संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ६१ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ६१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६१ Translation - भाषांतर श्रीवसिष्ठ उवाच ।ये हि राजससात्त्विक्या जाता भुवि महागुणाः ।ते नित्यमेव मुदिताः प्रकाशाः ख इवेन्दवः ॥१॥न खेदमभिगच्छन्ति व्योमभागो मलं यथा ।नापदा म्लानिमायान्ति निशि हेमाम्बुजं यथा ॥२॥नेहन्ते प्रकृतादन्यत्ते नान्यत्स्थावरो यथा ।रमन्ते स्वसदाचारैः स्वार्थेभ्यः पादपा यथा ॥३॥नित्यमापूर्यतां याति सुधायामिन्दुसुन्दरी ।राम राजससत्त्वस्य मोक्षमायात्यसौ यथा ॥४॥आपद्यपि न मुञ्चन्ति शशिवच्छीततामिव ।प्रकृत्यैव विराजन्ते मैत्र्यादिगुणकान्तया ॥५॥नवस्तबकभाविन्या लतयेव वनद्रुमाः ।समाः समरसाः सौम्याः सततं साधुसाधवः ॥६॥अब्धिवद्भुतमर्यादा भवन्ति भवता समाः ।अतस्तेषां महाबाहो पदमापदवासनम् ॥७॥सततं तत्तु गन्तव्यं गन्तव्यं नापदर्णवे ।तथा तथेह जगति विहर्तव्यमखेदिना ॥८॥आत्मोदयाश्च वर्धन्ते यथाऽराजससात्त्विकाः ।अचिन्त्यगत्या सच्छास्त्रं विचार्य च पुनःपुनः ॥९॥अनित्यता स्वमनसा विविधैवाशु भावतः ।आदावन्ते च यां नित्यं क्रिया त्रैलोक्यवर्तिनीम् ॥१०॥पदार्थानापदेवाशु भावयेन्नेतरत्सुधीः ।असम्यग्दर्शनं त्यक्त्वा व्यर्थमज्ञानसंततिम् ॥११॥स्मर्तव्यं सम्यगेवेदं ज्ञानमर्थमनन्तकम् ।कोऽहं कथमिदं जातं संसाराडम्बरं विभो ॥१२॥प्रविचार्य प्रयत्नेन प्राज्ञेन सह साधुभिः ।नच कर्मसु मङ्क्तव्यं नानर्थेन सहावसेत् ॥१३॥द्रष्टव्यः सर्वविच्छेदः संसारानुगतः सदा ।साधुरेवानुगन्तव्यो मयूरेणाम्बुदो यथा ॥१४॥अहंकारस्य देहस्य संसारस्याप्लवस्य च ।स्वविचारमलंकृत्य सत्यमेवावलोकयेत् ॥१५॥शरीरमस्थिरमपि संत्यक्त्वा घनशोभनम् ।वीतमुक्तावलीतन्तुं चिन्मात्रमवलोकयेत् ॥१६॥तस्मिन्पदे नित्यतते सर्वगे सर्वभाविते ।शिवे सर्वमिदं प्रोतं सूत्रे मणिगणा यथा ॥१७॥यैव चिद्भुवनाभोगे भूषणे व्योम्नि भास्करे ।धराविवरकोशस्थे सैव चित्कीटकोदरे ॥१८॥कुम्भव्योम्नां न भेदोऽस्ति यथेह परमार्थतः ।चितौ शरीरसंस्थानां न भेदोऽस्ति तथानघ ॥१९॥सर्वेषामेव भूतानां तिक्तकट्वादिभेदिनाम् ।एकत्वादनुभूतेर्हि कुतश्चिन्मात्रभिन्नता ॥२०॥एकस्मिन्नेव सततं स्थिते सन्मात्रवस्तुनि ।जातोऽयमयमुन्नष्ट इति तेषां तवेह धीः ॥२१॥नच तन्नाम वस्त्वस्ति यद्भूत्वा संप्रलीयते ।आभासमात्रमेवेदं न सन्नासच्च राघव ॥२२॥उद्भूतेनाप्रशान्तेन चेतसा सपदि स्थितम् ।नेह मोहान्त आमोक्षान्नेदं यत्तदवस्तु च ॥२३॥किं किलासति रामेह मोहजाले समुज्झति ।यत्किंचित्सङ्गसङ्गत्या विमोहे कारणं हि तत् ॥२४॥[ असति जगति किं किलेह मोदःसति च किमङ्ग विमोहकारणं तत् ।जननमरणसंस्थितिष्वतस्त्वंभव खमिवातिसमः सदोपशान्तः॥]इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे जननमरणसंस्थितिर्नामैकषष्टितमः सर्गः ॥६१॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP