संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः १४ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः १४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ कालभृगू देवौ मन्दराचलकन्दरात् ।गन्तुं प्रवृत्ताववनौ समङ्गासरितस्तटम् ॥१॥तौ शैलादवरोहन्तौ दृष्टवन्तौ महाद्युती ।नवहैमलताजालकुञ्जसुप्तनभश्चरान् ॥२॥वल्लीवलयदोलाभिः क्रीडतो गगनाङ्गणे ।हरिणीमुग्धमुग्धाक्षिप्रेक्षितस्मारितोत्पलान् ॥३॥सिद्धानध्यासितोत्तुङ्गशिलाशकलविष्टरान् ।धृताकारानिवोत्साहान्हेलादृष्टजगत्त्रयान् ॥४॥कृताजस्रपतत्पुष्पधारासारनिमज्जनान् ।तालोत्तालकृतोद्धस्तहस्तान्हस्तिघटापतीन् ॥५॥मदावलेपनिद्रालून्मदान्मूर्तानिव स्थितान् ।पुष्पकेसररक्ताङ्गपवनारुणवालधीन् ॥६॥चञ्चलाश्चमराश्चारून्भूभृन्मण्डलचामरान् ।कृताजस्त्रपतत्पुष्पधारासारनिमज्जनान् ॥७॥किन्नरान्भूमखर्जूराञ्शाखासरलतां गतान् ।परस्परफलाघातक्ष्वेडावर्जितकीचकान् ॥८॥धातुपाटलदुर्वक्रान्मर्कटान्नटनोत्कटान् ।लतावितानसंछन्नसानूपवनमन्दिरान् ॥९॥सिद्धानमरनारीभिर्मन्दारकुसुमाहतान् ।धातुपाटलनिर्द्वारपयोदपटसंवृतान् ॥१०॥तटानजनसंसर्गान्बौद्धान्प्रव्रजितानिव ।सरितः कुन्दमन्दारपिनद्धलहरीघटाः ।सागरोत्कतयेवात्तमधुमासप्रसाधनाः ॥११॥पुष्पभारपिनद्धाङ्गान्वृक्षान्पवनकम्पितान् ।क्षीबानिव मधुप्राप्तौ घूर्णान्मधुकरेक्षणान् ॥१२॥शैलराजश्रियं स्फीतां पश्यन्तौ तावितस्ततः ।प्राप्तवन्तौ वसुमतीं पुरपत्तनमण्डिताम् ॥१३॥क्षणादवापतुस्तत्र पुष्पलोलतरङ्गिणीम् ।समङ्गां सरितं साधु सर्वपुष्पमयीमिव ॥१४॥ददर्शाथ तटे तस्मिन्कस्मिंश्चित्तनयं भृगुः ।देहान्तरपरावृत्तं भावमन्यमुपागतम् ॥१५॥शान्तेन्द्रियं समाधिस्थमचञ्चलमनोमृगम् ।सुचिरादिव विश्रान्तं सुचिरश्रमशान्तये ॥१५॥चिन्तयन्तमिवानन्ताश्चिरभुक्ताऽचिरोज्झिताः ।संसारसागरगतीर्हर्षशोकनिरन्तराः ॥१७॥नूनं निश्चलतां यातमतिभ्रमितचक्रवत् ।अनन्तजगदावर्तविवर्तातिशयादिव ॥१८॥एकान्तसंस्थितं कान्तं कान्त्येकाकिनमाश्रितम् ।उपशान्तेहसंभग्नचित्तसंभ्रमसंगमम् ॥१९॥निर्विकल्पसमाधिस्थं विरतं द्वन्द्ववृत्तितः ।हसन्तमखिलां लोकगतिं शीतलया धिया ॥२०॥विगताखिलवृत्तान्तं विगताशेषभोक्तृतम् ।निरस्तकल्पनाजालमालम्बितमहापदम् ॥२१॥अनन्तविश्रान्तितते पदे विश्रान्तमात्मनि ।प्रतिबिम्बमगृह्णन्तं सितं मणिमिवास्थितम् ॥२२॥हेयोपादेयसंकल्पविकल्पाभ्यां समुज्झितम् ।संप्रबुद्धमतिं धीरं ददर्श तनयं भृगुः ॥२३॥तमालोक्य भृगोः पुत्रं कालो भृगुमुवाच ह ।वाक्यमब्धिध्वनिनिभं तव पुत्रस्त्वसाविति ॥२४॥विबुध्यतामिति गिरा समाधेर्विरराम सः ।भार्गवोऽम्भोदघोषेण शनैरिव शिखण्डभृत् ॥२५॥उन्मील्य नेत्रे सोऽपश्यदन्ते कालभृगू प्रभू ।समोदयाविवायातौ देवौ शशिदिवाकरौ ॥२६॥कदम्बलतिकापीठादथोत्थाय ननाम तौ ।समौ समागतौ कान्तौ विप्रौ हीरहराविव ॥२७॥मिथःकृतसमाचाराः शिलायां समुपाविशन् ।मेरुपृष्ठे जगत्पूज्या ब्रह्मविष्णुहरा इव ॥२८॥अथ शान्तजपो राम स समङ्गातटे द्विजः ।तावुवाच वचः शान्तममृतस्यन्दसुन्दरम् ॥२९॥भवतोर्दर्शनेनाहमद्य निर्वृतिमागतः ।सममागतयोर्लोके शीतलोष्णरुचोरिव ॥३०॥यो न शास्त्रेण तपसा न ज्ञानेनापि विद्यया ।विनष्टो मे मनोमोहः क्षीणोऽसौ दर्शनेन वाम् ॥३१॥न तथा सुखयन्त्यन्तर्निर्मलामृतवृष्टयः ।यथा प्रहर्षयन्त्येता महतामेव दृष्टयः ॥३२॥चरणाभ्यामिमं देशं भवन्तौ भूरितेजसौ ।कौ पवित्रितवन्तौ नः शशाङ्कार्काविवाम्बरम् ॥३३॥इत्युक्तवन्तं प्रोवाच भृगुर्जन्मान्तरात्मजम् ।स्मरात्मानं प्रबुद्धोऽसि नाज्ञोऽसीति रघूद्वह ॥३४॥प्रबोधितोऽसौ भृगुणा जन्मान्तरदशां निजाम् ।मुहूर्तमात्रं सस्मार ध्यानोन्मीलितलोचनः ॥३५॥अथासौ विस्मयात्स्मेरमुखो मुदितमानसः ।वितर्कमन्थरां वाचमुवाच वदतां वरः ॥३६॥जगत्यविदितारम्भा नियतिः परमात्मनः ।यद्वशादिदमाभोगि जगच्चक्रं प्रवर्तते ॥३७॥ममानन्तान्यतीतानि जन्मान्यविदितान्यपि ।दशाफलान्यनन्तानि कल्पान्तकलितादिव ॥३८॥दृष्टाः कठिनसंरम्भा विभवोऽप्यर्जनभ्रमाः ।विहृतं वीतशोकासु चिरं मेरुस्थलीषु च ॥३९॥पीतमामोदि मन्दारकेसरारुणितं पयः ।मन्दाकिन्याः सकह्लारं तटीष्वमरभूभृतः ॥४०॥भ्रान्तं मन्दरकुञ्जेषु फुल्लहेमलतालिषु ।मेरोः कल्पतरुच्छायापुष्पसुन्दरसानुषु ॥४१॥न तदस्ति न यद्भुक्तं न तदस्ति न यत्कृतम् ।न तदस्ति न यद्दृष्टमिष्टानिष्टासु वृत्तिषु ॥४२॥ज्ञातं ज्ञातव्यमधुना दृष्टं द्रष्टव्यमक्षतम् ।विश्रान्तोऽथचिरं श्रान्तो गतो मे सकलो भ्रमः ॥४३॥उत्तिष्ठ तात गच्छामः पश्यामो मन्दरस्थिताम् ।तां तनुं तावदाशुष्कां शुष्कां वनलतामिव ॥४४॥न समीहितमस्तीह नासमीहितमस्ति मे ।नियते रचनां द्रष्टुं केवलं विहराम्यहम् ॥४५॥यदतिसुभगमार्यसेवितं त-त्स्थिरमनुयामि यदेकभावबुद्ध्या ।तदलमभिमता मतिर्ममास्तुप्रकृतमिमं व्यवहारमाचरामि ॥४६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे भा० भार्गवजन्मान्तरस्मरणवर्णनं नाम चतुर्दशः सर्गः ॥१४॥ N/A References : N/A Last Updated : September 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP