संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः २२ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः २२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।जन्तोः कृतविचारस्य विगलद्वृत्तिचेतसः ।मननं त्यजतो ज्ञात्वा किंचित्परिणतात्मनः ॥१॥दृश्यं संत्यजतो हेयमुपादेयमुपेयुषः ।द्रष्टारं पश्यतो दृश्यमद्रष्टारमपश्यतः ॥२॥जागर्तव्ये परे तत्त्वे जागरूकस्य जीवतः ।सुप्तस्य घनसंमोहमये संसारवर्त्मनि ॥३॥पर्यन्तात्यन्तवैराग्यात्सरसेष्वरसेष्वपि ।भोगेष्वाभोगरम्येषु विरक्तस्य निराशिषः ॥४॥व्रजत्यात्माम्भसैकत्वं जीर्णंजाड्ये नभस्यलम् ।गलत्यपगतासङ्गे हिमापूर इवातपे ॥५॥तरङ्गितासु कल्लोलजललोलान्तरासु च ।शाम्यन्तीष्वथ तृष्णासु नदीष्विव घनात्यये ॥६॥संसारवासनाजाले खगजाल इवाखुना ।त्रोटिते हृदयग्रन्थौ श्लथे वैराग्यरंहसा ॥७॥कातकं फलमासाद्य यथा वारि प्रसीदति ।तथा विज्ञानवशतः स्वभावः संप्रसीदति ॥८॥नीरागं निरुपासङ्गं निर्द्वन्द्वं निरुपाश्रयम् ।विनिर्याति मनो मोहाद्विहगः पञ्जरादिव ॥९॥शान्ते संदेहदौरात्म्ये गतकौतुकविभ्रमम् ।परिपूर्णान्तरं चेतः पूर्णेन्दुरिव राजते ॥१०॥जनितोत्तमसौन्दर्या दूरादस्तमयोन्नता ।समतोदेति सर्वत्र शान्ते वात इवार्णवे ॥११॥अन्धकारमयी मूका जाड्यजर्जरितान्तरा ।तनुत्वमेति संसारवासनेवोदये क्षपा ॥१२॥दृष्टचिद्भास्करा प्रज्ञापद्मिनी पुण्यपल्लवा ।विकसत्यमलोद्योता प्रातर्द्यौरिव रूपिणी ॥१३॥प्रज्ञा हृदयहारिण्यो भुवनाह्लादनक्षमाः ।सत्त्वलब्धाः प्रवर्धन्ते सकलेन्दोरिवांशवः ॥१४॥बहुनात्र किमुक्तेन ज्ञातज्ञेयो महामतिः ।नोदेति नैव यात्यस्तमभूताकाशकोशवत् ॥१५॥विचारणा परिज्ञातस्वभावस्योदितात्मनः ।अनुकम्प्या भवन्तीह ब्रह्मविष्ण्विन्द्रशंकराः ॥१६॥प्रकटाकारमप्यन्तर्निरहंकारचेतसम् ।नाप्नुवन्ति विकल्पास्तं मृगतृष्णामिवैणकाः ॥१७॥तरङ्गवदिमे लोकाः प्रयान्त्यायान्ति चेतसः ।क्रोडीकुर्वन्ति चाज्ञं ते न ज्ञं मरणजन्मनी ॥१८॥आविर्भावतिरोभावौ संसारो नेतरक्रमः ।इति ताभ्यां समालोको रमते स निबध्यते ॥१९॥न जायते न म्रियते कुम्भे कुम्भनभो यथा ।भूषिते दूषिते वापि देहे तद्वदिहात्मवान् ॥२०॥विवेक उदिते शीते मिथ्या भ्रममरूदिता ।क्षीयते वासना साग्रे मृगतृष्णा मराविव ॥२१॥कोऽहं कथमिदं चेति यावन्न प्रविचारितम् ।संसाराडम्बरं तावदन्धकारोपमं स्थितम् ॥२२॥मिथ्याभ्रमभरोद्भूतं शरीरं पदमापदाम् ।आत्मभावनया नेदं यः पश्यति स पश्यति ॥२३॥देशकालवशोत्थानि न ममेति गतभ्रमम् ।शरीरे सुखदुःखानि यः पश्यति स पश्यति ॥२४॥अपारपर्यन्तनभो दिक्कालादिक्रियान्वितम् ।अहमेवेति सर्वत्र यः पश्यति स पश्यति ॥२५॥वालाग्रलक्षभागात्तु कोटिशः परिकल्पितात् ।अहं सूक्ष्म इति व्यापी यः पश्यति स पश्यति॥२६॥आत्मानमितरच्चैव दृष्ट्या नित्याविभिन्नया ।सर्वं चिज्ज्योतिरेवेति यः पश्यति स पश्यति ॥२७॥सर्वशक्तिरनन्तात्मा सर्वभावान्तरस्थितः ।अद्वितीयश्चिदित्यन्तर्यः पश्यति स पश्यति ॥२८॥आधिव्याधिभयोद्विग्नो जरामरणजन्मवान् ।देहोऽहमिति यः प्राज्ञो न पश्यति स पश्यति ॥२९॥तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा मम ।द्वितीयो न ममास्तीति यः पश्यति स पश्यति ॥३०॥मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।चित्तं तु नाहमेवेति यः पश्यति स पश्यति ॥३१॥नाहं न चान्यदस्तीति ब्रह्मैवास्ति निरामयम् ।इत्थं सदसतोर्मध्ये यः पश्यति स पश्यति ॥३२॥यन्नाम किंचित्त्रैलोक्यं स एवावयवो मम ।तरङ्गोऽब्धाविवेत्यन्तर्यः पश्यति स पश्यति ॥३३॥शोच्या पाल्या मयैवेयं स्वसेयं मे कनीयसी ।त्रिलोकी पेलवेत्युच्चैर्यः पश्यति स पश्यति ॥३४॥आत्मतापरते त्वत्तामत्ते यस्य महात्मनः ।भवादुपरते नूनं स पश्यति सुलोचनः ॥३५॥चेत्यानुपातरहितं चिद्भैरवमयं वपुः ।आपूरितजगज्जालं यः पश्यति स पश्यति ॥३६॥सुखं दुःखं भवो भावो विवेककलनाश्च याः ।अहमेवेति वा नूनं पश्यन्नपि न हीयते ॥३७॥स्वात्मसत्तापरापूर्णे जगत्यंशेन वर्तिना ।किं मे हेयं किमादेयमिति पश्यन्सुद्दङ्गरः ॥३८॥अप्रतर्क्यमनाभासं सन्मात्रमिदमित्यलम् ।हेयोपादेयकलना यस्य क्षीणा स वै पुमान् ॥३९॥य आकाशवदेकात्मा सर्वभावगतोऽपि सन् ।न भावरञ्जनामेति स महात्मा महेश्वरः ॥४०॥तमःप्रकाशकलनामुक्तः कालात्मतां गतः ।यः सौम्यः सुसमः स्वस्थस्तं नौमि पदमागतम् ॥४१॥यस्योदयास्तमयसंकलनाकलासुचित्रासु चारुविभवासु जगद्गतासु ।वृत्तिः सदैव सकलैकमतेरनन्तातस्मै नमः परमबोधवते शिवाय ॥४२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे अनुत्तमपदविश्रान्तिवर्णनं नाम द्वाविंशः सर्गः ॥२२॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP