संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ४७ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ४७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४७ Translation - भाषांतर श्रीराम उवाच ।भगवन्सर्वधर्मज्ञ सर्ववेदाङ्गपारग ।आश्वस्त इव तिष्ठामि शुद्धाभिर्भवदुक्तिभिः ॥१॥उदाराणि विविक्तानि पेशलान्युदितानि च ।श्रोतुं तृप्ति न गच्छामि वचांसि वदतस्तव ॥२॥जात्या राजससात्त्विक्याः कथनावसरान्तरे ।उत्पत्तिर्भवता प्रोक्ता शास्त्रैः कमलजन्मनः ॥३॥श्रीवसिष्ठ उवाच ।बहूनि ब्रह्मलक्षाणि शंकरेन्द्रशतानि च ।नारायणसहस्राणि समतीतानि राघव ॥४॥अन्येषु च विचित्रेषु ब्रह्माण्डेषु च भूरिशः ।नानाचारविहाराणि विहरन्ति सहस्रशः ॥५॥तुल्यकालमनन्तेषु कालान्तरभवेषु च ।जगत्सु प्रोद्भविष्यन्ति बहून्यन्यानि भूरिशः ॥६॥तेषामब्जोद्भवादीनां ब्रह्माण्डेषु दिवौकसाम् ।उत्पत्तयो महाबाहो विचित्राभ्युत्थिता इव ॥७॥कदाचित्सृष्टयः शार्व्यः कदाचित्पद्मजोद्भवाः ।कदाचिदपि वैष्णव्यः कदाचिन्मुनिनिर्मिताः ॥८॥कदाचित्पद्मजो ब्रह्मा कदाचित्सलिलोद्भवः ।अण्डोद्भवः कदाचित्तु कदाचिज्जायतेऽम्बरात् ॥९॥कस्मिंश्चिदण्डे त्र्यक्षोऽर्कः कस्मिंश्चिदपि वासवः ।कस्मिंश्चित्पुण्डरीकाक्षः कस्मिंश्चित्त्र्यक्ष एव हि ॥१०॥कस्यांचिद्भूरभूत्सृष्टौ नीरन्ध्रतरुसंकटा ।कस्यांचिन्नरनीरन्ध्रा कस्यांचिद्भूधरावृता ॥११॥भूरभून्मृन्मयी काचित्काचिदासीद्दृषन्मयी ।आसीद्धेममयी काचित्काचित्ताम्रमयी तथा ॥१२॥इहैव कानि चित्राणि जगन्त्यन्यान्यथान्यथा ।अन्यान्येकैकलोकानि निर्महांस्यपि कानिचित् ॥१३॥अनन्तानि जगन्त्यस्मिन्ब्रह्मतत्त्वमहाम्बरे ।अम्भोधिवीचिजलवन्निमज्जन्त्युद्भवन्ति च ॥१४॥यथा तरङ्गा जलधौ मृगतृष्णा मरौ यथा ।कुसुमानि यथा चूते तथा विश्वश्रियः परे ॥१५॥भानोर्गणयितुं शक्या रश्मिषु त्रसरेणवः ।आलोलवपुषो ब्रह्म तत्त्वेन जगतां गणाः ॥१६॥यथा मशकजालानि वर्षादिष्वाकुलानि तु ।उत्पत्त्योत्पत्त्य नश्यन्ति तथेमा लोकसृष्टयः ॥१७॥न च विज्ञायते कस्मात्कालात्प्रभृति चागताः ।नित्यागमापायपरा एताः सर्गपरम्पराः ॥१८॥अनादिमत्योऽविरतं प्रस्फुरन्ति तरङ्गवत् ।पूर्वात्पूर्वं किलाभूवंस्ततः पूर्वतरं यथा ॥१९॥भूत्वा भूत्वा प्रलीयन्ते ससुरासुरमानवाः ।सरित्तङ्गभङ्ग्यैव समस्ता भूतजातयः ॥२०॥यथेदमण्डं वैरिञ्चं तथा ब्रह्माण्डपङ्क्तयः ।याः सहस्राः परिक्षीणा नाडिका वत्सरेष्विव ॥२१॥अन्याः संप्रति विद्यन्ते वर्तमानशरीरकाः ।प्रान्ते ब्रह्मपुरस्यास्य वितते ब्रह्मणः पदे ॥२२॥ब्रह्मण्यन्या भविष्यन्ति ब्राह्म्यो ब्रह्मपुरश्रियः ।पुनस्ताश्च विनङ्क्ष्यन्ति भूत्वा भूत्वा यथा गिरः ॥२३॥ब्रह्मण्यन्या भविष्यन्त्यः स्थिताः सर्गपरम्पराः ।घटा इव मृदो राशावङ्कुरे पल्लवा इव ॥२४॥यावद्ब्रह्म चिदाकाशे तथा त्रिभुवनश्रियः ।स्फाराकारविकाराढ्याः प्रेक्ष्यमाणा न किंचन ॥२५॥उन्मज्जन्त्यो निमज्जन्त्यो न सत्या नाप्यसच्छ्रियः ।जडारम्भा वितन्वन्त्यस्ता एव खलता इव ॥२६॥तरङ्गसमधर्मिण्यो दृष्टनष्टशरीरकाः ।सर्वासां सृष्टिराशीनां चित्राकारविचेष्टिताः ॥२७॥चित्राकारविकाराश्च चित्ररूपा हि सृष्टयः ।व्यतिरिक्ता न सर्वेषां समस्ताः सृष्टिदृष्टयः ॥२८॥तत्त्वज्ञविषये राम सलिलादिव वृष्टयः ।आयान्ति सृष्टयो देवाज्जलदादिव वृष्टयः ॥२९॥व्यतिरिक्ता न सर्वेषां समस्ताः सृष्टिदृष्टयः ।व्यतिरिक्ता द्रवाम्भोधिस्वाष्ठीलाः शाल्मलेरिव ॥३०॥इह सृष्टिषु पुष्टासु निकृष्टासु च राघव ।परमान्नभसो जातास्तन्मात्रमलमालिका ॥३१॥कदाचित्प्रथमं व्योम प्रतिष्ठामधिगच्छति ।ततः प्रजायते ब्रह्मा व्योमजोऽसौ प्रजापतिः ॥३२॥कदाचित्प्रथमं वायुः प्रतिष्ठामधिगच्छति ।ततः प्रजायते ब्रह्मा वायुजोऽसौ प्रजापतिः ॥३३॥कदाचित्प्रथमं तेजः प्रतिष्ठामधिगच्छति ।ततः प्रजायते कर्ता तेजसोऽसौ प्रजापतिः ॥३४॥कदाचित्प्रथमं वारि प्रतिष्ठामधिगच्छति ।ततः प्रजायते ब्रह्मा वारिजोऽसौ प्रजापतिः ॥३५॥कदाचित्प्रथमं पृथ्वी स्फारतामधिगच्छति ।ततः प्रजायते ब्रह्मा पार्थिवोऽसौ प्रजापतिः ॥३६॥इदं चत्वारि संपीड्य पञ्चमं वर्धते यदा ।तदा तज्जात एवैष कुरुते जागतीं क्रियाम् ॥३७॥कदाचिदप्सु वायौ वा सुस्फारे वापि तेजसि ।स्वयं संपद्यतेऽकस्मात्पुमान्प्रकृतिभावितः ॥३८॥तस्याथ शब्दो वदनात्कदाचिज्जायते पदात् ।कदाचिदंशात्पृष्ठाद्वा कदाचिल्लोचनात्करात् ॥३९॥कदाचित्पुरुषस्यास्य नाभौ पद्मं प्रजायते ।तस्मिन्संवधते ब्रह्मा पद्मजोऽसौ प्रकीर्तितः ॥४०॥मायेयं स्वप्नवद्भ्रान्तिर्मिथ्यारचितचक्रिका ।मनोराज्यमिवालोलसलिलावर्तसुन्दरी ॥४१॥किमिवास्यां वद ज्ञप्तौ कथं संभवतीह ते ।क्वचिद्बालमनोराज्यमिदं पर्यनुयुज्यते ॥४२॥कदाचिदम्बरे शुद्धे मनस्तत्त्वानुरञ्जनात् ।सौवर्णं ब्रह्मगर्भं च स्वयमण्डं प्रवर्तते ॥४३॥कदाचिदेव पुरुषो वीर्यं सृजति वारिणि ।तस्मात्प्रजायते पद्मं ब्रह्माण्डमथवा महत् ॥४४॥तस्मात्प्रजायते ब्रह्मा कदाचिद्भास्करोऽप्यसौ ।कदाचिद्वरुणो ब्रह्मा कदाचिद्वायुरण्डजः ॥४५॥एवमन्तर्विहीनासु विचित्रास्विह सृष्टिषु ।विचित्रोत्पत्तयो राम ब्रह्मणो विविधा गताः ॥४६॥निदर्शनार्थं सृष्टेस्तु मयैकस्य प्रजापतेः ।भवते कथितोत्पत्तिर्न तत्र नियमः क्वचित् ॥४७॥मनोविजृम्भणमिदं संसार इति संमतम् ।संबोधनाय भवतः सृष्टिक्रम उदाहृतः ॥४८॥सात्त्विकीप्रभृतयो याश्च जातयश्चेत्थमागताः ।इति ते कथनायैष सृष्टिक्रम उदाहृतः ॥४९॥पुनः सृष्टिः पुनर्नाशः पुनर्दुःखं पुनः सुखम् ।पुनरज्ञः पुनस्तज्ज्ञो बन्धमोक्षदृशः पुनः ॥५०॥पुनः सृष्टिकराऽवीतवीतस्नेहदृशः पुनः ।दीपा इव कृतालोकाः प्रशाम्यन्त्युद्भवन्ति च ॥५१॥देहोत्पत्तौ विनाशे च दीपानां ब्रह्मणामपि ।कालेनाधिकतां त्यक्त्वा नाशे भेदो न कश्चन ॥५२॥पुनः कृतं पुनस्त्रेता पुनः स द्वापरः कलिः ।पुनरावर्तते सर्वं चक्रावर्ततया जगत् ॥५३॥पुनर्मन्वन्तरारम्भाः पुनः कल्पपरम्पराः ।पुनः पुनः कार्यदशाः प्रातः प्रातरहो यथा ॥५४॥लोकालोककलाकालकलनाकलितान्तरम् ।पुनःपुनरिदं सर्वं न किंचन पुनःपुनः ॥५५॥अनाहते प्रतप्तेऽयःपिण्डेऽनलकणा इव ।इमे भावाः स्थिता नित्यं चिदाकाशे स्वभावतः ॥५६॥कदाचिदनभिव्यक्तं कदाचिद्व्यक्तिमागतम् ।इदमस्ति परे तत्त्वे सर्वं वृक्ष इवार्तवम् ॥५७॥चित्स्पन्द एव सर्वात्मा सर्वदैवेदृशाकृतिः ।यदस्माज्जायते सर्गो द्वीन्दुत्वमिव लोचनात् ॥५८॥चितः सर्वाः समायान्ति संतताः सृष्टिदृष्टयः ।तत्स्था एवाप्यतत्स्थाभाश्चन्द्रादिव मरीचयः ॥५९॥न कदाचन संसारः किलायं राम सत्सदा ।सर्वशक्तावसंसारशक्तिता विद्यते यतः ॥६०॥न चैवेदं कदाचित्तु साधो जगदनीदृशम् ।सर्वशक्तौ हि संसारशक्तिता विद्यते यतः ॥६२॥महाकल्पावधिः कालेन संसारितयेद्धया ।न भविष्यति संसार इदानीमिति युज्यते ॥६२॥ज्ञदृष्ट्या सर्वमेवेदं ब्रह्मैवेति महामते ।नास्ति संसार इत्येतदुपपद्यत एव च ॥६३॥अज्ञदृष्ट्या त्वविच्छिन्नसंसारत्वादनारतम् ।नित्या संसारमायेयं मिथ्यापीहोपपद्यते ॥६४॥पुनःपुनश्च भावित्वान्न कदाचिदनीदृशम् ।जगदित्येतदित्युक्तं न मृषा रघुनन्दन ॥६अनारतपतद्रूपा दिशो दृष्टा विनश्वराः ।विनाशीदं जगत्सर्वमिति किं नोपपद्यते ॥६६॥सर्वत्रोदितचन्द्रार्का दिशो दृष्टाः स्थिराचलाः ।अविनाशि जगत्सर्वमित्यप्यवितथोपमम् ॥६७॥न तदस्ति न यत्तस्मिन्नेकस्मिन्विततात्मनि ।संकल्पकलनाजालमनाख्ये नोपपद्यते ॥६८॥पुनःपुनरिदं सर्वं पुनर्मरणजन्मनी ।पुनः सुखं पुनर्दुःखं पुनः करणकर्मणी ॥६९॥पुनराशाः पुनर्व्योम पुनरम्भोधयोऽद्रयः ।अभ्युदेति पुनः सृष्टिः खवदर्कप्रभा यथा ॥७०॥पुनर्दैत्याः पुनर्देवाः पुनर्लोकान्तरक्रमाः ।पुनः स्वर्गापवर्गेहाः पुनरिन्द्रः पुनः शशी ॥७१॥पुनर्नारायणो देवः पुनर्दनुसुतादयः ।पुनराशाचलच्चारुचन्द्रार्कवरुणानिलाः ॥७२॥सुमेरुकर्णिकाकान्ता सह्यकेसरशालिनी ।पूर्णा स्फीतोदरोदेति रोदसी नलिनी पुनः ॥७३॥व्योमकाननमाक्रम्य वल्गत्यंशुनखोत्करैः ।तमःकरिघटा भेत्तुं पुनर्भास्करकेसरी ॥७४॥पुनरिन्दुश्चलत्स्वच्छमञ्जरीसुन्दरैः करैः ।करोत्यमृतमाह्लादि दिग्वधूमुखमण्डनम् ॥७५॥पुनः स्वर्गतरोः पुण्यक्षयवातसमीरिताः ।पतन्तीह विनुन्नाङ्गाः पुण्यकृत्पुष्पराशयः ॥७६॥पुनः कार्यक्रियापक्षैः संसारारम्भनामकम् ।किंचित्पटपटं कृत्वा याति कालकपिञ्जलः ॥७७॥पुनरिन्द्रादिके याते सज्जमास्थाय केवलम् ।आयात्यपरदेवेन्द्रषट्पदः स्वर्गपङ्कजम् ॥७८॥पुनः कालं कृतापूतं कलुषीकुरुते कलिः ।सचक्रिणमिवाम्भोधिं प्रवृद्धोऽवकरानिलः ॥७९॥पुन कालकुलालेन कृतभूतशरावकम् ।चक्रमावर्त्यते वेगादजस्रं कल्पनामकम् ॥८०॥पुनर्नीरसतामेति जगदस्तशुभस्थिति ।अभ्यासीभूतसंकल्पं संशुष्कमिव काननम् ॥८१॥पुनरर्कगणेष्वग्निदग्धानन्तकलेवरम् ।सर्वभूतास्थिसंपूर्णं जगदेति श्मशानताम् ॥८२॥पुनः कुलाचलाकारपुष्करावर्तवर्षणैः ।नृत्यद्भवबृहत्फेनां यात्येकार्णवतां जगत् ॥८३॥पुनः संशान्तवाय्वम्बुरिक्तं सकलवस्तुभिः ।तदपूर्वमिवाकाशं जगदायाति शून्यताम् ॥८४पुनः कतिपया भुक्त्वा समाः समरसाशयः ॥जीवितं जीर्णया तन्वा पुनः स्वात्मनि लीयते ॥८५पुनरन्येन कालेन तथैव जगतां गणान् ।मनस्तनोति वै शून्ये गन्धर्वनगरं यथा ॥८६पुरः सर्गसमारम्भः प्रलये सर्वसंभवः ।सर्वं पुनरिदं राम चक्रवत्परिवर्तते ॥८७किमेतस्मिन्महामायाडम्बरे दीर्घशम्बरे ।राम सत्यमसत्यं वा निर्णेयं यदिहोच्यते ॥८७॥दाशूराख्यायिकेवेयं राम संसारचक्रिका ।कल्पनारचिताकारा वस्तुशून्या न वस्तुतः ॥८९॥अविरलमिदमाततं विकल्पैरसदुदितैरपि तैर्द्विचन्द्रकल्पैः ।विरचितमसतानुपन्नसत्यं जगदिह तेन विमूढता किमुत्था ॥९०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे जगद्वासनिर्णययोगोपदेशो नाम सप्तचत्वारिंशः सर्गः ॥४७॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP