संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः २८ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः २८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इत्युक्त्वा भगवान्देवांस्तत्रैवान्तर्धिमाययौ ।वेलावनितटे शब्दं कृत्वेवाम्बुतरङ्गकः ॥१॥सुरास्त्वाकर्ण्य तद्वाक्यं जग्मुः स्वाभिमतां दिशम् ।कमलामोदमादाय वनमालामिवानिलाः ॥२॥दिनानि कतिचित्स्वेषु कान्तेषु स्थिरकान्तिषु ।द्विरेफा इव पद्मेषु मन्दिरेषु विशश्रमुः ॥३॥कंचित्कालं समासाद्य स्वात्मोदयकरं शुभम् ।चक्रुर्दुन्दुभिनिर्घोषं प्रलयाभ्ररवोपमम् ॥४॥अथ दैत्यैर्ममाव्योम्नि तैः पातालतले स्थितैः ।कालक्षेपकरं घोरं पुनर्युद्धमवर्तत ॥५॥ववुरसिशरशक्तिमुद्गरौघामुसलगदापरशूग्रचक्रशङ्खाः ।अशनिगिरिशिलाहुताशवृक्षाअहिगरुडादिमुखानि चायुधानि ॥६॥मायाकृतायुधमहाम्बुघनप्रवाहाक्षिप्रावहा प्रतिदिशं किल निर्जगाम ।पाषाणपर्वतमहीरुहलक्षवृक्ष-क्षुब्धाम्बुपूरघनघोषवती नदी द्राक् ॥७॥मध्यप्रवाहवहदुल्मुकशूलशैल-प्रासासिकुन्तशरतोमरमुद्गरौघागङ्गोपमाम्बुवलितामरमन्दिरेणसर्वासु दिक्ष्वशनिवर्षनिकर्षणेन ॥८॥पृथ्व्यादिदारुणशरीरमपि प्रहार-दानग्रहा गहनराशिशरीरकेव ।मायोपशाम्यति सुरासुरसिद्धसन्नामायाकृतिः पुनरुदेति नचैव सैव ॥९॥शैलोपमायुधविघट्टितभूधराणिरक्ताम्बुपूरपरिपूर्णमहार्णवानि ।दैवासुरेन्द्रशवशैलविरूढकुन्त-तालीवनानि ककुभां वदनानि चासन् ॥१०॥उद्गीर्णकुन्तशरशक्तिगदासिचक्र-हेलानिगीर्णसुरदानवमुक्तशैला ।काषोल्लसत्क्रकचदन्तनखाग्रमालाजीवान्विता ह्यपतदायससिंहसृष्टिः ॥११॥उज्ज्वाललोचनविषज्वलनातपौघ-दिग्दाहदर्शितयुगान्तदिनेशसेना ।उड्डीयमानपरिदीर्घमहामहीध्र-मग्नाब्धिवद्विषधरावलिरुल्ललास ॥१२॥उन्नादवज्रमकरोत्करकर्कशान्तः-क्षुब्धाब्धिवीचिवलयैर्वलिताचलेन्द्रैः ।आसीज्जगत्सकलमेव सुसंकटाङ्ग-मावृत्तिभिर्विविधहेतिनदीप्रवाहैः ॥१३॥शैलास्त्रशस्त्रगरुडाचलचालितोच्च-नागं महासुरगणाङ्गणमन्तरिक्षम् ।आसीत्क्षणं जलधिभिः क्षणमग्निपूरैःपूर्णं क्षणं दिनकरैः क्षणमन्धकारैः ॥१४॥गरुडगुडगुडाकुलान्तरिक्ष-प्रविसृतहेतिहुताशपर्वतौघैः ।जगदभवदसह्यकल्पकालेज्वलितसुरालयभूतलान्तरालम् ॥१५॥उदपतन्नसुरावसुधातला-द्गगनमद्रितटादिव पक्षिणः ।अतिबलादपतन्विबुधा भुविप्रलयचालितशैलशिला इव ॥१६॥शरीररूढोन्नतहेतिवृक्ष-वनावलीलग्नमहाग्निदाहाः ।सुरासुराः प्रापुरथाम्बरान्तःकल्पानिलान्दोलितशैलशोभाम् ॥१७॥सुरासुराद्रीन्द्रशरीरमुक्तैरक्तप्रवाहैरभितो भ्रमद्भिः ।बभार पूर्णं परितोऽम्बरोऽद्रेःसंध्याकरौघक्षतमङ्ग गङ्गाम् ॥१८॥गिरिवर्षणमम्बुवर्षणंविविधोग्रायुधवर्षणं तथा ।विषमाशनिवर्षणं च तेसममन्योन्यमथाग्निवर्षणम् ॥१९॥अनयन्नयमार्गकोविदादलिताशेषगिरीन्द्रभित्तयः ।ससृजुश्च समं समन्ततःकरिकुम्भेष्विव पुण्यवर्षणम् ॥२०॥देवासुराः समरसंभ्रममाकुलास्तेअन्योन्यमङ्गदलनाकुलहेतिहस्ताः ।नागेन्द्रडिम्भपृतनापृथुपीठपेषैःकीर्णश्रियो नभसि बभ्रमुरक्षिपन्तः ॥२१॥छिन्नैः शिरःकरभुजोरुभरैर्भ्रमद्भि-राकाशकाष्ठशलभैरशिवैस्तदानीम् ।आसीज्जगज्जठरमभ्रभरैरिवोग्रै-राभास्करस्थगितदिक्तटशैलजालम् ॥२२॥रटद्भटास्फोटकटिस्फुटद्भिःसमीरितैर्हेतिकलासितौघैः ।परस्पराघातहतैः पतद्भि-र्जगाम शीर्णा दलशो धरित्री ॥२३॥अन्योन्यमायुधशिलाचलवृक्षवर्षै-र्मेरुप्रमाणकठिनाङ्गनिघर्षणैश्च ।आसीद्रणं चटचटास्फुटदन्तरिक्षंकल्पक्षयान्तमिव भीमभरोग्रनादैः ॥२४॥मत्तानिलक्षुब्धजलानलार्क-दलद्वयं दीर्घसुरासुरौघम् ।ब्रह्माण्डमाखण्डितकुड्यकोण-सकालकल्पान्तकरालमासीत् ॥२५॥भ्रान्तैर्भृशं भरितदिक्तटमद्रिकूटै-रात्मप्रमाणघनहेतिहतै रणद्भिःकूजद्भिरार्तिभिरिवोग्रगुहोच्चवातैःक्रन्दद्भिरापतितसिंहरवैरदभ्रैः ॥२६॥मायानदीजलधियोधघनाग्निदाहै-र्वृक्षैः सुरासुरशवैरचलैः शिलोच्चैः ।भ्रान्तेः शरासिशितशक्तिगदास्त्रशस्त्रै-र्वातावकीर्णवनपर्णवदन्तरन्तः ॥२७॥अद्रीन्द्रपक्षपरिमाणगमाक्षमोक्त-दुर्वारहस्तिबलदारुणदेहकैर्द्राक् ।आसीत्पतद्भटशरीरगिरीन्द्रवात-विभ्रष्टदेवपुरपूर्णजलार्णवौघम् ॥२८॥घनघुंघुमपूरितान्तरिक्षाक्षतजक्षालितभूधरा धरा च ।रुधिरह्रदवृत्तिवर्तिनी वाभुवनाभोगगुहा तदाकुलाभूत् ॥२९॥अनन्तदृक्प्रसृतविकारकारिणीक्षयोदयोन्मुखसुखदुःखशंसिनी ।रणक्रियासुरसुरघट्टसंकटातदाभवत्खलु सदृशीह संसृतेः ॥३०॥इत्यार्षे श्रीवासिष्ठमह्यरामायणे वा० दे० मो० स्थितिप्रकरणे दामव्यालकटपुनर्युद्धवर्णनं नामाष्टाविंशः सर्गः ॥२८॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP