्यमानोऽपि प्रासादः परिवर्द्धितः ॥३६॥महोच्छ्रयत्वादल्पेन न कालेनाभिलक्ष्यते ॥पाषाणसंख्या शक्या वा कथंचिद्घटनाक्रमात् ॥३७॥वित्तव्ययस्तु कोटीनां न संख्यातुं च शक्यते ॥यावन्तो भारते वर्षे लोकाः समयवर्तिनः ॥३८॥इन्द्रद्युम्नस्य नृपतेर्नियुक्तास्ते महीभृतः ॥एकैकशो नियुक्ता ये परस्परसमन्विताः ॥३९॥तेऽपि चान्यैर्नियुक्तास्ते सर्वे तत्र प्रवर्तिताः ॥अजस्रं तन्नियुक्तानां यो हर्षोत्थो महारवः ॥४०॥आकाशमश्नुवानोऽसौ दिशां भागानपूरयत् ॥नृपतेः श्रद्धया भक्त्या सात्त्विकेन प्रसादिता ॥४१॥श्रीः समृद्धाभवद्विप्राः कीर्त्या सह महीपतेः ॥क्वचित्कांचनविन्यस्तनानारत्नमहोज्ज्वलः ॥४२॥क्वचित्स्फटिकभागांतशारदाभ्रनिभच्छविः ॥क्वचिन्नीलाश्मघटिता भित्तिः कालाभ्रमेदुरा ॥४३॥एवं सुघटिते विष्णोः प्रासादे सुमनोहरे ॥गर्भप्रतिष्ठां विधिवत्कृत्वा स नृपसत्तमः ॥४४॥वज्रपातादिभंगादिवारणार्थं यथोचितम् ॥शिल्पशास्त्रेषु मण्यादि विन्यस्य पौरुषाहृतम् ॥४५॥पुनः प्रासादघटनासंभारोचितमेव वै ॥बहुमूल्यं वस्तुजातं यत्नात्तत्र न्यवेशयत् ॥४६॥ततो विरच्यमानेऽस्मिन्प्रासादे कीर्तिवर्द्धने ॥मनसापि न संभाव्ये त्रिषु लोकेषु भूभुजाम् ॥४७॥देवानामपि नो लक्ष्ये द्विजाः कल्पांतवासिनाम् ॥प्रासाद ईदृशो भूमौ क्वचिच्च घटितो न हि ॥४८॥स्वर्गे वा इत्थमादित्या आलपंति परस्परम्॥अहो सुबुद्धिरस्योच्चैर्येयमीदृक्परीणता ॥४९॥श्रद्धया भगवत्पादपद्मयोः साभिलाषिणी ॥अलौकिकानि कर्माणि पश्यंति हि रचंत्यपि ॥५०॥के वात्र भूमौ राजानो बभूवुर्नीतिशालिनः ॥सार्वभौमास्तु साम्राज्यजेतारः सर्वविद्विषाम् ॥५१॥वित्तानि यैः संचितानि सुबहूनि च कोटिशः ॥अश्वमेधसहस्रं तु यत्कृतं त्रिदिवेशितुः ॥५२॥शक्यं वा स्याद्भूभुजां तु नातः पूर्वमनुष्ठितम्॥न दृष्टं न श्रुतं वापि वाजिमेधसहस्रकम्॥५३॥महीक्षितानुष्ठितं वै यत्र त्रैलोक्य वासिनः॥पृथिव्यामस्य नृपतेः सहस्था भोगभोगिनः॥५४॥ब्रह्मलोक इवाभाति सभ यस्य च यज्विनः॥मूर्तिमंतस्त्रयो वेदाश्चतुष्पादो वृषस्तथा ॥५५॥सुराः संकल्पकामास्तु यत्राद्भुतधियोऽभवन् ॥अयं प्रासादवर्यो वै बुद्धेर्विषयतां गतः ॥५६॥मनोऽपि यत्र भवति न वा त्रैलोक्यवासिनाम् ॥भूपतेर्दुर्लभं किं स्यात्सहायो यस्य नारदः ॥५७॥पितामहश्च जगतां स्रष्टा सर्वामरेश्वरः ॥अथवा विष्णुभक्तस्य नातिदूरं चिकीर्षितम् ॥५८॥विष्णोस्तद्भक्तलोकस्य नांतरं विद्यते द्विजः ॥ततः स नारदं प्राह प्रासादांते मुनीश्वरम् ॥५९॥सर्वं सपन्नमासीन्मे यदशक्यं सुरासुरैः ॥साक्षाद्भगवतो विष्णोरद्वैतोपासनारतः ॥६०॥भगवद्वपुराभाषि प्रासादस्तु चिरं मयि ॥इत्युक्त्वा पादयोर्मूर्ध्ना प्रणनाम स नारदम्॥ ६१॥नारदोऽपि तमुत्थाप्य परिपूज्य नृपोत्तमम्॥त्वत्तो न भेदो नृपते ममास्ति खलु तत्त्वतः॥६३॥यस्तु साक्षाज्जगन्नाथ आविर्भूतः कृतेन वा॥अवश्यमर्चयस्वैनं जीवन्मुक्तोऽसि सांप्रतम्॥६३॥तत्पादपद्मे यादृक्ते चेतः प्र प्रवणतान्वितम्॥भक्त्या ह्यनन्यया पुंसः किमतः परमस्ति वै॥६४॥तीर्थैर्मंत्रैर्जपैर्दानैः क्रतुभिर्भूरिदक्षिणैः॥व्रतैरध्ययनैर्भूप तपोभिश्च यदर्जितुम्॥ ६५॥न शक्यं तव राजेन्द्र भक्त्या तत्करमागतम् ॥अतः परं न शोचस्व भक्तियोगे नमोऽस्तु ते ॥६६॥प्रकर्षं बहुराजेंद्र स्थित्वा चास्मिंश्चिरं भुवि ॥आराधय जगन्नाथमुपचारैर्महोत्सवैः ॥६७॥पितामहं द्रष्टुकामो गंता चेदंतिकं विभोः ॥उपदेक्ष्यति सोऽप्यस्य यात्रास्तास्ता महोत्सवाः ॥६८॥स्वयं च भगवानेव वरं तुभ्यं प्रदास्यति ॥प्रतिष्ठापिते प्रासादे तस्मिन्काले स्वयंभुवा ॥६९॥अहमप्यागमिष्यामि तदा सप्तर्षिभिः सह ॥तदावां तत्र गच्छावो ब्रह्मलोकमकल्मषम् ॥७०॥त्वां विना भुवि कः शक्तो ब्रह्मलोकगतिं प्रति ॥इत्युक्त्वा नारदो भूपं समुत्तस्थौ नभस्तलम् ॥७०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवाद एकविंशोऽध्यायः ॥२१॥ N/A References : N/A Last Updated : October 13, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP