स्थितिप्रकरणम् - सर्गः २३
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
य उत्तमपदालम्बी चक्रभ्रमवदास्थितः ।
शरीरनगरीराज्यं कुर्वन्नपि न लिप्यते ॥१॥
तस्येयं भोगमोक्षार्थं तज्ज्ञस्योपवनोपमा ।
सुखायैव न दुःखाय स्वशरीरमहापुरी ॥२॥
श्रीराम उवाच ।
नगरीत्वं शरीरस्य कथं नाम महामुने ।
एतां चाधिवसन्योगी कथं राजसुखैकभाक् ॥३॥
श्रीवसिष्ठ उवाच ।
रम्येयं देहनगरी राम सर्वगुणान्विता ।
ज्ञस्यानन्तविलासाढ्या स्वालोकार्कप्रकाशिता ॥४॥
नेत्रवातायनोद्द्योतप्रकाशभुवनान्तरा ।
करप्रतोलीविस्तारप्राप्तपादोपजाङ्गला ॥५॥
रोमराजीलतागुल्मा त्वचाजालकमालिता ।
गुल्फाङ्गुल्यां प्रविश्रान्तजङ्घोरुस्तम्भमण्डला ॥६॥
रेखाविभक्तपादाग्रशिलाप्रथमनिर्मिता ।
चर्ममर्मशिरासारसंधिसीमामनोरमा ॥७॥
उरूरुतनुभागाग्रनिर्मितोपस्थनिम्नगा ।
कचत्केशावलीकाचदलप्रस्थवनावृता ॥८॥
भ्रूललाटोष्ठसच्छायवदनोद्यानशोभिता ।
दृष्टिपातोत्पलाकीर्णकपोलविपुलस्थली ॥९॥
वक्षःस्थलसरःस्यूतकुचपङ्कजकोरका ।
घनरोमावलीच्छन्नस्कन्धक्रीडाशिलोच्चया ॥१०॥
उदरश्वभ्रनिक्षिप्तस्वान्नेष्टा भक्ष्यतत्परा ।
दीर्घकण्ठबिलोद्गीर्णवातसंरम्भशब्दिता ॥११॥
हृदयापणनिर्णीतयथाप्राप्तार्थभूषिता ।
अनारतनवद्वारप्रवहत्प्राणनागरा ॥१२॥
आस्यस्फारवदादृष्टदन्तास्थिशकलाकुला ।
मुखास्पदाभ्रमज्जिह्वाचण्डीचर्वितभोजना ॥१३॥
रोमशष्पतरच्छन्ना कर्णकोटरकूपका ।
स्फिक्श्रृंखलास्थितोपान्तपृष्ठविस्तीर्णजङ्गला ॥१४॥
गुदोत्थानारघट्टान्तप्रद्रुतानन्तकर्दमा ।
चित्तोद्यानमहीवल्गदात्मचिन्तावराङ्गना ॥१५॥
धीवरत्रादृढाबद्धचपलेन्द्रियमर्कटा ।
वदनोद्यानहसनपुष्पोद्गममनोरमा ॥१६॥
स्वशरीरमनोज्ञस्य सर्वसौभाग्यसुन्दरी ।
सुखायैव न दुःखाय परमाय हिताय च ॥१७॥
अज्ञस्येयमनन्तानां दुःखानां कोशमालिका ।
ज्ञस्य त्वियमनन्तानां सुखानां कोशमालिका ॥१८॥
किंचिदस्यां प्रनष्टायां ज्ञस्य नष्टमरिन्दम ।
स्थितायां संस्थितं सर्वं तेनेयं ज्ञसुखावहा ॥१९॥
यदेनां ज्ञः समारुह्य संसारे विहरत्यलम् ।
अशेषभोगमोक्षार्थं तेनेयं ज्ञरथः स्मृतः ॥२०॥
शब्दरूपरसस्पर्शगन्धबन्धुश्रियो यतः ।
अनयैव हि लभ्यन्ते तेनेयं ज्ञस्य लाभदा ॥२१॥
सुखदुःखक्रियाजालं यदेषोद्वहति स्वयम् ।
तदेषा राम सर्वज्ञसर्ववस्तुभरक्षमा ॥२२॥
तस्यां शरीरपुर्यां हि राज्यं कुर्वन्गतज्वरः ।
ज्ञस्तिष्ठति गतव्यग्रः स्वपुर्यामिव वासवः ॥२३॥
न क्षिपत्यवटाटोपे मनोमत्ततुरङ्गमम् ।
न लोभदुर्द्रुमादाय प्रज्ञापुत्रीं प्रयच्छति ॥२४॥
अज्ञानपरराष्ट्रं च न रन्ध्रं त्वस्य पश्यति ।
संसारारिभयस्यान्तर्मूलान्येव निकृन्तति ॥२५॥
तृष्णासारपरावर्ते कामसंभोगदुर्ग्रहे ।
न निमज्जति पर्यस्तः सुखदुःखप्रदेवने ॥२६॥
करोत्यविरतं स्नानं बहिरन्तरवीक्षणात् ।
सरित्संगमतीर्थेषु मनोरथगतः क्रमात् ॥२७॥
सकलाक्षजनादृश्यसुखप्रेक्षापराङ्मुखः ।
ध्याननाम्नि सुखं नित्यं तिष्ठत्यन्तःपुरान्तरे ॥२८॥
सुखावहैषा नगरी नित्यं वै विदितात्मनः ।
भोगमोक्षप्रदा चैषा शक्रस्येवामरावती ॥२९॥
स्थितया संस्थितं सर्वं किंचिन्नष्टं न नष्टया ।
यया पुर्या महीयस्या सा कथं न सुखावहा ॥३०॥
विनष्टे देहनगरे ज्ञस्य नष्टं न किंचन ।
आक्रान्तकुम्भाकाशस्य खस्य कुम्भक्षये यथा ॥३१॥
विद्यमानं घटं वायुः किंचित्स्पृशति नास्थितम् ।
यथा तथैव देही स्वां शरीरनगरीमिमाम् ॥३२॥
अत्रस्थः पुरुषो भोगानात्मा सर्वगतोऽपि सन् ।
विश्वकल्पकृतान्भुक्त्वा पुंसामधिगतार्थभाक् ॥३३॥
कुर्वन्नपि न कुर्वाणः समस्तार्थक्रियोन्मुखः ।
कदाचित्प्रकृतान्सर्वान्कार्यार्थाननुतिष्ठति ॥३४॥
कदाचिल्लीलया लोलं विमानमधिरोहति ।
अनाहतगतिः कान्तं विहर्तुममलं मनः ॥३५॥
तत्रस्थो लोकसुन्दर्या सततं शीतलाङ्गया ।
रमते रामया मैत्र्या नित्यं हृदयसंस्थितः ॥३६॥
द्वे कान्ते तिष्ठतः सम्यक् पार्श्वयोः सत्यतैकते ।
इन्दोरिव विशाखे द्वे समाह्लादितचेतसी ॥३७॥
क्षपितानखिलान्लोकान्दुःखक्रकचदारितान् ।
वल्लीवनस्थान्नभसः पृष्ठादर्क इवेक्षते ॥३८॥
चिरं पूरितसर्वाशः सर्वसंपत्तिसुन्दरः ।
अपुनःखण्डनायेन्दुः पूर्णाङ्ग इव राजते ॥३९॥
सेव्यमानोऽपि भोगौघो न खेदायास्य जायते ।
कालकूटः किलेशस्य कण्ठे प्रत्युत राजते ॥४०॥
परिज्ञातोपभुक्तो हि भोगो भवति तुष्टये ।
विज्ञाय सेवितो मैत्रीमेति चोरो न शत्रुताम् ॥४१॥
नरनारीनटौघानां विरहे दूरगामिनाम् ।
ज्ञेन यात्रेव सुभगा भोगश्रीरवलोक्यते ॥४२॥
अशङ्कितोपसंप्राप्ता ग्रामयात्रा यथाध्वगैः ।
प्रेक्ष्यन्ते तद्वदेव ज्ञैर्व्यवहारमयाः क्रियाः ॥४३॥
अयत्नोपनतेऽप्यक्षि पदार्थेषु यथा पुनः ।
नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥४४॥
इन्द्रियाणां न हरति प्राप्तमर्थं कदाचन ।
नाददाति तथाऽप्राप्तं संपूर्णो ज्ञोऽवतिष्ठते ॥४५॥
अप्राप्तचिन्ताः संप्राप्तसमुपेक्षाश्च सन्मतिम् ।
न कम्पयन्ति तरलाः पिच्छाघाता इवाचलम् ॥४६॥
संशान्तसर्वसंदेहो गलिताखिलकौतुकः ।
संक्षीणकल्पनादेहो ज्ञः सम्राडिव राजते ॥४७॥
आत्मन्येव न मात्यन्तः स्वात्मनात्मनि जृम्भते ।
संपूर्णोऽपारपर्यन्तः क्षीरार्णव इवार्णवे ॥४८॥
भोगेच्छाकृपणाञ्जन्तून्दीनान्दीनेन्द्रियाणि च ।
अनुन्मत्तमनाः शान्तो हसत्युन्मत्तकानिव ॥४९॥
इच्छतोऽन्योज्झितां जायां यथैवान्येन हस्यते ।
इन्द्रियस्येच्छतो भोगं तद्वज्ज्ञेन विहस्यते ॥५०॥
त्यजत्स्वात्मसुखं सौम्यं मनो विषयविद्रुतम् ।
अङ्कुशेनेव नागेन्द्रं विचारेण वशं नयेत् ॥५१॥
भोगेषु प्रसरो यस्या मनोवृत्तेश्च दीयते ।
साप्यादावेव हन्तव्या विषस्येवाङ्कुरोद्गतिः ॥५२॥
ताडितस्य हि यः पश्चात्संमानः सोऽप्यनन्तकः ।
शालेर्ग्रीष्माभितप्तस्य कुसेकोऽप्यमृतायते ॥५३॥
अनार्तेन हि सन्मानो बहुमानो न बुध्यते ।
पूर्णानां सरितां प्रावृट्पूरः स्वल्पो न राजते ॥५४॥
पूर्णस्तु प्राकृतोऽप्यन्यत्पुनरप्यभिवाञ्छते ।
जगत्पूरणयोग्याम्बुर्गृह्णात्येवार्णवो जलम् ॥५५॥
मनसोऽभिगृहीतस्य या पश्चाद्भोगमण्डना ।
तामेवालब्धविस्तारां क्लिष्टत्वाद्बहु मन्यते ॥५६॥
बन्धमुक्तो महीपालो ग्रासमात्रेण तुष्यति ।
परैरबद्धो नाक्रान्तो न राज्यं बहु मन्यते ॥५७॥
हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च ।
अङ्गान्यङ्गैरिवाक्रम्य जयेश्चेन्द्रियशात्रवान् ॥५८॥
जेतुमन्यं कृतोत्साहैः पुरुषैरिह पण्डितैः ।
पूर्वं हृदयशत्रुत्वाज्जेतव्यानीन्द्रियाण्यलम् ॥५९॥
एतावति धरणितले
सुभगास्ते साधुचेतनाः पुरुषाः ।
पुरुषकलासु च गण्या
न जिता ये चेतसा स्वेन ॥६०॥
हृदयबिले कृतकुण्डल.
कलनाविवशो मनोमहाभुजगः ।
यस्योपशान्तिमागत-
मलमुदितं तं सुनिर्मलं वन्दे ॥६१॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे शरीरनगरविभूतियोगो नाम त्रयोविंशः सर्गः ॥२३॥
N/A
References : N/A
Last Updated : September 18, 2021
TOP