स्थितिप्रकरणम् - सर्गः १
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
अथोत्पत्तिप्रकरणादनन्तरमिदं श्रृणु ।
स्थितिप्रकरणं राम ज्ञातं निर्वाणकारि यत् ॥१॥
एवं तावदिदं विद्धि दृश्यं जगदिति स्थितम् ।
अहं चेत्याद्यनाकारं भ्रान्तिमात्रमसन्मयम् ॥२॥
अकर्तृकमरङ्गं च गगने चित्रमुत्थितम् ।
अद्रष्टृकं चानुभवमनिद्रं स्वप्नदर्शनम् ॥३॥
भविष्यत्पुरनिर्माणं चित्तसंस्थमिवोदितम् ।
मर्कटानलतापान्तमसदेवार्थसाधकम् ॥४॥
ब्रह्मण्यनन्यदन्याभमम्ब्वावर्तवदास्थितम् ।
सद्रूमपि निःशून्यं तेजः सौरमिवाम्बरे ॥५॥
रत्नाभापुंजमिव खे दृश्यमानमभित्तिमत् ।
गन्धर्वाणां पुरमिव दृश्यं नित्यमभित्तिमत् ॥६॥
मृगतृष्णाम्ब्विवासत्यं सत्यवत्प्रत्ययप्रदम् ।
संकल्पपुरवत्प्रौढमनुभूतमसन्मयम् ॥७॥
कथार्थप्रतिभानात्म न क्वचित्स्थितमस्थितम् ।
निःसारमप्यतीवान्तःसारं स्वप्नाचलोपमम् ॥८॥
भूताकाशमिवाकारभासुरं शून्यमात्रकम् ।
शरदभ्रमिवाग्रस्थमलमक्षयमक्षतम् ॥९॥
वर्णो व्योममलस्येव दृश्यमानमवस्तुकम् ।
स्वप्नाङ्गनारताकारमर्थनिष्ठमनर्थकम् ॥१०॥
चित्रोद्यानमिवोत्फुल्लमरसं सरसाकृति ।
प्रकाशमपि निस्तेजश्चित्रार्कानलवत्स्थितम् ॥११॥
अनुभूतं मनोराज्यमिवासत्यमवास्तवम् ।
चित्रपद्माकर इव सारसौगन्ध्यवर्जितम् ॥१२॥
शून्ये प्रकचितं नानावर्णमाकारितात्मकम् ।
अपिण्डग्रहमाशून्यमिन्द्रचापमिवोत्थितम् ॥१३॥
परामर्शेन शुष्यद्भिर्भूतपेलवपल्लवैः ।
कृतं जडमसारात्म कदलीस्तम्भभासुरम् ॥१४॥
स्फुरितेक्षणदृष्टान्धकारचक्रकवर्तनम् ।
अत्यन्तमभवद्रूपमपि प्रत्यक्षवत्स्थितम् ॥१५॥
वार्बुद्बुदमिवाभोगि शून्यमन्तःस्फुरद्वपुः ।
रसात्मकं चाप्यरसमविच्छिन्नक्षयोदयम् ॥१६॥
नीहार इव विस्तारि गृहीतं सन्न किंचन ।
जडशून्यास्पदं शून्यं केषांचित्परमाणुवत् ॥१७॥
किंचिद्भूतमयोऽस्मीति स्थितं शून्यमभूतकम् ।
गृह्यमाणोऽप्यसद्रूपो निशाचर इवास्थितम् ॥१८॥
श्रीराम उवाच ।
महाकल्पक्षये दृश्यमास्ते बीज इवाङ्कुरः ।
परे भूय उदेत्येतत्तत एवेति किं वद ॥१९॥
एवं बोधाः किमज्ञाः स्युरुत ज्ञा इति च स्फुटम् ।
यथावद्भगवन्ब्रूहि सर्वसंशयशान्तये ॥२०॥
श्रीवसिष्ठ उवाच ।
इदं बीजेऽङ्कुर इव दृश्यमास्ते महाशये ।
ब्रूते य एवमज्ञत्वमेतत्तस्यास्ति शैशवम् ॥२१॥
श्रृण्वेतत्किमसंबन्धं कथमेतदवास्तवम् ।
विपरीतो बोध एष वक्तुः श्रोतुश्च मोहकृत् ॥२२॥
बीजे किलाङ्कुर इव जगदास्त इतीह या ।
बुद्धिः सा सत्प्रलापार्थं मूढा श्रृणु कथं किल ॥२३॥
बीजं भवेत्स्वयं दृश्यं चित्तादीन्द्रियगोचरम् ।
यवधानादिधान्यानि युक्तः पत्राङ्कुरोद्भवः ॥२४॥
मनःषष्ठेन्द्रियातीतं यत्स्यादतितरामणु ।
बीजं तद्भवितुं शक्तं स्वयंभूर्जगतां कथम् ॥२५॥
आकाशादपि सूक्ष्मस्य परस्य परमात्मनः ।
सर्वाख्यानुपलम्भस्य कीदृशी बीजता कथम् ॥२६॥
तत्सूक्ष्ममसदाभासमसदेव ह्यतादृशम् ।
कीदृशी बीजता तत्र बीजाभावे कुतोऽङ्कुरः ॥२७॥
गगनाङ्गादपि स्वच्छे शून्ये तत्र परे पदे ।
कथं सन्ति जगन्मेरुसमुद्रगगनादयः ॥२८॥
न किंचिद्यत्कथं किंचित्तत्रास्ते वस्तु वस्तुनि ।
अस्ति चेत्तत्कथं तत्र विद्यमानं न दृश्यते ॥२९॥
न किंचिदात्मनः किंचित्कथमेति कुतोऽथवा ।
शून्यरूपाद्धटाकाशाज्जातोऽद्रिः क्व कुतः कदा ॥३०॥
प्रतिपक्षे कथं किंचिदास्ते च्छायातपे यथा ।
कथमास्ते तमो भानौ कथमास्ते हिमोऽनले ॥३१॥
मेरुरास्ते कथमणौ कुतः किंचिदनाकृतौ ।
तदतद्रूपयोरैक्यं क्व च्छायातपयोरिव ॥३२॥
साकारवटधानादावङ्कुराः सन्ति युक्तिमत् ।
नाकारे तन्महाकारं जगदस्तीत्ययुक्तिकम् ॥३३॥
देशान्तरे यच्च नरान्तरे च
बुद्ध्यादिसर्वेन्द्रियशक्ति दृश्यम् ।
नास्त्येव तत्तद्विधबुद्धिबोधे
न किंचिदित्येव तदुच्यते च ॥३४॥
कार्यस्य तत्कारणतां प्रयातं
वक्तीति यस्तस्य विमूढबोधः ।
कैर्नाम तत्कार्यमुदेति तस्मा-
त्स्वैः कारणाद्यैः सहकारिरूपैः ॥३५॥
दुर्बुद्धिभिः कारणकार्यभावं
संकल्पितं दूरतरे व्युदस्य ।
तदेव तत्सत्यमनादिमध्यं
जगत्तदेतत्स्थितमित्यवेहि ॥३६॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु स्थितिप्रकरणे जन्यजनिनिराकरणं नाम प्रथमः सर्गः ॥१॥
N/A
References : N/A
Last Updated : September 14, 2021
TOP