संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ३३ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ३३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।सर्वातिशयसाफल्यात्सर्वं सर्वत्र सर्वदा ।संभवत्येव तस्मात्त्वं शुभोद्योगं न संत्यज ॥१॥मित्रस्वजनबन्धूनां नन्दिनानन्ददायिना ।सरसीशानमासाद्य मृत्युरप्युपनिर्जितः ॥२॥सर्वोत्कर्षेण संपन्ना देवा अपि विमर्दिताः ।दानवैर्दानवार्थाढ्यैर्गजैः पद्माकरा इव ॥३॥मरुत्तनृपतेर्यज्ञे संवर्तेन महर्षिणा ।ब्रह्मणेवापरः सर्गो भावितः ससुरासुरः ॥४॥महातिशययुक्तेन विश्वामित्रेण विप्रता ।भूयोभूयः प्रयुक्तेन दुष्प्रापा तपसार्जिता ॥५॥पिष्टसेकाम्बु दुष्प्रापं रसायनवदश्नता ।दुर्भगेनेदृशेनाप्तः क्षीरोद उपमन्युना ॥६ ॥त्रैलोक्यमल्लांस्तृणवदश्नन्विष्ण्वलजादिकान् ।भक्त्यातिशयदार्ढ्येन कालः श्वेतेन कालितः ॥७॥प्रणयेन यमं जित्वा कृत्वा वचनसंगमम् ।परलोकादुपानीतः सावित्र्या सत्यवान्पतिः ॥८॥न सोऽस्त्यतिशयो लोके यस्यास्ति न फलं स्फुटम् ।भवितव्यं विचार्यान्तः सर्वातिशयशालिना ॥९॥आत्मज्ञानमशेषाणां सुखदुःखदशादृशाम् ।मूलकाषकरं तस्माद्भाव्यं तत्रातिशायिना ॥१०॥नाशायापद्गतार्थिन्या दृष्ट्या दृश्यादिदृष्टयः ।दुःखादृते निराबाधं सुखं किं चिदवाप्यते ॥११॥अशमः परमं ब्रह्म शमश्च परमं पदम् ।यद्यप्येवं तथाप्येनं प्रथमं विद्धि शंकरम् ॥१२॥अभिमानं परित्यज्य शममाश्रित्य शाश्वतम् ।विचार्य प्रज्ञयार्यत्वं कुर्यात्सज्जनसेवनम् ॥१३॥न तपांसि न तीर्थानि न शास्त्राणि जयन्ति च ।संसारसागरोत्तारे सज्जनासेवनं विना ॥१४॥लोभमोहरुषां यस्य तनुतानुदिनं भवेत् ।यथाशास्त्रं विहरति स्वस्वकर्मसु सज्जनः ॥१५॥अथात्मविदुषां सङ्गात्तस्य साधोः प्रवर्तते ।अत्यन्ताभाव एवास्य यथा दृश्यस्य दृश्यते ॥१६॥दृश्यात्यन्ताभावतस्तु परमेवावशिष्यते ।अन्याभाववशादाशु जीवस्तत्रैव लीयते ॥१७॥नचोत्पन्नं नचैवासीद्दृश्यं नच भविष्यति ।वर्तमानेऽपि नैवास्ति परमेवास्त्यवेधितम् ॥१८॥एवं युक्तिसहस्रेण दर्शितं दृश्यतेऽपि च ।सर्वैरेवानुभूतं च दर्शयिष्यामि चाधुना ॥१९॥तथेदममलं शान्तं त्रिजगत्संविदम्बरम् ।इदं तत्त्वमतत्त्वादि कुतोऽत्र स्यात्कथं च वा ॥२०॥चिच्चमत्कुरुते चारु चञ्चलाऽचञ्चलात्मनि ।यत्तयैव तदेवेदं जगदित्यवबुध्यते ॥२१॥त्रैलोक्यभूयोनुभवश्चिदादित्यांशुमण्डलम् ।को वा स्वांशुमतोर्भेदो निर्विकल्पःस कथ्यताम् ॥२२॥स्वाभावतोऽस्याश्चिदृष्टेर्ये उन्मेषनिमेषणे ।जगद्रूपानुभूतेस्तावेतावस्तमयोदयौ ॥२३॥अहमर्थोऽपरिज्ञातः परमार्थाम्बरे मलम् ।परिज्ञातोऽहमर्थस्तु परमात्माम्बरं भवेत् ॥२४॥अहंभावः परिज्ञातो नाहंभावो भवत्यलम् ।एकतामम्बुनेवाम्बु याति चिन्नभसात्मना ॥२५॥अहमादिजगद्दृश्यं किल नास्त्येव वस्तुतः ।अवश्यमेव तत्तस्माच्छिष्यतेऽहंविचारतः ॥२६॥बाध्यते चामलधियामपिशाचे पिशाचधीः ।शिशूनां तावदाध्वान्तःकरणानां विचारणा ॥२७॥चिज्ज्योत्स्ना यावदेवान्तरहंकारघनावृता ।विकासयति नो तावत्परमार्थकुमुद्वतीम् ॥२८॥प्रमार्जितेऽहमित्यस्मिन्पदे स्वार्थे स्वयं विना ।नरकस्वर्गमोक्षादितृष्णायाः कल्पनैव का ॥२९॥हृदि यावदहंभावो वारिदः प्रविजृम्भते ।तावद्विकासमायाति तृष्णाकुटजमञ्जरी ॥३०॥आक्रम्य चेतनां नित्यमहंकाराम्बुदे स्थिते ।जाड्यमेव स्थितिं याति न प्रकाशः कदाचन ॥३१॥असन्नयमहंकारः स्वयं मिथ्या प्रकल्पितः ।दुःखायैव न हर्षाय बालसंभ्रमयक्षवत् ॥३२॥मुधैव कल्पितो मोहमहंभावः प्रयच्छति ।अनन्तसंसारकरं दामादिष्विव दुर्मतौ ॥३३॥अयं सोऽहमिति स्फारान्मोहादन्यतरत्तमः ।अनर्थभूतं संसारे न भूतं न भविष्यति ॥३४॥यत्किंचिदिदमायाति सुखदुःखमलं भवे ।तदहंकारचक्रस्य प्रविकारो विजृम्भते ॥३५॥अहंकाराङ्कुरः कृष्टो हृदयेनावरोपितः ।सहस्रशाखं दुश्छेदं तस्य संसृतिनाशनम् ॥३६॥अहंभावोऽङ्कुरो जन्म वृक्षाणामक्षयात्मनाम् ।ममेदमिति विस्तीर्णास्तेषां शाखाः सहस्रशः ॥३७॥करटापातविस्फोटा भान्त्यर्था वासनादयः ।विचार्यचारुरववत्तरङ्गवरपङ्किवत् ॥३८॥अहंभावनया भाति त्वमहंभाववर्जितः ।संसारचक्रवहनमात्मनः परिरोधया ॥३९॥अहंभावतमो यावज्जन्मारण्ये विजृम्भते ।तावदेता विवल्गन्ति चिन्तामत्ताः पिशाचिकाः ॥४०॥अहंकारपिशाचेन गृहीतो यो नराधमः ।न शास्त्राणि न मन्त्राश्च तस्याभावस्य सिद्धये ॥४१॥श्रीराम उवाच ।केनोपायेन भगवन्नहंकारो न वर्धते ।तं त्वं कथय मे ब्रह्मन्संसारभयशान्तये ॥४२॥श्रीवसिष्ठ उवाच ।चिन्मात्रदर्पणाकारे निर्मले स्वात्मनि स्थिते ।इति भावानुसंधानादहंकारो न वर्धते ॥४३॥मिथ्येयमिन्द्रजालश्रीः किं मे स्नेहविरागयोः ।इत्यन्तरानुसंधानादहंकारो न जायते ॥४४॥नाहमात्मनि नो यस्य दृश्यश्रिय इति स्वयम् ।शान्तेन व्यवहारेण नाहंकारः प्रवर्धते ॥४५॥अहं हि जगदित्यन्तर्हेयादेयदृशोः क्षये ।समतायां प्रसन्नायां नाहंभावः प्रवर्धते ॥४६॥अहं चिज्जगदित्यन्तर्हेयादेयदृशोः क्षये ।समतायां प्रसन्नायां नाहंभावः प्रवर्धते ॥४७॥श्रीराम उवाच ।किमाकृतिरहंकारः कथं संत्यज्यते प्रभो ।सशरीरोऽशरीरश्च त्यक्ते तस्मिंश्च किं भवेत् ॥४८॥श्रीवसिष्ठ उवाच ।त्रिविधो राघवास्तीह त्वहंकारो जगत्त्रये ।द्वौ श्रेष्ठावितरस्त्याज्यः श्रृणु त्वं कथयामि ते ॥४९॥अहं सर्वमिदं विश्वं परमात्माहमच्युतः ।नान्यदस्तीति परमा विज्ञेया सा ह्यहंकृतिः ॥५०॥मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते ।सर्वस्माद्व्यतिरिक्तोऽहं बालाग्रशतकल्पितः ॥५१॥इति या संविदेषासौ द्वितीयाहंकृतिः शुभा ।मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते ॥५२॥अहंकाराभिधा या सा कल्प्यते नतु वास्तवी ।पाणिपादादिमात्रोऽयमहमित्येष निश्चयः ॥५३॥अहंकारस्तृतीयोऽसौ लौकिकस्तुच्छ एव सः ।वर्ज्य एव दुरात्मासौ शत्रुरेव परः स्मृतः ॥५४॥अनेनाभिहतो जन्तुर्न भूयः परिरोहति ।रिपुणानेन बलिना विविधाधिप्रदायिना ॥५५॥कष्टीकृतमतिर्लोकः संकटेष्वेव मज्जति ।अनया दुरहंकृत्या भावात्संसक्तया चिरम् ॥५६॥शिष्टाहंकारवाञ्जन्तुर्भगवान्याति मुक्तताम् ।लोकाहंकारवद्दोषवपुरस्मिन्निरूपणः ॥५७॥न देहोऽस्मीति निर्णीय वर्जनं महतां मतम् ।प्रथमं द्वावहंकारावङ्गीकृत्यान्त्यलौकिकौ ॥५८॥प्रथमं द्वावहंकारावङ्गीकृत्यान्त्यलौकिकौ ।तृतीयाहंकृतिस्त्याज्या लौकिकी दुःखदायिनी ॥५९॥अनया दुरहंकृत्या दामव्यालकटाः किल ।तां दशां समनुप्राप्ता या कथास्वपि खेददा ॥६०॥श्रीराम उवाच ।तृतीयां लौकिकीमेतां त्यक्त्वा चित्तादहंकृतिम् ।किंभावः पुरुषो ब्रह्मन्प्राप्नुयादात्मनो हितम् ॥६१॥श्रीवसिष्ठ उवाच ।एषा तावत्परित्याज्या त्यक्त्वैतां दुःखदायिनीम् ।यथा यथा पुमांस्तिष्ठेत्परमेति तथा तथा ॥६२॥अहंकारदृशावेते पूर्वोक्ते भावयन्यदि ।तिष्ठेदुपैति परमं तत्पदं पुरुषोऽनघ ॥६३॥अथ ते अपि संत्यज्य सर्वाहंकृतिवर्जितः ।संतिष्ठेत तथात्युच्चैः पदमेवाधिरोहति ॥६४॥सर्वदा सर्वयत्नेन लौकिकी दुरहंकृतिः ।परमानन्दबोधाय वर्जनीयाऽनया धिया ॥६५॥शरीरास्थामयापुण्यदुरहंकारवर्जनम् ।अत्यन्तपरमं श्रेय एतदेव परं पदम् ॥६६॥भावादहंकृतिं त्यक्त्वा स्थूलामेतां हि लौकिकीम् ।तिष्ठन्व्यवहरन्वापि न नरः प्रपतत्यधः ॥६७॥संशान्ताहंकृतेर्जन्तोर्भोगा रोगा महामते ।न स्वदन्ते सुतृप्तस्य यथा प्रतिविषा रसाः ॥६८॥भोगेष्वस्वदमानेषु पुंसः श्रेयः पुरो गतम् ।क्षीणेऽन्धकारे किं नाम मनसोऽन्यत्प्रवर्तते ॥६९॥अहंकारानुसंधानवर्जनादेव राघव ।पौरुषेण प्रयत्नाच्च तीर्यते भवसागरः ॥७०॥नाहं न तेन मम किंचिदपीति मत्वासर्वं च मे सकलमप्यहमेव चेति ।लब्धास्पदं मनसि संविदमेवमीड्यांनीत्वा स्थितिं परमुपैति पदं महात्मा ॥७१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे दामव्यालकटोपाख्यानेऽहंकारविचारो नाम त्रयस्त्रिंशः सर्गः ॥३३॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP