स्थितिप्रकरणम् - सर्गः ६०
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
अस्मिन्भगवति ब्रह्मंश्चपलं पदमाश्रिते ।
पितामहे महाबाहो कृतसर्गव्यवस्थितौ ॥१॥
जगज्जीर्णारघट्टेऽस्मिन्वहति स्वव्यवस्थया ।
विप्रेतभूतघटया रज्वा जीविततृष्णया ॥२॥
ब्रह्मोत्थेषु च भूतेषु विशत्सु भवपञ्जरम् ।
आवर्तेष्वीश्वरव्योमवालमध्यविवर्तिषु ॥३॥
मनःस्वन्येषु वातान्तलोलाहतकणेष्विव ।
अनारतं विनिर्यान्ति विशन्त्यन्ये तथाभितः ॥४॥
राम ब्रह्मणि जीवौघास्तरङ्गा इव वारिधौ ।
अनाद्यन्तपदोत्पन्नाः कलनापदमागताः ॥५॥
भूताकाशं विशन्त्येते धूमश्रीरिव चाम्बुदम् ।
एकतां यान्ति जीवौघा ब्रह्मण्याकाशमारुतैः ॥६॥
दिनं तन्मात्रवातेन तत्प्राणात्मतया यथा ।
आक्रम्यन्ते प्रचण्डेन दैत्यौघेनामरा इव ॥७॥
भूतप्राणानिलं तेन गन्धवाहेन तेन च ।
निविशन्ति शरीरेषु जीवा गच्छन्ति वीर्यताम् ॥८॥
ततो जगति जायन्ते भवन्ति प्राणिनोऽस्फुटाः ।
अन्या धूमादिमाजाता राम जीवपरम्परा ॥९॥
तन्मात्रवति तावद्भिरशून्येऽम्बरकोटरे ।
उदेति यावद्भगवानिन्दुरुद्दाममण्डलः ॥१०॥
क्षीराम्बुधिनिधौ लोलैः पाण्डुवद्रश्मिभिर्जगत् ।
ततस्तेष्वतिरम्येषु चन्द्ररश्मिषु संपतत् ॥११॥
करोति विहगी लोला वने प्रेष्यान्तरेष्विव ।
तेभ्योऽपि स्वरसेनैव यान्ति पीवरतामपि ॥१२॥
फलेषु तेषु बघ्नाति पदमिन्दुकरात्क्षता ।
जीवाली क्षीरपूर्णेषु मातुः स्तनभरेष्विव ॥१३॥
ताः फलावलयः पक्वा भविष्यन्ति मरीचिभिः ।
तेष्वेव वीर्यमागत्य तिष्ठन्त्यप्राप्तबोधिताः ॥१४॥
प्रसुप्तवासनाजालजीवतागर्भपञ्जरम् ।
अधितिष्ठति बीजश्रीः सुप्तपत्रा यथा वटम् ॥१५॥
यथा काष्ठे स्थितश्चाग्निर्यथा मृदि घटाः स्थिताः ।
अनेकक्रमयोगेन परागत्य महेश्वरात् ॥१६॥
अदृष्टान्यशरीरश्रीः क्रमते यो न चोदति ।
स हि सत्येव जातिः स्यादुदारव्यवहारवान् ॥१७॥
तेनैव मोक्षभागी चेज्जन्मना स तु सात्त्विकः ।
अथैतां योनिमासाद्य कृत्यां जन्मपरम्पराम् ॥१८॥
रक्षार्थं प्राप्तजन्मा चेत्तमोराजससात्त्विकः ।
पाश्चात्यजन्मना पुंसो राम वक्ष्यामि चाधुना ॥१९॥
प्राधान्येन यथाऽऽयातः संसारमिति सात्त्विकः ।
स कदाचिन्न कश्चिच्च संभवत्यनघाकृते ॥२०॥
संभवन्तीह पुरुषा राम राजससात्त्विकाः ।
प्रविचार्य समायाता मन्तव्यं चेह तद्धिया ॥२१॥
प्राधान्येन समायाता ये यदा परमात्मनः ।
दुर्लभाः पुरुषा राम ते महागुणशालिनः ॥२२॥
ये चान्ये विविधा मूढा मूकास्तामसजातयः ।
तेषां स्थावरतुल्यानां किंच राम विचार्यते ॥२३॥
कतिपया न गता भवभावनां नरसुराः प्रकृतक्रमजन्मनि ।
अहमिव प्रविचारणयोग्यतामनुगतो ननु राजससात्त्विकः ॥२४॥
स्थितस्य ते महापदाविचार्ययैवमायता ।
विचारय त्वमञ्जसा तदद्य चेह न द्वयम् ॥२५॥
इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थिति० विचारपुरुषनिर्णयप्रसङ्गोपदेशजीवावतारो नाम षष्टितमः सर्गः ॥६०॥
N/A
References : N/A
Last Updated : September 18, 2021
TOP