स्थितिप्रकरणम् - सर्गः ५३
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
अथापृच्छत्सुतस्तत्र जम्बूद्वीपे महानिशि ।
कदम्बाग्रावचूडस्थं पितरं पावनाशयम् ॥१॥
पुत्र उवाच ।
कोऽसौ खोत्थ इति ख्यातो भूपस्तातोत्तमाकृतिः ।
कथितं च किमेतन्मे त्वयेति ब्रूहि तत्त्वतः ॥२॥
क्व भविष्यति निर्माणं वर्तमाने क्व गम्यता ।
उभयार्थविरुद्धत्वान्मन्मोहाय वचस्तव ॥३॥
दाशूर उवाच ।
शृणु पुत्र यथाभूतमेतत्ते कथयाम्यहम् ।
येन संसारचक्रस्य तत्त्वमस्यावबुध्यसे ॥४॥
असदप्युत्थितारम्भमवस्तुमयमाततम् ।
संसारसंस्थानमिदमेवमाकथितं मया ॥५॥
परमान्नभसो जातः संकल्पः खोत्थ उच्यते ।
जायते स्वयमेवासौ स्वयमेव विलीयते ॥६॥
तत्स्वरूपमिदं सर्वं जगदाभोगि विद्यते ।
जायते तत्र जाते तु तस्मिन्नष्टे विनश्यति ॥७॥
ब्रह्मविष्ण्विन्द्ररुद्राद्यास्तस्यैवावयवान्विदुः ।
विटपानिव वृक्षस्य शृङ्गाणीव महीभृतः ॥८॥
शून्ये व्योमनि तेनेदं निर्मितं त्रिजगत्पुरम् ।
प्रतिभासानुसंधानमात्रेणैत्य विरिञ्चिताम् ॥९॥
यत्रेमे विततालोका लोककोशाश्चतुर्दश ।
वनोपवनमालाश्च यत्रोद्यानपरम्पराः ॥१०॥
क्रीडाशिखरिणो यत्र सह्यमन्दरमेरवः ।
शीतोष्णदीप्ती चन्द्रार्कौ दीपौ यत्रानलाकृती ॥११॥
सूर्यांशुकचदालोलतरङ्गोत्तुङ्गमौक्तिकाः ।
वहन्ति सरितो यत्र सन्मुक्तावलयश्चलाः ॥१२॥
इक्षुक्षीरादिसलिला मणिरत्नबिसाङ्कुराः ।
और्वानलाम्बुजा यत्र वाप्यः सप्त महार्णवाः ॥१३॥
अध उर्व्यां तथोर्ध्वं खे पुण्यापुण्यधनश्रियः ।
नरामरकिराटानां यत्रान्तः क्रयविक्रयौ ॥१४॥
तस्मिन्नेव जगत्यस्मिन्पुरे संकल्पभूभृता ।
क्रीडार्थमात्मनश्चित्रा देहापवरकाः कृताः ॥१३॥
केचिद्गीर्वाणनामान ऊर्ध्व एव नियोजिताः ।
नरनागादयः केचिदध एव नियोजिताः ॥१६॥
वातयन्त्रप्रवाहेण चलन्तो मांसमृन्मयाः ।
सितास्थिदारवश्चित्रास्त्वग्लेपमसृणामलाः ॥१७॥
केचिच्चिरेण नश्यन्ति केचिच्छीघ्रविनाशिनः ।
केचित्केशोलपोल्लासरचिताच्छादनश्रियः ॥१८॥
कर्णाक्षिनासाप्रमुखैर्द्वारैर्नवभिरन्विताः ।
अनारतवहत्प्राणपवनेनोष्णशीतलाः ॥१९॥
कर्णनासास्यताल्वादिवातायनगणान्विताः ।
भुजाद्यङ्गप्रतोलीकाः पञ्चेन्द्रियकुदीपकाः ॥२०॥
मायया रचितास्तेषु संकल्पेन महामते ।
अहङ्कारमहायक्षाः परमालोकभीरवः ॥२१॥
देहापवरकेष्वन्तर्महाहङ्कारयक्षकैः ।
सह संक्रीडतेऽत्यर्थं स सदैवासदुत्थितैः ॥२२॥
यथा कुसूले मार्जारो भस्त्रायां भुजगो यथा ।
मुक्ताफलं यथा वेणावहङ्कारस्तथा तनौ ॥२३॥
क्षणमभ्युदयं यान्ति क्षणं शाम्यन्ति दीपवत् ।
देहगेहेषु संकल्पतरङ्गाः सागरेष्विव ॥२४॥
भविष्यन्नवनिर्माणं स व्याप्नोति तदा पुरम् ।
यदा संकल्पितं वस्तु क्षणादेव प्रपश्यति ॥२५॥
असंकल्पनमात्रेण स्वेनेवाशु विनश्यति ।
श्रेयसे परमायस्य नाशत्वेन तु संभवः ॥२६॥
स्वयं संकल्पनामात्रं जायते बालयक्षवत् ।
अनन्तायात्मदुःखाय नानन्दाय कदाचन ॥२७॥
इदं स्फारं जगद्दुःखं प्रतनोत्यात्मसत्तया ।
असत्तया नाशयति घनमान्ध्यं यथा तमः ॥२८॥
स्वयैव दुःखदायिन्या चेष्टया परिरोदिति ।
काष्ठावष्टब्धवृषणः कीलोत्पाटी कपिर्यथा ॥२९॥
संकल्पितानन्दलवस्तिष्ठत्युद्धरकन्धरम् ।
अकस्मात्प्रच्युतमधुबिन्दुभुक्करभो यथा ॥३०॥
क्षणं विरतिमायाति रतिमेति क्षणं स्वयम् ।
क्षणं विकारमायाति संकल्पेनैव बालवत् ॥३१॥
एनं सकलभावेभ्यः कृत्वा निर्मूलमादरात् ।
मतिरन्तःपदं याति यथा पुत्र तथा कुरु ॥३२॥
त्रयस्तस्या मतेर्देहा अधमोत्तममध्यमाः ।
तमःसत्त्वरजःसंज्ञाः कारणं जगतः स्थितेः ॥३३॥
तमोरूपो हि संकल्पो नित्यं प्राकृतचेष्टया ।
परां कृपणतामेत्य प्रयाति कृमिकीटताम् ॥३४॥
सत्त्वरूपो हि संकल्पो धर्मज्ञानपरायणः ।
अदूरकेवलीभावं स्वाराज्यमधितिष्ठति ॥३५॥
रजोरूपो हि संकल्पो लोकसंव्यवहारवान् ।
परितिष्ठति संसारे पुत्रदारानुरञ्जितः ॥३६॥
त्रिविधं तु परित्यज्य रूपमेतन्महामते ।
संकल्पः परमायाति पदमात्मपरिक्षये ॥३७॥
सर्वा दृष्टीः परित्यज्य नियम्य मनसा मनः ।
सबाह्याभ्यन्तरार्थस्य संकल्पस्य क्षयं कुरु ॥३८॥
यदि वर्षसहस्राणि तपश्चरसि दारुणम् ।
यदि वा विलयात्मानं शिलायां चूर्णयस्यलम् ॥३९॥
यदि वाग्निं प्रविशसि वडवाग्निमथापि वा ।
यदि वा पतसि श्वभ्रे खड्गधाराजवेतथा ॥४०॥
हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा ।
अत्यन्तकरुणाक्रान्तो लोकनाथोऽथवा यतिः ॥४१॥
पातालस्थस्य भूस्थस्य स्वर्गस्थस्यापि तत्तव ।
नान्यः कश्चिदुपायोऽस्ति संकल्पोपशमादृते ॥४२॥
अनाबाधेऽविकारे च सुखे परमपावने ।
संकल्पोपशमे यत्नं पौरुषेण परं कुरु ॥४३॥
संकल्पतन्तावखिला भावाः प्रोताः किलानघ ।
छिन्ने तन्तौ न जाने ते क्व यान्ति विशरारवः ॥४४॥
असत्सत्सदसत्सर्व संकल्पादेव नान्यतः ।
संकल्पं सदसच्चैवमिह सत्यं किमुच्यताम् ॥४५॥
संकल्प्यते यथा यद्यत्तत्तथा भवति क्षणात् ।
मा किंचिदपि तत्त्वज्ञ संकल्पय कदाचन ॥४६॥
निःसंकल्पो यथाप्राप्तव्यवहारपरो भव ।
चिदचेत्योन्मुखत्वं हि याति संकल्पसंक्षये ॥४७॥
उत्थाय सत्त्वरूपेण योन्या सत्यमयात्मकम् ।
न तज्जगदुःखमिदं व्यर्थं सदृशमात्मनः ॥४८॥
तेन दुःखाय महते किं मृतेन तवानघ ।
यददुःखाय तत्प्राज्ञाः संश्रयन्तीह नेतरत् ॥४९॥
अधिगतपरमार्थतामुपेत्य प्रसभमपास्य विकल्पजालमुच्चैः ।
अधिगमय पदं तदद्वितीयं विततसुखाय सुषुप्तचित्तवृत्तिः ॥५०॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थिति० दाशूरो० संसारनगरविकल्पयोगविचारो नाम त्रिपञ्चाशः सर्गः ॥५३॥
N/A
References : N/A
Last Updated : September 18, 2021
TOP