संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्|

स्थितिप्रकरणम् - सर्गः ४१

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीराम उवाच ।
क्षीरोदकुक्षितुल्याभिः शीतलामलदीप्तिभिः ।
तवोक्तिभिर्विचित्राभिर्गम्भीराभिरिवाभितः ॥१॥
क्षणमान्ध्यमिवाप्नोमि क्षणं यामि प्रकाशताम् ।
शान्तातपलवः प्रावृड्लोलाभ्र इव वासरः ॥२॥
अनन्तस्याप्रमेयस्य सर्वस्यैकस्य भास्वतः ।
अनस्तमितसारस्य कलना कथमागता ॥३॥
श्रीवसिष्ठ उवाच ।
यथाभूतार्थवाक्यार्थाः सर्वा एव ममोक्तयः ।
नासमर्था विरूपार्थाः पूर्वापरविरोधदाः ॥४॥
ज्ञानदृष्टौ प्रसन्नायां प्रबोधे विततोदये ।
यथावज्ज्ञास्यसि स्वस्थो मद्वाग्दृष्टिबलाबलम् ॥५॥
उपदेश्योपदेशार्थं शास्त्रार्थप्रतिपत्तये ।
शब्दार्थवाक्यरचनाभ्रमो मा तन्मयो भव ॥६॥
यदा पुरा ज्ञास्यसि तत्सत्यमत्यन्तनिर्मलम्।
वाच्यवाचकशब्दार्थभेदं त्यक्ष्यसि वै तदा ॥७॥
भेदकृद्वाक्प्रपञ्चोऽयमुपदेश्येषु कल्पितः ।
उपदेश्योपदेशार्थं शास्त्रार्थप्रतिपत्तये ॥८॥
शब्दार्थवाक्प्रपञ्चोऽयमुपदेशेषु कल्पितः ।
सदाऽज्ञेषु न तज्ज्ञेषु विद्यते पारमार्थिकः ॥९॥
कलनामलमोहादि किंचिन्नात्मनि विद्यते ।
नीरागं ब्रह्म परमं तदेवेदं जगत्स्थितम् ॥१०॥
एतद्विचित्ररूपाभिर्युक्तिभिर्बहुशः पुनः ।
विस्तरेणैव वक्तव्यं सिद्धान्तावसरेऽनघ ॥११॥
वाक्प्रपञ्चं विना त्वेतदज्ञानमतुलं तमः ।
भेत्तुमन्योन्यमुदितं यत्नं कर्तुं न शक्यते ॥१२॥
अविद्ययैवोत्तमया स्वात्मनाशोद्यमेच्छया ।
विद्या सा प्रार्थ्यते राम सर्वदोषापहारिणी ॥१३॥
शाम्यति ह्यस्त्रमस्त्रेण मलेन क्षाल्यते मलः ।
शमं विषं विषेणैति रिपुणा हन्यते रिपुः ॥१४॥
ईदृशी राम मायेयं यां स्वनाशेन हर्षदा ।
न लक्ष्यते स्वभावोऽस्याः प्रेक्ष्यमाणैव नश्यति ॥१५॥
विवेकमाच्छादयति जगन्ति जनयत्यलम् ।
नच विज्ञायते कैषा पश्याश्चर्यमिदं जगत् ॥१६॥
अप्रेक्ष्यमाणा स्फुरति प्रेक्षिता सु विनश्यति ।
मायेयमपरिज्ञायमानरूपैव वल्गति ॥१७॥
अहो नु खलु चित्रेयं माया संसारबन्धनी ।
असत्येवातिसत्येव स्वज्ञानं विहितं तया ॥१८॥
अत्यभिन्नपदे तस्मिंस्तन्वाना भेदमाततम् ।
संसारमाया येनासौ तेनासौ पुरुषोत्तमः ॥१९॥
नास्त्येषा परमार्थे न त्वेवं भावनयेद्धया ।
ज्ञो भूत्वा ज्ञेयसंप्राप्तो ज्ञास्यस्यस्यास्त्वमाशयम् ॥२०॥
यावत्तु न प्रबुद्धस्त्वं तावन्मद्वचसैव ते ।
 निश्चयो भवतूद्दामो नास्त्यविद्येति निश्चलः ॥२१॥
यदिदं दृश्यतां यातं मानसं मननं महत् ।
असन्मात्रमिदं यस्मान्मनोमात्रविजृम्भितम् ॥२२॥
सत्तद्ब्रह्मेति यस्यान्तर्निश्चयः सोऽपि मोक्षभाक् ।
चलाचलाकृतिर्या या दृष्टिरावद्धभावना ॥२३॥
सा समग्रजगद्भूतखगबन्धनवागुरा ।
यः स्वप्नभूमिवद्भ्रान्तमसत्सद्ह्येकनिश्चयः ॥२४॥
जगत्पश्यत्यसक्तात्मा न स दुःखे निमज्जति ।
यस्यैतास्वस्वरूपासु भावना स्वात्मभावना ॥२५॥
अस्वरूपस्य तस्यापि सा ह्यविद्यैव विद्यते ।
विकारितादयो दोषा न केचन महात्मनि ॥२६॥
परमात्मनि विद्यन्ते पयसीवेह पांसवः ।
भावनाशब्दशब्दार्थरञ्जनेयं जगद्गता ॥२७॥
व्यवहारार्थमुत्पन्ना व्यतिरिक्ता च नात्मनः ।
अनेन व्यवहारेण विनैताः शास्त्रदृष्टयः ॥२८॥
संस्थितिं नाधिगच्छन्ति पटा इव वितन्तवः ।
उह्यमानो ह्यविद्यायामात्मा नेहोपलक्ष्यते ॥२९॥
आत्मज्ञानादृते तच्च शास्त्रार्थात्समवाप्यते ।
अविद्यासरितः पारमात्मलाभादृते किल ॥३०॥
राम नासाद्यते तद्धि पदमक्षयमुच्यते ।
यतःकुतश्चिज्जातेयमविद्या मलदायिनी ॥३१॥
नूनं स्थितिमुपायाता समासाद्य पदं स्थिता ।
कुतो जातेयमिति ते राम मास्तु विचारणा ॥३२॥
इमां कथमहं हन्मीत्येषा तेऽस्तु विचारणा ।
अस्तं गतायां क्षीणायामस्यां ज्ञास्यसि राघव ॥३३॥
यत एषा यथा चैषा यथा नष्टेत्यखण्डितम् ।
वस्तुतः किल नास्त्येषा विभात्येषा न वेक्षिता ॥३४॥
असतो भ्रान्तता सत्यरूपां जानातु कः कुतः ।
जातेयं प्रौढिमापन्ना दोषायैवातताकृतिः ॥३५॥
बलात्प्रणाशय त्वेनां परिज्ञास्यसि वै ततः ।
अपि शूरा अतिप्राज्ञास्ते न सन्ति जगत्त्रये ॥३६॥
अविद्यया ये पुरुषा न नाम विवशीकृताः ।
तदस्या रोगशीलाया यत्नं कुरु विनाशने ॥३७॥
यथैषा जन्मदुःखेषु न भूयस्त्वां नियोक्ष्यति ।
सर्वापदामेकसखीमज्ञानतरुमञ्जरीम् ।
अनर्थसार्थजननीमविद्यामलमुद्धर ॥३८॥
भयविषाददुराधिविपत्प्रदां
हृदयमोहमहापटलांकुराम् ।
भृशमपास्य कुदृष्टिमिमां बला-
द्भव भवार्णवपारमुपागतः ॥३९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे अविद्याकथनं नामैकचत्वारिशः सर्गः ॥४१॥

N/A

References : N/A
Last Updated : September 18, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP