संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः २७ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः २७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।तस्मिंस्तदा वर्तमाने घोरे समरसंभ्रमे ।देवासुरशरीरेषु गर्तेष्वभ्रोदरेष्विव ॥१॥वहत्स्वसृक्प्रवाहेषु गङ्गापूरेष्विवाम्बरात् ।दाम्नि वेष्टितदेवौघकृतक्ष्वेडाघनारवे ॥२॥व्याले निजकराकृष्टिपिष्टसर्वसुरालये ।कटे कठिनसंरम्भसङ्गरक्षपितामरे ॥३॥ऐरावते क्षीणरवे पलायनपरायणे ।प्रवृद्धे दानवानीके मध्याह्न इव भास्करे ॥४॥पतिताङ्गव्यथार्तानि प्रस्रवद्रुधिराणि च ।पयांसीवावसेतूनि देवसैन्यानि दुद्रुवुः ॥५॥दामव्यालकटास्तानि चिरमन्तर्हितानि च ।अनुजग्मुर्लसन्नादसिन्धनानीव पावकाः ॥६॥अन्विष्टानपि यत्नेन नालभन्तासुराः सुरान् ।घनजालवनोड्डीनान्सिंहा हरिणकानिव ॥७॥अलब्धेष्वमरौघेषु दामव्यालकटास्तदा ।जग्मुः पातालकोशस्थं प्रभुं प्रमुदिताशयाः ॥८॥अथ देवा विषण्णास्ते क्षणमाश्वास्य वै ययुः ।जयोपायाय विजिता ब्रह्माणममितौजसम् ॥९॥तेषामाविरभूद्ब्रह्मा रक्तरक्ताननश्रियाम् ।सायं रक्तीकृताम्बूनामब्धीनामिव चन्द्रमाः ॥१०॥प्रणम्य ते सुरास्तस्मा अनर्थं शम्बरेहितम् ।सम्यक्प्रकथयामासुर्दामव्यालकटक्रमम् ॥११॥तदाकर्ण्याखिलं ब्रह्मा विचार्य स विचारवित् ।उवाचेदं सुरानीकमाश्वासनकरं वचः ॥१२॥श्रीब्रह्मोवाच ।शतवर्षसहस्रान्ते शम्बरेण हरेः करात् ।मर्तव्यं समरेशस्य तत्कालं संप्रतीक्षताम् ॥१३॥दामव्यालकटानेतानद्य त्वमरसत्तमाः ।योधयन्तः पलायध्वं मायायुद्धेन दानवान् ॥१४॥युद्धाभ्यासवशादेषां मुकुराणामिवाशये ।अहंकारचमत्कारः प्रतिबिम्बमुपैष्यति ॥१५॥गृहीतवासनास्त्वेते दामव्यालकटाः सुराः ।सुजेया वो भविष्यन्ति लग्नजालाः खगा इव ॥१६॥अद्य त्ववासना ह्येते सुखदुःखविवर्जिताः ।धैर्येणारीन्विनिघ्नन्तो देवा दुर्जयतां गताः ॥१७॥वासनातन्तुबद्धा ये आशापाशवशीकृताः ।वश्यतां यान्ति ते लोके रज्जुबद्धाः खगा इव ॥१८॥ये भिन्नवासना धीराः सर्वत्रासक्तबुद्धयः ।न हृष्यन्ति न कुप्यन्ति दुर्जयास्ते महाधियः ॥१९॥यस्यान्तर्वासनारज्ज्वा ग्रन्थिबन्धः शरीरिणः ।महानपि बहुज्ञोऽपि स बालेनापि जीयते ॥२०॥अयं सोऽहं ममेदं तदित्याकल्पितकल्पनः ।आपदां पात्रतामेति पयसामिव सागरः ॥२१॥इयन्मात्रपरिच्छिन्नो येनात्मा भव्यभावितः ।स सर्वज्ञोऽपि सर्वत्र परां कृपणतां गतः ॥२२॥अनन्तस्याप्रमेयस्य येनेयत्ता प्रकल्पिता ।आत्मनस्तस्य तेनात्मा स्वात्मनैवावशीकृतः ॥२३॥आत्मनो व्यतिरिक्तं यत्किंचिदस्ति जगत्त्रये ।यत्रोपादेयभावेन बद्धा भवतु वासना ॥२४॥आस्थामात्रमनन्तानां दुःखानामाकरं विदुः ।अनास्थामात्रमभितः सुखानामाकरं विदुः ॥२५॥दामव्यालकटा यावदनास्था भवसंस्थितौ ।तावन्न नाम जेयावो मशकानामिवानलाः ॥२६॥अन्तर्वासनया जन्तुर्दीनतामनुयातया ।जितो भवत्यन्यथा तु मशकोऽप्यमराचलः ॥२७॥विद्यते वासना यत्र तत्र सा याति पीनताम् ।गुणो गुणिनि हि द्वित्वं सतो दृष्टं हि नासतः ॥२८॥अयं सोऽहं ममेदं चेत्येवमन्तः सवासनम् ।यथा दामादयः शक्र भावयन्ति तथा कुरु ॥२९॥या या जनस्य विपदो भावाभावदशाश्च याः ।तृष्णाकरञ्जवल्ल्यास्ता मञ्जर्यः कटुकोमलाः ॥३०॥वासनातन्तुबद्धो यो लोको विपरिवर्तते ।सा प्रवृद्धातिदुःखाय सुखायोच्छेदमागता ॥३१॥धीरोऽप्यतिबहुज्ञोऽपि कुलजोऽपि महानपि ।तृष्णया बध्यते जन्तुः सिंहः शृङ्खलया यथा ॥३२॥देहपादपसंस्थस्य हृदयालयगामिनः ।तृष्णा चित्तखगस्येयं वागुरा परिकल्पिता ॥३३॥दीनो वासनया लोकः कृतान्तेनापकृष्यते ।रज्ज्वेव बालेन खगो विवशो भृशमुच्छवसन् ॥३४॥अलमायुधभारेण संगरभ्रमणेन च ।वासनाया विपर्यासं युक्त्या यत्नाद्रिपोः कुरु ॥३५॥अन्तरा क्षुभिते धैर्ये रिपोरमरनायक ।न शस्त्राणि न चास्त्राणि न शास्त्राणि जयन्ति च ॥३६॥दामव्यालकटास्त्वेते युद्धाभ्यासवशेन च ।अहंकारमयीं मत्तास्ते ग्रहीष्यन्ति वासनाम् ॥३७॥यदा तेऽत्यज्ञपुरुषाः शम्बरेण विनिर्मिताः ।वासनामाश्रयिष्यन्ति तदा यास्यन्ति जेयताम्॥३८॥तत्तावद्युक्तियुद्धेन तान्प्रबोधयतामराः ।यावदभ्यासवशतो भविष्यन्ति सवासनाः ॥३९॥ततो वश्या भविष्यन्ति भवतां बद्धवासनाः ।तृष्णाऽप्रोताशया लोके न च केचन पेलवाः ॥४०॥समविषममिदं जगत्समग्रंसमुपनतं स्थिरतां स्ववासनान्तः ।चलचललहरीभरो यथाब्धा-वत इह सैव चिकित्स्यतां प्रयाता ॥४१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे पितामहवाक्यं नाम सप्तविंशः सर्गः ॥२७॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP