संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ७ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इति शुक्रः पुरं प्राप्य वैबुधं स्वेन तेजसा ।विसस्मार निजं भावं प्राक्तनं व्यसनं विना ॥१॥मुहूर्तमिव विश्रम्य तस्य पार्श्वे शचीपतेः ।स्वर्गं विहर्तुमुत्तस्थौ स्वर्गाभिपरिमोदितः ॥२॥स्वःश्रियं स समालोक्य लोललोचनवाञ्छिताम् ।स्त्रैणं द्रष्टुं जगामासौ नलिनीमिव सारसः ॥३॥तत्र तां मृगशावाक्षीं कान्तामध्यगतामसौ ।ददर्श विपिनान्तस्थां भृगुश्चूतलतामिव ॥४॥सापि तं भार्गवं राम दृष्ट्वा परवशाभवत् ।तामालोक्य लसल्लोलविलासवलिताकृतिम् ॥५॥आसीद्विलीयमानाङ्गो ज्योत्स्नामिन्दुमणिर्यथा ।विलीयमानसर्वाङ्गस्तामवैक्षत कामिनीम् ॥६॥चन्द्रकान्त इव ज्योत्स्नां शीतलां खे विलासिनीम् ।तेनावलोकिता सापि तत्परायणतां गता ॥७॥निशान्ते चक्रवाकेन कान्तेव परिकूजिता ।रसाद्विकसिता नूनमन्योन्यमनुरक्तयोः ॥८॥प्रातरर्कनलिन्योर्या शोभा सैव तयोरभूत् ।संकल्पितार्थदायित्वाद्देशस्याभूच्च तेन सा ॥९॥सर्वाङ्गं विवशीकृत्य कामायैव समर्पिता ।पेतुः स्मरशरास्तस्या मृदुष्वङ्गेषु भूरिशः ॥१०॥पलाशेष्विव पद्मिन्या धारा इव पयोमुचः ।सा बभूवस्मरोद्भूता लोलालिवलयाकुला ॥११॥मन्दवाताभिनुन्नाया मञ्जर्याः सहधर्मिणी ।नीलनीरजनेत्रान्तां हंससारसगामिनीम् ॥१२॥मदनः क्षोभयामास गजः कमलिनीमिव ।अथ तां तादृशीं दृष्ट्वा शुक्रः संकल्पितार्थभाक् ॥१३॥तमः संकल्पयामास संहार इव भूतभुक् ।त्रिविष्टपस्य देशोऽसौ बभूव तिमिराकुलः ॥१४॥भूलोकस्यान्धतमसा लोकालोकतटो यथा ।लज्जान्धकारतीक्ष्णांशौ तस्मिंस्तिमिरमण्डले ॥१५॥प्रतिष्ठामागते तस्य मिथुनस्येव मण्डले ।तेषु सर्वेषु भूतेषु गतेष्वभिमतां दिशम् ॥१६॥तस्मात्प्रदेशाद्भूलोके दिनान्ते विहगेष्विव ।सा दीर्घचञ्चलापाङ्गी प्रवृद्धमदनव्यथा ॥१७॥आजगाम भृगोः पुत्रं मयूरी वारिदं यथा ।धवलागारमध्यस्थे पर्यङ्के परिकल्पिते ॥१८॥विवेश भार्गवस्तत्र क्षीरोद इव माधवः ।सा कराववलम्ब्यास्य विवेशावनतानना ॥१९॥रराज च सुरेभस्य हृदि लग्नेव पद्मिनी ।उवाच चेदं मधुरं रसस्नेहाक्तया गिरा ॥२०॥वचो मधुरमानन्दविलासवलिताक्षरम् ।पश्यामलेन्दुवदनमण्डलीकृतकार्मुकः ॥२१॥अबलामनुबध्नाति मामेष किल नाङ्गकः ।पाहि मामबलां नाथ दीनां त्वच्छरणामिह ॥२२॥कृपणाश्वासनं साधो विद्धि सच्चरितव्रतम् ।स्नेहदृष्टिमजानद्भिर्मूढैरेव महामते ॥२३॥प्रणया अवगण्यन्ते न रसज्ञैः कदाचन ।अशङ्कितोपसंपन्नः प्रणयोऽन्योन्यरक्तयोः ॥२४॥अधःकरोति निष्यन्दं चन्द्रमाह्लादनं प्रिय ।न तथा सुखयत्येषा चेतस्त्रिभुवनेशिता ॥२५॥यथा परस्परानन्दः स्नेहः प्रथमरक्तयोः ।त्वत्पादस्पर्शनेनेयं समाश्वस्तास्मि मानद ॥२६॥चन्द्रपादपरामृष्टा यथा निशि कुमुद्वती ।संस्पर्शामृतपानेन तव जीवामि सुन्दर ॥२७॥चन्द्रांशुरसपानेन चकोरी चपला यथा ।मामिमां चरणालीनां भ्रमरीं करपल्लवैः ॥२८॥आलिङ्ग्यामृतसंपूर्णे स्वपद्महृदये कुरु ।इत्युक्त्वा पुष्पमृद्वङ्गी सा तस्य पतितोरसि ।व्याघूर्णितालिनयना सुतरोरिव मञ्जरी ॥२९॥तौ दम्पती तत्र विलासकान्तीविवेशतुस्तासु वनस्थलीषु ।किञ्जल्कगौरानिलघूर्णितासुरक्तौ द्विरेफाविव पद्मिनीषु ॥३०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे भार्गवोपाख्याने नवसंगमो नाम सप्तमः सर्गः ॥७॥ N/A References : N/A Last Updated : September 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP